阿闼婆吠陀 · 颂诗(Sūkta) 8.7
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.7.1
या बभ्रवो याश्च शुक्रा रोहिणीरुत पृश्नयः ।
असिक्नीः कृष्णा ओषधीः सर्वा अच्छावदामसि ॥ ८.७.१ ॥
无论是褐色的、光亮的、红色而有斑点的、非黑色的还是黑色的草药,我们都向它们呼唤。
8.7.2
त्रायन्तामिमं पुरुषं यक्ष्माद्देवेषितादधि ।
यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव ॥ ८.७.२ ॥
愿那些以天为父、以地为母、以海洋为诸藤根源的草药,保护此人免于诸神所遣的消耗之病。
8.7.3
आपो अग्रं दिव्या ओषधयः ।
तास्ते यक्ष्ममेनस्यमङ्गादङ्गादनीनशन् ॥ ८.७.३ ॥
神圣的水与草药为先;它们已从你的每一肢体中除去了有害的消耗之病。
8.7.4
प्रस्तृणती स्तम्बिनीरेकशुङ्गाः प्रतन्वतीरोषधीरा वदामि ।
अंशुमतीः कण्डिनीर्या विशाखा ह्वयामि ते वीरुधो वैश्वदेवीरुग्राः पुरुषजीवनीः ॥ ८.७.४ ॥
我称说那些蔓延的、丛生的、单茎的、伸展的草药;我呼唤你们,Aṃśumatī、Kaṇḍinī、Viśākhā——属于诸神的、威猛的、赐予人类生命的藤蔓。
8.7.5
यद्वः सहः सहमाना वीर्यं१ यच्च वो बलम् ।
तेनेममस्माद्यक्ष्मात्पुरुषं मुञ्चतौषधीरथो कृणोमि भेषजम् ॥ ८.७.५ ॥
凭借你们所有的忍耐之力、精力与气力,草药啊,将此人从此消耗之病中解脱;草药啊,我正调制药剂。
8.7.6
जीवलां नघारिषां जीवन्तीमोषधीमहम् ।
अरुन्धतीमुन्नयन्तीं पुष्पां मधुमतीमिह हुवेऽस्मा अरिष्टतातये ॥ ८.७.६ ॥
赐予生命的、不可摧毁的、有生命的草药——令人振起的、开花的、蜜甜的阿伦达蒂,我在此为此人无害的安康而呼唤。
8.7.7
इहा यन्तु प्रचेतसो मेदिनीर्वचसो मम ।
यथेमं पारयामसि पुरुषं दुरितादधि ॥ ८.७.७ ॥
愿警觉而坚定的草药应我的言语来到此处,使我们把这个人从厄运(durita)中渡过。
8.7.8
अग्नेर्घासो अपां गर्भो या रोहन्ति पुनर्णवाः ।
ध्रुवाः सहस्रनाम्नीर्भेषजीः सन्त्वाभृताः ॥ ८.७.८ ॥
阿耆尼的食物,水的胎藏,那些重新焕发生机而生长的——愿它们坚定、有千名的药效,被带来。
8.7.9
अवकोल्बा उदकात्मान ओषधयः ।
व्यृषन्तु दुरितं तीक्ष्णशृङ्ग्यः ॥ ८.७.९ ॥
阿缚科尔巴,以水为本质的草药——愿它们驱散厄运(durita),尖角者。
8.7.10
उन्मुञ्चन्तीर्विवरुणा उग्रा या विषदूषणीः ।
अथो बलासनाशनीः कृत्यादूषणीश्च यास्ता इहा यन्त्वोषधीः ॥ ८.७.१० ॥
那些解开束缚、消除毒素、驱散痰液、破除咒术(kṛtyā)的猛烈草药——愿它们来到此处。
8.7.11
अपक्रीताः सहीयसीर्वीरुधो या अभिष्टुताः ।
त्रायन्तामस्मिन् ग्रामे गामश्वं पुरुषं पशुम् ॥ ८.७.११ ॥
那些最强大、被赎回并被赞颂的藤蔓——愿它们在这个村庄保护牛、马、人和牲畜。
8.7.12
मधुमन् मूलं मधुमदग्रमासां मधुमन् मध्यं वीरुधां बभूव ।
मधुमत्पर्णं मधुमत्पुष्पमासां मधोः सम्भक्ता अमृतस्य भक्षो घृतमन्नं दुह्रतां गोपुरोगवम् ॥ ८.७.१२ ॥
它们的根甜美,它们的顶端甜美;藤蔓的中部也变得甜美。叶子甜美,花朵甜美;分享蜂蜜,饮用甘露,愿它们奉献酥油、食物和牛的饲料。
8.7.13
यावतीः कियतीश्चेमाः पृथिव्यामध्योषधीः ।
ता मा सहस्रपर्ण्यो मृत्योर्मुञ्चन्त्वंहसः ॥ ८.७.१३ ॥
大地上这些草药,无论有多少,愿那千叶的草药使我脱离死亡与苦难。
8.7.14
वैयाघ्रो मणिर्वीरुधां त्रायमानोऽभिशस्तिपाः ।
अमीवाः सर्वा रक्षांस्यप हन्त्वधि दूरमस्मत् ॥ ८.७.१४ ॥
虎之宝珠,藤蔓中的守护者,护佑免于咒诅,愿它将一切疾病与罗刹远远驱离我们。
8.7.15
सिंहस्येव स्तनथोः सं विजन्तेऽग्नेरिव विजन्ते आभृताभ्यः ।
गवां यक्ष्मः पुरुषाणां वीरुद्भिरतिनुत्तो नाव्या एतु स्रोत्याः ॥ ८.७.१५ ॥
如同狮吼使其颤抖,如同带到火旁的物件颤抖,愿牲畜与人的消耗之病,被草药驱逐,流入可行舟的河流之中。
8.7.16
मुमुचाना ओषधयोऽग्नेर्वैश्वानरादधि ।
भूमिं संतन्वतीरित यासां राजा वनस्पतिः ॥ ८.७.१६ ॥
从普遍之火毗舍那罗中解脱的草药,遍布大地,其王为树木。
8.7.17
या रोहन्त्याङ्गिरसीः पर्वतेषु समेषु च ।
ता नः पयस्वतीः शिवा ओषधीः सन्तु शं हृदे ॥ ८.७.१७ ॥
生长于山岭与平原之上的安吉罗娑草药,愿它们对我们富含乳汁、吉祥,为心带来安宁。
8.7.18
याश्चाहं वेद वीरुधो याश्च पश्यामि चक्षुषा ।
अज्ञाता जानीमश्च या यासु विद्म च संभृतम् ॥ ८.७.१८ ॥
我所知的藤蔓,我用眼所见的,未知的我们也认识,以及其中所集之物,我们都知道。
8.7.19
सर्वाः समग्रा ओषधीर्बोधन्तु वचसो मम ।
यथेमं पारयामसि पुरुषं दुरितादधि ॥ ८.७.१९ ॥
愿一切完整的草药听我的话,使我们将此人渡过厄难(durita)。
8.7.20
अश्वत्थो दर्भो वीरुधां सोमो राजामृतं हविः ।
व्रीहिर्यवश्च भेषजौ दिवस्पुत्रावमर्त्यौ ॥ ८.७.२० ॥
阿湿瓦陀树、吉草(darbha)、藤蔓之王苏摩、甘露(amṛta)与祭品(havis);稻(vrīhi)与大麦(yava)两种药,天之子,不死者。
8.7.21
उज्जिहीध्वे स्तनयत्यभिक्रन्दत्योषधीः ।
यदा वः पृश्निमातरः पर्जन्यो रेतसावति ॥ ८.७.२१ ॥
起来吧,诸草木!雷霆向你们轰鸣咆哮,当以斑点之母为母的帕尔贾尼亚以其精液滋润你们之时。
8.7.22
तस्यामृतस्येमं बलं पुरुषं पययामसि ।
अथो कृणोमि भेषजं यथासच्छतहायनः ॥ ८.७.२२ ॥
以那甘露之力,我们让此人饮下力量;我又配制药物,使他活到百岁。
8.7.23
वराहो वेद वीरुधं नकुलो वेद भेषजीम् ।
सर्पा गन्धर्वा या विदुस्ता अस्मा अवसे हुवे ॥ ८.७.२३ ॥
野猪知晓那株藤蔓,猫鼬知晓那味药。蛇与乾闼婆所知之物,我为此人的护佑而呼唤。
8.7.24
याः सुपर्णा आङ्गिरसीर्दिव्या या रघटो विदुः ।
वयांसि हंसा या विदुर्यास्च सर्वे पतत्रिणः ।
मृगा या विदुरोषधीस्ता अस्मा अवसे हुवे ॥ ८.७.२४ ॥
鹰(suparṇa)所知的天界安吉罗娑之药草,疾飞者(raghaṭa)所知之物;天鹅所知的飞禽,一切有翼之物所知之物;鹿所知的草药——我为此人的护佑而呼唤这些。
8.7.25
यावतीनामोषधीनां गावः प्राश्नन्त्यघ्न्या यवतीनामजावयः ।
तावतीस्तुभ्यमोषधीः शर्म यच्छन्त्वाभृताः ॥ ८.७.२५ ॥
无可杀害的牛所食的草药有多少,大麦田中山羊与绵羊所食的草药有多少,那么多被采来的草药,愿赐你庇护。
8.7.26
यावतीषु मनुष्या भेषजं भिषजो विदुः ।
तावतीर्विश्वभेषजीरा भरामि त्वामभि ॥ ८.७.२६ ॥
人与医者所知药物的草药有多少,那么多万能药草我为你带来。
8.7.27
पुष्पवतीः प्रसूमतीः फलिनीरफला उत ।
संमातर इव दुह्रामस्मा अरिष्टतातये ॥ ८.७.२७ ॥
开花的、结果的、有果的与无果的草药,如同共同的母亲,为此无害之人的安康而流出乳汁。
8.7.28
उत्त्वाहार्षं पञ्चशलादथो दशशलादुत ।
अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात् ॥ ८.७.२८ ॥
我把你从五栏、十栏中带出,从阎摩脚上的枷锁中带出,也从一切对神的罪过中带出。