阿闼婆吠陀 · 颂诗(Sūkta) 9.14
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.14.1
अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः ।
तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥ ९.१४.१ ॥
这位奇妙的白发祭司,其中间的兄弟是食者,第三位兄弟是酥油之背。在此我看见了拥有七子的氏族之主。
9.14.2
सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा ।
त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥ ९.१४.२ ॥
七者套上独轮车,一匹七名之马拉动它。三轴之轮,不老不倦,所有这些世界都立于其上。
9.14.3
इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः ।
सप्त स्वसारो अभि सं नवन्त यत्र गवां निहिता सप्त नाम ॥ ९.१४.३ ॥
立于此车之上的七者——七轮之车,由七匹马拖曳。七姊妹一同俯身,在那里安放着牛的七个名称。
9.14.4
को ददर्श प्रथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति ।
भूम्या असुरसृगात्मा क्व स्वित्को विद्वांसमुप गात्प्रष्टुमेतत् ॥ ९.१४.४ ॥
谁首先看见了生出的有骨者?无骨者承载着什么?大地那滴血的生命之我在哪里?谁去向智者询问此事?
9.14.5
इह ब्रवीतु य ईमङ्ग वेदास्य वामस्य निहितं पदं वेः ।
शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदाऽपुः ॥ ९.१४.५ ॥
知道的人请在这里说,朋友:这位奇妙者之鸟的住处安置在何处?从他的头上,牛挤出乳汁;披着他的皮,它们用脚到达水边。
9.14.6
पाकः पृछामि मनसाऽविजानन् देवानामेना निहिता पदानि ।
वत्से बष्कयेऽधि सप्त तन्तून् वि तत्निरे कवय ओतवा उ ॥ ९.१४.६ ॥
我愚钝无知,以心发问:诸神的这些足迹被安放在何处?为了小牛,在产乳的母牛身上,诗人们伸展开七根线用来织造。
9.14.7
अचिकित्वांस्चिकितुषश्चिदत्र कवीन् पृछामि विद्वनो न विद्वान् ।
वि यस्तस्तम्भ षटिमा रजांस्यजस्य रूपे किमपि स्विदेकम् ॥ ९.१४.७ ॥
我虽无知,在此问那些有智慧的诗人,如同无知者问学者。支撑并分立这六界的,在无生者的形态中,那是某一个唯一的东西。
9.14.8
माता पितरमृत आ बभाजऽधीत्यग्रे मनसा सं हि जग्मे ।
सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः ॥ ९.१४.८ ॥
母亲在无秩序(非ṛta)之中,先以心将父亲分开,二者又合而为一。她可畏,充满胚胎的精华,被确立下来;只有恭敬之人才能走近那句颂言。
9.14.9
युक्ता मातासिद्धुरि दक्षिणाया अतिष्ठद्गर्भो वृजनीष्वन्तः ।
अमीमेद्वत्सो अनु गामपश्यद्विश्वरूप्यं त्रिषु योगनेषु ॥ ९.१४.९ ॥
被驾驭的母亲被安置在海洋旁,朝向南方的供奉;胚胎立于承载之处之中。小牛跟随母牛,在三个连接之处看见了那具有一切形态者。
9.14.10
तिस्रो मतॄस्त्रीन् पितॄन् बिभ्रदेक उर्ध्वस्तस्थौ नेमव ग्लापयन्त ।
मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदो वाचमविश्वविन्नाम् ॥ ९.१४.१० ॥
一者承载三母三父,直立而立;下方之人不断使其衰弱。在那天空的背上,遍知者商议言辞,而言辞本身并非遍知,只是一个名称。
9.14.11
पञ्चारे चक्रे परिवर्तमाने यस्मिन्न् आतस्थुर्भुवनानि विश्वा ।
तस्य नाक्षस्तप्यते भूरिभारः सनादेव न छिद्यते सनाभिः ॥ ९.१४.११ ॥
在五辐旋转的轮上,一切世界都立于其上;其轴因重负而发热,然而连同轮毂,它自古从不断裂。
9.14.12
पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
अथेमे अन्य उपरे विचक्षणे सप्तचक्रे षडर आहुरर्पितम् ॥ ९.१४.१२ ॥
他们称那有五足、十二形、充满水的父亲在天空的远半部;而上方的另一些明智者说,他被固定在七轮六辐的(车)上。
9.14.13
द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परि द्यामृतस्य ।
आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः ॥ ९.१४.१३ ॥
那十二辐之轮并非为衰老而转;它围绕秩序(ṛta)的天空旋转。阿耆尼啊,这里成对地站立着七百二十个儿子。
9.14.14
सनेमि चक्रमजरं वि ववृत उत्तानायां दश युक्ता वहन्ति ।
सूर्यस्य चक्षू रजसैत्यावृतं यस्मिन्न् आतस्थुर्भुवनानि विश्वा ॥ ९.१४.१४ ॥
不朽之轮连同其轮圈转动了;在倒置的(器)中,十匹套好的(马)拉着它。太阳之眼被气(rajas)所包裹而来,一切世界都立于其上。
9.14.15
स्त्रियः सतीस्तामु मे पुंसः आहुः पश्यदक्षण्वान्न् वि चेतदन्धः ।
कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात्स पितुष्पितासत् ॥ ९.१४.१५ ॥
虽是女性,他们却为我称之为男性;有眼者看见,盲者不能分辨。那知晓它们的智者之子——他正是父亲的父亲。
9.14.16
साकंजानां सप्तथमाहुरेकजं षडिद्यमा ऋषयो देवजा इति ।
तेषामिष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि रूपशः ॥ ९.१४.१६ ॥
在同生者中,第七者称为独生者;六者为阎摩,是神所生的仙人。他们所欲与所定之物,随处随形而变化,在静止之物中颤动。
9.14.17
अवः परेण पर एना अवरेण पदा वत्सं बिभ्रती गौरुदस्थात् ।
सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अस्मिन् ॥ ९.१४.१७ ॥
从下到上,从上到下,凭此位置,载着小牛的母牛站起。她回头转向,到半边去了哪里?在哪里产子?不在这群中。
9.14.18
अवः परेण पितरं यो अस्य वेदावः परेण पर एनावरेण ।
कवीयमानः क इह प्र वोचद्देवं मनः कुतो अधि प्रजातम् ॥ ९.१४.१८ ॥
从下到上,谁知其父,从下到上,从上凭此位置到下。成为仙人者在此谁能宣说?神圣之心从何处生出?
9.14.19
ये अर्वाञ्चस्तामु पराच आहुर्ये पराञ्चस्तामु अर्वाच आहुः ।
इन्द्रश्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ॥ ९.१४.१९ ॥
所谓朝此而来者,与所谓背此而去者,他们却说那些背去者是朝此而来者。啊,苏摩,你与因陀罗所作之物,如套上轭的车轴承载着虚空。
9.14.20
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्न् अन्यो अभि चाकशीति ॥ ९.१४.२० ॥
两只美丽有翼、相依为伴的朋友环抱同一棵树。其中一只吃甜美的无花果,另一只不吃,只是观看。
9.14.21
यस्मिन् वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे ।
तस्य यदाहुः पिप्पलं स्वाद्वग्रे तन् नोन् नशद्यः पितरं न वेद ॥ ९.१४.२१ ॥
在那棵蜜食之鸟栖息并孕育万物的树上,人们说其菩提果起初是甜的;不认识父亲的人无法得到它。
9.14.22
यत्रा सुपर्णा अमृतस्य भक्षमनिमेषं विदथाभिस्वरन्ति ।
एना विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश ॥ ९.१४.२२ ॥
在那里,鸟儿不眨眼地朝着祭祀歌唱不死之食,它们便是整个世界与万物的守护者;那位智者在此进入了我这已成熟之人。