阿闼婆吠陀 · 颂诗(Sūkta) 7.58
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.58.1
तिरश्चिराजेरसितात्पृदाकोः परि संभृतम् ।
तत्कङ्कपर्वणो विषमियं वीरुदनीनशत् ॥ ७.५८.१ ॥
从横行的蛇和黑色的pṛdāku身上聚集的毒,那鹤关节中的毒——这株草已将它消灭。
7.58.2
इयं वीरुन् मधुजाता मधुश्चुन् मधुला मधूः ।
सा विह्रुतस्य भेषज्यथो मशकजम्भनी ॥ ७.५८.२ ॥
这株草生于蜜,滴蜜,给予甘甜,甘甜——她是被毒所伤者的药,也能消除蚊子的叮咬。
7.58.3
यतो दष्टं यतो धीतं ततस्ते निर्ह्वयामसि ।
अर्भस्य तृप्रदंशिनो मशकस्यारसं विषम् ॥ ७.५८.३ ॥
无论在哪里被咬,哪里被刺,我们就从那里唤出你的毒——那小而叮咬的蚊子的无汁之毒。
7.58.4
अयं यो वक्रो विपरुर्व्यङ्गो मुखानि वक्रा वृजिना कृणोषि ।
तानि त्वं ब्रह्मणस्पते इषीकामिव सं नमः ॥ ७.५८.४ ॥
这个弯曲、关节错位、肢体残缺的人,做出歪斜邪恶的嘴脸——婆罗门之主啊,请你把它们像芦苇秆一样弯折。
7.58.5
अरसस्य शर्कोटस्य नीचीनस्योपसर्पतः ।
विषं ह्यस्यादिष्यथो एनमजीजभम् ॥ ७.५८.५ ॥
无汁的蝎子之毒,那低伏并靠近爬行者之毒——我已取出它的毒,也使这一个虚弱了。
7.58.6
न ते बाह्वोर्बलमस्ति न शीर्षे नोत मध्यतः ।
अथ किं पापयाऽमुया पुच्छे बिभर्ष्यर्भकम् ॥ ७.५८.६ ॥
你的双臂没有力量,头上没有,中间也没有。那么你为何用那罪恶的尾巴托着这个小东西?
7.58.7
अदन्ति त्वा पिपीलिका वि वृश्चन्ति मयूर्यः ।
सर्वे भल ब्रवाथ शार्कोटमरसं विषम् ॥ ७.५८.७ ॥
蚂蚁咬你,蝎子蜇你。诸位啊,且说吧——愿沙尔科塔之毒失去其汁液!
7.58.8
य उभाभ्यां प्रहरसि पुच्छेन चास्येन च ।
आस्ये न ते विषं किमु ते पुच्छधावसत् ॥ ७.५८.८ ॥
你以两者攻击——用尾,也用口。你口中无毒;那么你尾中流淌的又是什么?