阿闼婆吠陀 · 颂诗(Sūkta) 4.27
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.27.1
मरुतां मन्वे अधि मे ब्रुवन्तु प्रेमं वाजं वाजसाते अवन्तु ।
आशून् इव सुयमान् अह्व ऊतये ते नो मुञ्चन्त्वंहसः ॥ ४.२७.१ ॥
我敬礼摩禄多(Marut);愿他们为我说话,向前护卫力量。如同在赢得战利品时迅捷、驾驭得当的骏马,我为护佑而呼唤他们;愿他们使我们脱离罪过。
4.27.2
उत्समक्षितं व्यचन्ति ये सदा य आसिञ्चन्ति रसमोषधीषु ।
पुरो दधे मरुतः पृश्निमातॄंस्ते नो मुञ्चन्त्वंहसः ॥ ४.२७.२ ॥
那些常开不竭之泉、将汁液注入草木的摩禄多(Marut)——我已将他们置于面前,他们是斑纹之母(云)的形象。愿他们使我们脱离罪过。
4.27.3
पयो धेनूनां रसमोषधीनां जवमर्वतां कवयो य इन्वथ ।
शग्मा भवन्तु मरुतो नः स्योनास्ते नो मुञ्चन्त्वंहसः ॥ ४.२७.३ ॥
哦,智慧的摩禄多,你们推动牛乳、草木之汁与马匹之速——愿你们对我们慈悲而吉祥。愿他们使我们脱离罪过。
4.27.4
अपः समुद्राद्दिवमुद्वहन्ति दिवस्पृथिवीमभि ये सृजन्ति ।
ये अद्भिरीशाना मरुतश्चरन्ति ते नो मुञ्चन्त्वंहसः ॥ ४.२७.४ ॥
那些将海水升至天空、从天空向大地降下、作为水之主宰而行走的摩禄多——愿他们使我们脱离罪过。
4.27.5
ये कीलालेन तर्पयन्ति ये घृतेन ये वा वयो मेदसा संसृजन्ति ।
ये अद्भिरीशाना मरुतो वर्षयन्ति ते नो मुञ्चन्त्वंहसः ॥ ४.२७.५ ॥
那些以神圣之饮滋养、以酥油滋养、将生命之力与脂膏相合、又作为水之主宰降雨的摩禄多——愿他们使我们脱离罪过。
4.27.6
यदीदिदं मरुतो मारुतेन यदि देवा दैव्येनेदृगार ।
यूयमीशिध्वे वसवस्तस्य निष्कृतेस्ते नो मुञ्चन्त्वंहसः ॥ ४.२७.६ ॥
诸摩录多啊,若此事出于摩录多之性,若诸神出于神性如此犯过,你们婆苏对那赎罪有权能;愿他们使我们脱离罪过。
4.27.7
तिग्ममनीकं विदितं सहस्वन् मारुतं शर्धः पृतनासूग्रम् ।
स्तौमि मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्वंहसः ॥ ४.२७.७ ॥
我赞颂摩录多的力量——锋利的军队,著名而强大,在战斗中威猛。摩录多啊,我作为求助者呼唤你们;愿他们使我们脱离罪过。