Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 5.11

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.11.1

कथं महे असुरायाब्रवीरिह कथं पित्रे हरये त्वेषनृम्णः ।
पृश्निं वरुण दक्षिणां ददावान् पुनर्मघ त्वं मनसाचिकित्सीः ॥ ५.११.१ ॥

伟大的阿修罗啊,你在此如何言说?你如何对父亲和光耀的哈里言说?婆罗那啊,你以斑点母牛作为达克希纳布施,再次施主啊,你以心思量。

5.11.2

न कामेन पुनर्मघो भवामि सं चक्षे कं पृश्निमेतामुपाजे ।
केन नु त्वमथर्वन् काव्येन केन जातेनासि जातवेदाः ॥ ५.११.२ ॥

并非因欲望我才再次施主;我望着这斑点母牛而靠近它。阿闼婆啊,你以何种诗才、以何种出生而成为生知者?

5.11.3

सत्यमहं गभीरः काव्येन सत्यं जातेनास्मि जातवेदाः ।
न मे दासो नार्यो महित्वा व्रतं मीमाय यदहं धरिष्ये ॥ ५.११.३ ॥

我确实深于诗智;我确实以出生而为生知者。无论我的奴仆还是尊者,都不能以其威势违背我所持守的誓约。

5.11.4

न त्वदन्यः कवितरो न मेधया धीरतरो वरुण स्वधावन् ।
त्वं ता विश्वा भुवनानि वेत्थ स चिन् नु त्वज्जनो मायी बिभाय ॥ ५.११.४ ॥

除你之外无人更有诗智,智慧上也无人比你更坚定。婆罗那啊,自力者,你知一切世界;即便你的人,作为欺诈者,也会恐惧。

5.11.5

त्वं ह्यङ्ग वरुण स्वधावन् विश्वा वेत्थ जनिम सुप्रणीते ।
किं रजस एना परो अन्यदस्त्येना किं परेणावरममुर ॥ ५.११.५ ॥

你啊,亲爱的婆罗那,自力者,确实知道一切诞生,善导者啊。在此界之外还有别的吗?比此更低的又是什么,不死者啊?

5.11.6

एकं रजस एना परो अन्यदस्त्येना पर एकेन दुर्णशं चिदर्वाक् ।
तत्ते विद्वान् वरुण प्र ब्रवीम्यधोवचसः पणयो भवन्तु नीचैर्दासा उप सर्पन्तु भूमिम् ॥ ५.११.६ ॥

一者在此界之此岸,另一者在其彼岸;以一者难以越过,然其却近在此处。婆鲁那啊,我知晓此事,故向你宣告:愿说谎的帕尼被贬低,成为奴隶,匍匐于大地之上。

5.11.7

त्वं ह्यङ्ग वरुण ब्रवीषि पुनर्मघेष्ववद्यानि भूरि ।
मो षु पणींरभ्येतावतो भून् मा त्वा वोचन्न् अराधसं जनासः ॥ ५.११.७ ॥

亲爱的婆鲁那啊,你一再谈论布施中的诸多过失。帕尼们啊,不要比这更加敌对;愿世人不要称你为吝啬无施者。

5.11.8

मा मा वोचन्न् अराधसं जनासः पुनस्ते पृश्निं जरितर्ददामि ।
स्तोत्रं मे विश्वमा याहि शचीभिरन्तर्विश्वासु मानुषीषु दिक्षु ॥ ५.११.८ ॥

愿世人不要称我为吝啬。我再给你一头花牛,歌者啊。以你的力量来到我全部的赞颂之中,进入人间的所有方位之内。

5.11.9

आ ते स्तोत्राण्युद्यतानि यन्त्वन्तर्विश्वासु मानुषीषु दिक्षु ।
देहि नु मे यन् मे अदत्तो असि युज्यो मे सप्तपदः सखासि ॥ ५.११.९ ॥

愿为你扬起的赞颂,进入人间的所有方位之内。现在赐予我那尚未给我的——你是我七步之友、伴侣。

5.11.10

समा नौ बन्धुर्वरुण समा जा वेदाहं तद्यन् नावेषा समा जा ।
ददामि तद्यत्ते अदत्तो अस्मि युज्यस्ते सप्तपदः सखास्मि ॥ ५.११.१० ॥

婆鲁那啊,我们二人的纽带相同,出身也相同;我知道我们之间有这同等的出身。我给予你那未曾给你的——我是你的伴侣,七步之友。

5.11.11

देवो देवाय गृणते वयोधा विप्रो विप्राय स्तुवते सुमेधाः ।
अजीजनो हि वरुण स्वधावन्न् अथर्वाणं पितरं देवबन्धुम् ।
तस्मा उ राधः कृणुहि सुप्रशस्तं सखा नो असि परमं च बन्धुः ॥ ५.११.११ ॥

神为赞颂者,赐予生命力;灵感的智者为灵感的智者,为赞颂者赐予善慧。哦,婆罗那,拥有自身力量者,你生育了阿达婆,他是诸神之父与亲族。请为他成就极其殊胜的财富;你是我们的朋友与至上亲族。