阿闼婆吠陀 · 颂诗(Sūkta) 7.86
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.86.1
पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् ।
विश्वान्यो भुवना विचष्ट ऋतूंँरन्यो विदधज्जायसे नवः ॥ ७.८६.१ ॥
这两个孩童以幻力往来东西,嬉戏绕行大海。一个审视一切世界;另一个主持四季,以新生之身降生。
7.86.2
नवोनवो भवसि जायमानोऽह्नां केतुरुषसामेष्यग्रम् ।
भागं देवेभ्यो वि दधास्यायन् प्र चन्द्रमस्तिरसे दीर्घमायुः ॥ ७.८६.२ ॥
你每次都重新诞生。你是日子的旗帜,行于晨曦之前。啊,月亮,你前行时将份额分给诸神,并延长长寿。
7.86.3
सोमस्यांशो युधां पतेऽनूनो नाम वा असि ।
अनूनं दर्श मा कृधि प्रजया च धनेन च ॥ ७.८६.३ ॥
啊,战斗之主,你是苏摩的一分,名字也叫“不缺”。使我成为不缺的满月祭,拥有子嗣与财富。
7.86.4
दर्शोऽसि दर्शतोऽसि समग्रोऽसि समन्तः ।
समग्रः समन्तो भूयासं गोभिरश्वैः प्रजया पशुभिर्गृहैर्धनेन ॥ ७.८६.४ ॥
你是满月祭(darśa),值得一见;你圆满,处处圆满。愿我也圆满完整,拥有牛、马、子嗣、牲畜、房屋与财富。
7.86.5
योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तस्य त्वं प्राणेना प्यायस्व ।
आ वयं प्यासिषीमहि गोभिरश्वैः प्रजया पशुभिर्गृहैर्धनेन ॥ ७.८६.५ ॥
凡恨我们、我们所恨的人——愿你以生气充满他。愿我们充满牛、马、子嗣、牲畜、房屋与财富。
7.86.6
यं देवा अंशुमाप्याययन्ति यमक्षितमक्षिता भक्षयन्ति ।
तेनास्मान् इन्द्रो वरुणो बृहस्पतिरा प्याययन्तु भुवनस्य गोपाः ॥ ७.८६.६ ॥
愿诸神所增益之分、不朽者所享用之不朽之物,使世界的守护者因陀罗、伐楼那与梵天主(布里哈斯帕蒂)以此滋养我们。