Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 7.114

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.114.1

इदमुग्राय बभ्रवे नमो यो अक्षेषु तनूवशी ।
घृतेन कलिं शिक्षामि स नो मृडातीदृशे ॥ ७.११४.१ ॥

此敬礼献给猛烈的、赤褐色的(阿耆尼),他在骰子中掌控自己的身体。我以酥油教导迦利;愿他在此境况中怜悯我们。

7.114.2

घृतमप्सराभ्यो वह त्वमग्ने पांसून् अक्षेभ्यः सिकता अपश्च ।
यथाभागं हव्यदातिं जुषाणा मदन्ति देवा उभयानि हव्या ॥ ७.११४.२ ॥

啊阿耆尼,为阿普萨拉斯带来酥油,为骰子带来尘土、沙与水。诸神依各自的份额享受供奉之施,因两类祭品而欢喜。

7.114.3

अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा सूर्यं च ।
ता मे हस्तौ सं सृजन्तु घृतेन सपत्नं मे कितवं रन्धयन्तु ॥ ७.११४.३ ॥

阿普萨拉斯在献祭车与太阳之间的共食中欢喜。愿她们使我双手相合而动,并以酥油降服我的对手、那赌徒。

7.114.4

आदिनवं प्रतिदीव्ने घृतेनास्मामभि क्षर ।
वृक्षमिवाशन्या जहि यो अस्मान् प्रतिदीव्यति ॥ ७.११४.४ ॥

以酥油向我们倾注那新鲜之物;如以雷电击倒树木一般,击倒与我们对赌的人。

7.114.5

यो नो द्युवे धनमिदं चकार यो अक्षाणां ग्लहनं शेषणं च ।
स नो देवो हविरिदं जुषाणो गन्धर्वेभिः सधमादं मदेम ॥ ७.११४.५ ॥

愿那位为我们造成赌博之财、造成骰子之胜负的神,接受此供物而欢喜,我们在与乾闼婆的共食中欢喜。

7.114.6

संवसव इति वो नामधेयमुग्रंपश्या राष्ट्रभृतो ह्यक्षाः ।
तेभ्यो व इन्दवो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥ ७.११४.६ ॥

“僧伐娑”是你们的名字;目光凶猛者,骰子确是养国之物。为你们,啊苏摩之滴,我们以供物敬奉;愿我们成为财富的主人。

7.114.7

देवान् यन् नाथितो हुवे ब्रह्मचर्यं यदूषिम ।
अक्षान् यद्बभ्रून् आलभे ते नो मृडन्त्वीदृशे ॥ ७.११४.७ ॥

我身处困境,呼唤诸神。以我们所守持的梵行,以及我手中所执的棕色骰子为由,愿他们在此境况中对我们施以怜悯。