阿闼婆吠陀 · 颂诗(Sūkta) 6.138
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.138.1
त्वं वीरुधां श्रेष्ठतमाभिश्रुतास्योषधे ।
इमं मे अद्य पुरुषं क्लीबमोपशिनं कृधि ॥ ६.१३८.१ ॥
你是草药中最卓越、最有名的,啊草药。今天使我的这个男人无能而衰弱。
6.138.2
क्लीबं कृध्योपशिनमथो कुरीरिणं कृधि ।
अथास्येन्द्रो ग्रावभ्यामुभे भिनत्त्वाण्ड्यौ ॥ ६.१३८.२ ॥
使他无能,使他衰弱,再使他成为疝气病人。然后愿因陀罗用两块石头打碎他的两个睾丸。
6.138.3
क्लीब क्लीबं त्वाकरं वध्रे वध्रिं त्वाकरमरसारसं त्वाकरम् ।
कुरीरमस्य शीर्षणि कुम्बं चाधिनिदध्मसि ॥ ६.१३८.३ ॥
啊无能者,我使你无能。啊阉割者,我使你成为阉割者。我使你无液。在他的头上我们放置一个罐和一个疝气病人。
6.138.4
ये ते नाड्यौ देवकृते ययोस्तिष्ठति वृष्ण्यम् ।
ते ते भिनद्मि शम्ययामुष्या अधि मुष्कयोः ॥ ६.१३८.४ ॥
你那由天神所造的两条筋脉,雄力存于其中,我用木桩把它们打断在他的两个睾丸之上。
6.138.5
यथा नडं कशिपुने स्त्रियो भिन्दन्त्यश्मना ।
एवा भिनद्मि ते शेपोऽमुष्या अधि मुष्कयोः ॥ ६.१३८.५ ॥
就像女人们用绳子和石头打断芦苇一样,我也这样打断你的阴茎在他的两个睾丸之上。