Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 6.139

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.139.1

न्यस्तिका रुरोहिथ सुभगंकरणी मम ।
शतं तव प्रतानास्त्रयस्त्रिंशन् नितानाः ।
तया सहस्रपर्ण्या हृदयं शोषयामि ते ॥ ६.१३९.१ ॥

Nyastikā 已经生长,它为我带来好运。你的一百条蔓须,三十三条伸展开来。我用那千叶之草使她的心干枯。

6.139.2

शुष्यतु मयि ते हृदयमथो शुष्यत्वास्यम् ।
अथो नि शुष्य मां कामेनाथो शुष्कास्या चर ॥ ६.१३९.२ ॥

愿你的心向着我枯萎,你的口也枯干。因我的欲望而枯干吧,带着干涸的口四处游走。

6.139.3

संवननी समुष्पला बभ्रु कल्याणि सं नुद ।
अमूं च मां च सं नुद समानं हृदयं कृधि ॥ ६.१३९.३ ॥

哦,能聚合的 Saṃvananī,共同开花的 Samuṣpalā,棕色的吉祥者,把她和我一起推近。使我们的心成为一颗。

6.139.4

यथोदकमपपुषोऽपशुष्यत्यास्यम् ।
एवा नि शुष्य मां कामेनाथो शुष्कास्या चर ॥ ६.१३९.४ ॥

正如水被喝尽后口会干涸,你也因我的欲望而枯干吧,带着干涸的口四处游走。

6.139.5

यथा नकुलो विछिद्य संदधात्यहिं पुनः ।
एवा कामस्य विछिन्नं सं धेहि वीर्यावति ॥ ६.१३९.५ ॥

如獴咬断蛇又将其重新接合,同样,哦有力者,把被切断的欲望之结重新接上。