Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 5.13

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.13.1

ददिर्हि मह्यं वरुणो दिवः कविर्वचोभिरुग्रैर्नि रिणामि ते विषम् ।
खातमखातमुत सक्तमग्रभमिरेव धन्वन् नि जजास ते विषम् ॥ ५.१३.१ ॥

婆楼那从天上作为诗人赐予我;我以猛烈的言辞驱逐你的毒。无论挖掘与否,即使缠结者我也抓住;仿佛你的毒被抛到了沙漠中。

5.13.2

यत्ते अपोदकं विषं तत्त एतास्वग्रभम् ।
गृह्णामि ते मध्यममुत्तमं रसमुतावमं भियसा नेशदादु ते ॥ ५.१३.२ ॥

你那无水之毒,我在这些之中捕获;你的中、上、下之汁液我都取走;愿它因恐惧而灭亡,确实是你的。

5.13.3

वृषा मे रवो नभसा न तन्यतुरुग्रेण ते वचसा बाध आदु ते ।
अहं तमस्य नृभिरग्रभं रसं तमस इव ज्योतिरुदेतु सूर्यः ॥ ५.१३.३ ॥

我强大的吼声如天空的雷鸣;以猛烈的言辞我确实将你推回。那汁液我与人们一同抓取;如同从黑暗中出现光明,愿太阳升起。

5.13.4

चक्षुषा ते चक्षुर्हन्मि विषेण हन्मि ते विषम् ।
अहे म्रियस्व मा जीवीः प्रत्यगभ्येतु त्वा विषम् ॥ ५.१३.४ ॥

我以我的眼睛击你的眼睛;以毒击你的毒。啊蛇,死去吧,不要活着;愿毒回到你身上。

5.13.5

कैरात पृश्न उपतृण्य बभ्र आ मे शृणुतासिता अलीकाः ।
मा मे सख्युः स्तामानमपि ष्ठाताश्रावयन्तो नि विषे रमध्वम् ॥ ५.१३.५ ॥

啊,俱罗多,斑斓者,草间爬行者,褐色者!请听我言,黑暗的欺骗者。即使在我朋友的位置也不要停留;发出声音,在毒中自娱吧。

5.13.6

असितस्य तैमातस्य बभ्रोरपोदकस्य च ।
सात्रासाहस्याहं मन्योरव ज्यामिव धन्वनो वि मुञ्चामि रथामिव ॥ ५.१३.६ ॥

黑者、太玛多、褐者与无水者,以及战胜敌人者的愤怒,我如松开弓弦、释放战车一般将其放下。

5.13.7

आलिगी च विलिगी च पिता च माता च ।
विद्म वः सर्वतो बन्ध्वरसाः किं करिष्यथ ॥ ५.१३.७ ॥

阿利基与维利基,父亲与母亲——我们从各方面认识你们,无毒的亲族啊。你们将做什么?

5.13.8

उरुगूलाया दुहिता जाता दास्यसिक्न्या ।
प्रतङ्कं दद्रुषीणां सर्वासामरसं विषम् ॥ ५.१३.८ ॥

生于乌如古拉之女,黑色婢女阿斯克尼之子——愿所有奔跑之蛇、名为普拉坦卡者的毒液,都变得无毒。

5.13.9

कर्णा श्वावित्तदब्रवीद्गिरेरवचरन्तिका ।
याः काश्चेमाः खनित्रिमास्तासामरसतमं विषम् ॥ ५.१३.९ ॥

卡尔纳从山上走下,对施瓦维特说:无论这些挖洞的蛇是谁,愿它们的毒液最为无毒。

5.13.10

ताबुवं न ताबुवं न घेत्त्वमसि ताबुवम् ।
ताबुवेनारसं विषम् ॥ ५.१३.१० ॥

你不是塔布瓦,你不是塔布瓦——实际上你就是塔布瓦。借塔布瓦之力,愿毒液变得无毒。

5.13.11

तस्तुवं न तस्तुवं न घेत्त्वमसि तस्तुवम् ।
तस्तुवेनारसं विषम् ॥ ५.१३.११ ॥

你不是塔斯图瓦,你不是塔斯图瓦——实际上你就是塔斯图瓦。借塔斯图瓦之力,愿毒液变得无毒。