阿闼婆吠陀 · 颂诗(Sūkta) 4.26
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.26.1
मन्वे वां द्यावापृथिवी सुभोजसौ सचेतसौ ये अप्रथेथाममिता योजनानि ।
प्रतिष्ठे ह्यभवतं वसूनां ते नो मुञ्चतमंहसः ॥ ४.२६.१ ॥
我赞颂那二位天地神明,她们慷慨供养、心意一致,延展于无量由旬之远。你们已成为财富的坚固根基;愿你们使我们脱离苦难。
4.26.2
प्रतिष्ठे ह्यभवतं वसूनां प्रवृद्धे देवी सुभगे उरूची ।
द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥ ४.२६.२ ॥
你们已成为财富的坚固根基;伟大、广阔、吉祥的女神啊。天地二神,请对我慈悲;愿你们使我们脱离苦难。
4.26.3
असन्तापे सुतपसौ हुवेऽहमुर्वी गम्भीरे कविभिर्नमस्ये ।
द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥ ४.२६.३ ॥
我呼唤那二位不灼伤、有良好苦行、广阔而深邃、为诗人所敬礼的神明。天地二神,请对我慈悲;愿你们使我们脱离苦难。
4.26.4
ये अमृतं बिभृथो ये हवींषि ये स्रोत्या बिभृथो ये मनुष्यान् ।
द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥ ४.२६.४ ॥
你们承载不死之甘露,承载祭品,承载流动的泉源,承载世人。天地二神,请对我慈悲;愿你们使我们脱离苦难。
4.26.5
ये उस्रिया बिभृथो ये वनस्पतीन् ययोर्वां विश्वा भुवनान्यन्तः ।
द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥ ४.२६.५ ॥
你们承载乳牛,承载树木与草木;在你们二者之内,有一切世界。天地二神,请对我慈悲;愿你们使我们脱离苦难。
4.26.6
ये कीलालेन तर्पयथो ये घृतेन याभ्यामृते न किं चन शक्नुवन्ति ।
द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥ ४.२६.६ ॥
你们以甘露(kīlāla)令人满足,以酥油(ghṛta)令人满足,没有你们便无所成就:天地啊,请对我慈善;请使我们脱离灾难。
4.26.7
यन् मेदमभिशोचति येनयेन वा कृतं पौरुषेयान् न दैवात् ।
स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतमंहसः ॥ ४.२६.७ ॥
此物灼烧我,无论以何种方式造成,无论来自人为还是神意:我赞颂天地,作为求助者呼唤你们;请使我们脱离灾难。