Vedyatra वेदयात्रा
Search

Atharvaveda · Sūkta 5.24

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

Read with meanings

5.24.1

सविता प्रसवानामधिपतिः स मावतु ।
अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥ ५.२४.१ ॥

May Savitṛ, lord of all impulses, protect me. In this sacred utterance, in this rite, in this office of purohita, in this standing, in this thought, in this resolve, in this blessing, in this invocation of the gods — svāhā.

5.24.2

अग्निर्वनस्पतीनामधिपतिः स मावतु ।
अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥ ५.२४.२ ॥

May Agni, lord of the trees and forest plants, protect me. In this sacred utterance, in this rite, in this office of purohita, in this standing, in this thought, in this resolve, in this blessing, in this invocation of the gods — svāhā.

5.24.3

द्यावापृथिवी दातॄणामधिपतिः स मावतु ।
अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥ ५.२४.३ ॥

May Dyāvāpṛthivī, lords of the givers, protect me. In this sacred utterance, in this rite, in this office of purohita, in this standing, in this thought, in this resolve, in this blessing, in this invocation of the gods — svāhā.

5.24.4

वरुणोऽपामधिपतिः स मावतु ।
अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥ ५.२४.४ ॥

Varuṇa, lord of the waters, may he protect me. In this sacred formula, in this rite, in this priestly office, in this standing, in this thought, in this resolve, in this blessing, in this invocation of the gods — svāhā.

5.24.5

मित्रावरुणौ वृष्ट्याधिपती तौ मावताम् ।
अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥ ५.२४.५ ॥

Mitra and Varuṇa, lords of rain, may those two protect me. In this sacred formula, in this rite, in this priestly office, in this standing, in this thought, in this resolve, in this blessing, in this invocation of the gods — svāhā.

5.24.6

मरुतः पर्वतानामधिपतयस्ते मावन्तु ।
अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥ ५.२४.६ ॥

The Maruts, lords of the mountains, may they protect me. In this sacred formula, in this rite, in this priestly office, in this standing, in this thought, in this resolve, in this blessing, in this invocation of the gods — svāhā.

5.24.7

सोमो वीरुधामधिपतिः स मावतु ।
अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥ ५.२४.७ ॥

May Soma, lord of the plants, protect me. In this sacred formula, in this rite, in this office of priest, in this firm standing, in this thought, in this resolve, in this blessing, in this invocation of the gods: svāhā.

5.24.8

वायुरन्तरिक्षस्याधिपतिः स मावतु ।
अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥ ५.२४.८ ॥

May Vāyu, lord of the atmosphere, protect me. In this sacred formula, in this rite, in this office of priest, in this firm standing, in this thought, in this resolve, in this blessing, in this invocation of the gods: svāhā.

5.24.9

सूर्यश्चक्षुषामधिपतिः स मावतु ।
अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥ ५.२४.९ ॥

May Sūrya, lord of sight, protect me. In this sacred formula, in this rite, in this office of priest, in this firm standing, in this thought, in this resolve, in this blessing, in this invocation of the gods: svāhā.

5.24.10

चन्द्रमा नक्षत्राणामधिपतिः स मावतु ।
अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥ ५.२४.१० ॥

May the moon, lord of the constellations, protect me. In this sacred word, in this rite, in this priestly office, in this standing, in this thought, in this intention, in this blessing, in this invocation of the gods — svāhā.

5.24.11

इन्द्रो दिवोऽधिपतिः स मावतु ।
अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥ ५.२४.११ ॥

May Indra, lord of the sky, protect me. In this sacred word, in this rite, in this priestly office, in this standing, in this thought, in this intention, in this blessing, in this invocation of the gods — svāhā.

5.24.12

मरुतां पिता पशूनामधिपतिः स मावतु ।
अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥ ५.२४.१२ ॥

May the father of the Maruts, lord of cattle, protect me. In this sacred word, in this rite, in this priestly office, in this standing, in this thought, in this intention, in this blessing, in this invocation of the gods — svāhā.

5.24.13

मृत्युः प्रजानामधिपतिः स मावतु ।
अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥ ५.२४.१३ ॥

May Mṛtyu, lord of creatures, protect me. In this sacred formula, in this rite, in this office of priest, in this establishment, in this thought, in this purpose, in this blessing, in this invocation of the gods — svāhā.

5.24.14

यमः पितॄणामधिपतिः स मावतु ।
अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥ ५.२४.१४ ॥

May Yama, lord of the fathers, protect me. In this sacred formula, in this rite, in this office of priest, in this establishment, in this thought, in this purpose, in this blessing, in this invocation of the gods — svāhā.

5.24.15

पितरः परे ते मावन्तु ।
अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥ ५.२४.१५ ॥

O distant fathers, may you protect me. In this sacred formula, in this rite, in this office of priest, in this establishment, in this thought, in this purpose, in this blessing, in this invocation of the gods — svāhā.

5.24.16

तता अवरे ते मावन्तु ।
अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥ ५.२४.१६ ॥

May the later ones among the paternal forefathers be pleased with me. In this sacred word, in this rite, in this priestly office, in this establishment, in this intention, in this purpose, in this blessing, in this invocation of the gods — svāhā.

5.24.17

ततस्ततामहास्ते मावन्तु ।
अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥ ५.२४.१७ ॥

May the fathers of the grandfather, the great-grandfathers, be pleased with me. In this sacred word, in this rite, in this priestly office, in this establishment, in this intention, in this purpose, in this blessing, in this invocation of the gods — svāhā.