摩诃婆罗多 · 章 1.107
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.107.1
स राजा शान्तनुर्धीमान्देवराजर्षिसत्कृतः ।
धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः ॥ १.१०७.१ ॥
那位智慧的国王难近王(Śāntanu),受到诸神之王和王仙的尊敬,在一切世界中以心怀正法、言语真实而闻名。
1.107.2
शान्तनोः कीर्तयिष्यामि सर्वानेव गुणानहम् ।
दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम्।
नित्यान्यासन्महासत्वे शान्तनौ पुरुषर्षभे ॥ १.१०७.२ ॥
我将叙述难近王的一切德行:克制、布施、忍耐、智慧、知耻、坚定与至高的威光——这些始终存在于那位大德、人中雄牛难近王身上。
1.107.3
एवं स गुणसंपन्नो धर्मार्थकुशलो नृपः ।
आसीद्भरतवंशस्य गोप्ता सर्वजनस्य च ॥ १.१०७.३ ॥
如此具足德行、善于正法与财富的那位国王,成为婆罗多家族与一切民众的守护者。
1.107.4
कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः ।
अन्वितः परिपूर्णार्थैः सर्वैर्नृपतिलक्षणैः ॥ १.१०७.४ ॥
颈如海螺,肩膀宽阔,勇武如发情的大象;具备王者的一切相貌,目标皆已圆满成就。
1.107.5
तस्य कीर्तिमतो वृत्तमवेक्ष्य सततं नराः ।
धर्म एव परः कामादर्थाच्चेति व्यवस्थितः ॥ १.१०७.५ ॥
人们持续观察这位名声显赫的国王的行为,遂确立了这样的看法:唯有正法至高,高于欲望,也高于财富。
1.107.6
एवमासीन्महासत्वः शान्तनुर्भरतर्षभ ।
न चास्य सदृशः कश्चिद्धर्मतः पार्थिवोऽभवत् ॥ १.१०७.६ ॥
婆罗多之雄啊,大德的难近王便是如此;在正法上,世上再无任何国王能与他相比。
1.107.7
वर्तमानं हि धर्मेषु सर्वधर्मभृतां वरम् ।
तं महीपा महीपालं राजराज्येऽभ्यषेचयन् ॥ १.१०७.७ ॥
因为他安住于法,是一切持法者中最优秀的,诸王便在王国中为这位大地的守护者举行了灌顶。
1.107.8
वीतशोकभयाबाधाः सुखस्वप्ननिबोधनाः ।
पतिं भारतगोप्तारं समपद्यन्त भूमिपाः ॥ १.१०७.८ ॥
摆脱了忧愁、恐惧与痛苦,如从甜美的睡梦中醒来,诸王得到了那位婆罗多族的守护之主。
1.107.9
तेन कीर्तिमता शिष्टाः शक्रप्रतिमतेजसा ।
यज्ञदानक्रियाशीलाः समपद्यन्त भूमिपाः ॥ १.१०७.९ ॥
在这位名声显赫、光辉如因陀罗的君主的教导下,诸王皆精进于祭祀与布施。
1.107.10
शान्तनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा ।
नियमात्सर्ववर्णानां धर्मोत्तरमवर्तत ॥ १.१०७.१० ॥
那时,在以叔父为首的诸王守护之世界中,依照规制,法在一切种姓之中居于至上而得以推行。
1.107.11
ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः ।
ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः ॥ १.१०७.११ ॥
刹帝利侍奉婆罗门,吠舍随从刹帝利而侍奉之,首陀罗则依附婆罗门与刹帝利,侍奉吠舍。
1.107.12
स हास्तिनपुरे रम्ये कुरूणां पुटभेदने ।
वसन्सागरपर्यन्तामन्वशासद्वसुन्धराम् ॥ १.१०७.१२ ॥
他居住在库鲁族美丽的象城,统治着以大海为边界的大地。
1.107.13
स देवराजसदृशो धर्मज्ञः सत्यवागृजुः ।
दानधर्मतपोयोगाच्छ्रिया परमया युतः ॥ १.१०७.१३ ॥
他如同众神之王因陀罗,通晓法,诚实正直;因布施、法、苦行与瑜伽,而具足至高的光辉。
1.107.14
अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः ।
तेजसा सूर्यकल्पोऽभूद्वायुवेगसमो जवे।
अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः ॥ १.१०७.१४ ॥
他无贪无嗔,面貌如月般令人悦目;光明如日,速度如风;发怒时如阎摩,忍耐时如大地。
1.107.15
वधः पशुवराहाणां तथैव मृगपक्षिणाम् ।
शान्तनौ पृथिवीपाले नावर्तत तथा नृप ॥ १.१०७.१५ ॥
大王啊,在守护大地的山塔努治下,没有杀害牲畜、野猪、鹿和鸟类之事。
1.107.16
ब्रह्मधर्मोत्तरे राज्ये शान्तनुर्विनयात्मवान् ।
समं शशास भूतानि कामरागविवर्जितः ॥ १.१०७.१६ ॥
在婆罗门与法居于最上的王国中,性情谦逊、离欲去贪的山塔努,平等地统治一切众生。
1.107.17
चकोरनेत्रस्ताम्रास्यः सिंहर्षभगतिर्युवा ।
गुणैरनुपमैर्युक्तः समस्तैराभिगामिकैः।
गम्भीरः सत्वसंपन्नः पूर्णचन्द्रनिभाननः ॥ १.१०७.१७ ॥
他年轻,眼睛如遮柯罗鸟,面色赤红,步伐如狮子或公牛;具足一切无与伦比、适合国王的德行,深沉而有德性力量,面容如满月。
1.107.18
देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः ।
न चाधर्मेण केषांचित्प्राणिनामभवद्वधः ॥ १.१०७.१८ ॥
那时,为诸天神、仙人与祖灵的祭祀之礼得以举行,也没有任何众生被以非法之方式杀害。
1.107.19
असुखानामनाथानां तिर्यग्योनिषु वर्तताम् ।
स एव राजा सर्वेषां भूतानामभवत्पिता ॥ १.१०७.१९ ॥
那位国王成为一切众生之父:包括不幸者、无依者,以及生于畜生胎中的众生。
1.107.20
तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति ।
श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः ॥ १.१०७.२० ॥
当这位库鲁诸王中最优秀、诸王之王的人在位时,语言归于真实,心意归于布施之法。
1.107.21
यज्ञार्थं पशवः सृष्टाः संतानार्थं च मैथुनम् ।
स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथाऽपराः।
रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः ॥ १.१०७.२१ ॥
为祭祀而造出牲畜,为传续后代而有交合。他在十六年、八年、四年、八年及其他岁月中,在女子身上得不到欢愉,遂成为林中居者。
1.107.22
तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः ।
गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः ॥ १.१०७.२२ ॥
具有如此的容貌、行为、操守与学识的恒河之子,成为他的儿子,名为提婆跋多·婆苏。
1.107.23
सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च ।
महाबलो महासत्वो महावीर्यो महारथः ॥ १.१०७.२३ ॥
他精通一切兵器,无论在诸王还是其他人之中;他力大无穷,勇气过人,威力极大,是大战车武士。
1.107.24
स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम् ।
भागीरथीमल्पजलां शान्तनुर्दृष्टवान्नृपः ॥ १.१०७.२४ ॥
有一次,他射中一只鹿,沿着恒河前行,国王山陀那看见婆吉罗提河水量甚少。
1.107.25
तां दृष्ट्वा चिन्तयामास शान्तनुः पुरुषर्षभः ।
स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा ॥ १.१०७.२५ ॥
沙坦努见之,人中之牛沉思道:“这条最好的河今日为何不像往昔那样流淌?”
1.107.26
ततो निमित्तमन्विच्छन्ददर्श स महामनाः ।
कुमारं रूपसंपन्नं बृहन्तं चारुदर्शनम् ॥ १.१०७.२६ ॥
于是他寻找原因,这位大度者看见一位容貌俊美、身材高大、令人赏心悦目的少年。
1.107.27
दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरन्दरम् ।
कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम् ॥ १.१०७.२७ ॥
他施展神圣的武器,如神王因陀罗一般,以锐利的箭矢遮蔽了整条恒河而立。
1.107.28
तां शरैराचितां दृष्ट्वा नदीं गङ्गां तदन्तिके ।
अभवद्विस्मितो राजा दृष्ट्वा कर्मातिमानुषम् ॥ १.१०७.२८ ॥
国王看见附近恒河被箭矢覆盖,又目睹这超凡的壮举,心中惊异。
1.107.29
जातमात्रं पुरा दृष्टं तं पुत्रं शान्तनुस्तदा ।
नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम् ॥ १.१०७.२९ ॥
智慧的沙坦努当时想不起曾在出生时见过的那个儿子,无法认出他是自己的儿子。
1.107.30
स तु तं पितरं दृष्ट्वा मोहयामास मायया ।
संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत ॥ १.१०७.३० ॥
他见到父亲,便以幻术迷惑了他;迷惑之后,立刻就在那里消失了。
1.107.31
तदद्बुतं ततो दृष्ट्वा तत्र राजा स शान्तनुः ।
सङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह ॥ १.१०७.३१ ॥
于是国王商耽努见此奇景,走近恒河女神说:“请让我见见我的儿子。”
1.107.32
दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम् ।
गृहीत्वा दक्षिणे पाणौ तं कुमारमलङ्कृतम् ॥ १.१०७.३२ ॥
恒河女神显现至尊之相,以右手牵着那位盛装的少年,向他展示。
1.107.33
अलङ्कृतामाभरणैर्विरजोम्बरधारिणीम् ।
दृष्टपूर्वामपि स तां नाभ्यजानात्स शान्तनुः ॥ १.१०७.३३ ॥
尽管他以前见过她,但国王商耽努并未认出她——她身着饰物,穿着洁白无瑕的衣裳。
1.107.34
यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यविन्दथाः ।
स चायं पुरुषव्याघ्र सर्वास्त्रविदनुत्तमः ॥ १.१०७.३४ ॥
大王啊,这就是你从前在我腹中所得的第八个儿子:人中之虎,通晓一切兵器,无与伦比。
1.107.35
गृहाणेमं महाराज मया संवर्धितं सुतम् ।
आदाय पुरुषव्याघ्र नयस्वैनं गृहं विभो ॥ १.१०७.३५ ॥
伟大的国王啊,请接受我所抚养的这个儿子吧。人中之虎,威严的主人啊,带他回你的宫殿去吧。
1.107.36
वेदानधिजगे साङ्गान्वसिष्ठादेष वीर्यवान् ।
कृतास्त्रः परमेष्वासो देवराजसमो युधि ॥ १.१०७.३६ ॥
他在仙人伐悉吒那里学习了吠陀及其六支学问;他威猛、精通兵器,是至高的弓箭手,在战场上与众神之王因陀罗相等。
1.107.37
सुराणां संमतो नित्यमसुराणां च भारत ।
उशा वेद यच्छास्त्रमयं तद्वेद सर्वशः ॥ १.१०७.३७ ॥
婆罗多之后啊!乌舍那斯,始终为天神与阿修罗所尊敬,他曾通晓那门学问;此人则全然通晓。
1.107.38
तथैवाङ्गिरसः पुत्रः सुरसुरनमस्कृतः ।
यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम् ॥ १.१०७.३८ ॥
同样,阿伽罗斯之子,为天神与阿修罗所礼敬,他所通晓的那门学问,全部都安立于此人之中。
1.107.39
तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि ।
ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान् ॥ १.१०७.३९ ॥
在你那臂力强大、心胸宏大的儿子身上,具备此学问的全部支分与副支;那位仙人,即仗德人(遮摩达格尼)之子,他人无法战胜,威力显赫。
1.107.40
यदस्त्रं वेद राभश्च तदेतस्मिन्प्रतिष्ठितम् ।
महेष्वासमिमं राजन्राजधर्मार्थकोविदम् ॥ १.१०७.४० ॥
罗摩所知的武器之学,安立于此人之中。大王啊,这位大弓箭手精通王法与财利。
1.107.41
मया दत्तं निजं पुत्रं वीरं वीर गृहं नय ।
इत्युक्त्वा सा महाभागा तत्रैवान्तरधीयत।
तयैवं समनुज्ञातः पुत्रमादाय शान्तनुः ॥ १.१०७.४१ ॥
“请将我所赠予的、我亲生的这位英雄之子带回家去吧,英雄啊。”说罢,那位大福之女便就地消失了。得到她的允许后,珊塔努带着儿子……
1.107.42
भ्राजमानं यथाऽदित्यमाययौ स्वपुरं प्रति ।
पौरवस्तु पुरीं गत्वा पुरन्दरपुरोपमाम् ॥ १.१०७.४२ ॥
他如太阳般光辉,与他一同返回自己的城市。那位波卢瓦王来到这座如同因陀罗之城的城市,……
1.107.43
सर्वकामसमृद्धार्थं मेने सोत्मानमात्मना ।
पौरवेषु ततः पुत्रं राज्यार्थमभयप्रदम् ॥ १.१०७.४३ ॥
为了圆满一切欲望,他自认为已经圆满。随后,在保罗婆族中,为了王国诞生了一个施予无畏的儿子。
1.107.44
गुणवन्तं महात्मानं यौवराज्येऽभ्यषेचयत् ।
पौरवाञ्शान्तनोः पुत्रः पितरं च महायशाः ॥ १.१०७.४४ ॥
他为那位有德且高尚的儿子加冕为太子。山陀王之子、大名鼎鼎者,受到保罗婆族与父亲的喜爱。
1.107.45
राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ ।
स तथा सह पुत्रेण रममाणो महीपतिः ॥ १.१०७.४५ ॥
婆罗多族的雄牛啊,他以品行使国土欢喜。国王就这样与儿子同乐,继续统治。
1.107.46
वर्तयामास वर्षाणि चत्वार्यमितविक्रमः ।
स कदाचिद्वनं यातो यमुनामभितो नदीम् ॥ १.१०७.४६ ॥
这位威力无穷的国王度过了四年。有一次他前往森林,沿着亚穆纳河而行。
1.107.47
महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् ।
तस्य प्रभवमन्विच्छन्विचचार समन्ततः ॥ १.१०७.४७ ॥
这位大地之主嗅到一种难以言喻的上好香气。为寻找它的源头,他四处游荡。
1.107.48
स ददर्श तदा कन्यां दाशानां देवरूपिणीम् ।
तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम् ॥ १.१०७.४८ ॥
此时他看见一位达舍族的少女,容貌如神。他一见这位黑眼少女,便立即问她。
1.107.49
कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि ।
साऽब्रवीद्दाशकन्याऽस्मि धर्मार्थं वाहये तरिम् ॥ १.१०७.४९ ॥
你是谁家的,你是谁?胆怯的人啊,你想做什么?她回答说:“我是船夫的女儿;为了职责,我划船。”
1.107.50
पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः ।
रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम् ॥ १.१०७.५० ॥
愿你吉祥——依父亲之命,她是高尚的渔王之女,容貌柔美、芬芳袭人,有着天神般的形象。
1.107.51
समीक्ष्य राजा दाशेयीं कामयामास शान्तनुः ।
स गत्वा पितरं तस्या वरयामास तां तदा ॥ १.१०७.५१ ॥
国王三达努见到这位渔家女,便心生爱慕。他前去见她的父亲,随即向她求婚。
1.107.52
पर्यपृच्छत्ततस्तस्याः पितरं सोत्मकारणात् ।
स च तं प्रत्युवाचेदं दाशराजो महीपतिम् ॥ १.१०७.५२ ॥
于是国王因急切而询问她的父亲,渔王便对这位大地之主如此回答。
1.107.53
जातमात्रैव मे देया वराय वरवर्णिनी ।
हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर ॥ १.१०७.५३ ॥
我这位容貌美好的女儿,本应在出生后就许配给求婚者。但我心中有一个愿望——请理解它,人主啊。
1.107.54
यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ ।
सत्यवागसि सत्येन समयं कुरु मे ततः ॥ १.१०७.५४ ॥
无罪之人啊,如果你向我求娶她为正妻,而你又是诚实之人,那么请以真实向我立下誓约。
1.107.55
समयेन प्रदद्यां ते कन्यामहमिमां नृप ।
न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति ॥ १.१०७.५५ ॥
国王啊,我将以一个条件把这位少女交给你。对我而言,绝不会有与你匹敌的求婚者。
1.107.56
श्रुत्वा तव वरं दाश व्यवस्येयमहं तव ।
दातव्यं चेत्प्रदास्यामि न त्वदेयं कथंचन ॥ १.१०७.५६ ॥
听了你的请求,达舍啊,我会作出决定。若是应当给予的,我便给予;绝不会给出不该给你的东西。
1.107.57
अस्यां जायेत यः पुत्रः स राजा पृथिवीपते ।
त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव ॥ १.१०७.५७ ॥
从她所生的儿子,大地之主啊,他将成为国王;在你之后应为他举行灌顶,除他之外无人,国王啊。
1.107.58
नाकामयत तं दातुं वरं दाशाय शान्तनुः ।
शरीरजेन तीव्रेण दह्यमानोऽपि भारत ॥ १.१०७.५८ ॥
婆罗多啊,尽管山塔努正被从自己身体生出的剧烈痛苦所煎熬,他却不愿把那份恩赐赐给渔夫。
1.107.59
स चिन्तयन्नेव तदा दाशकन्यां महीपतिः ।
प्रत्ययाद्धास्तिनपुरं कामोपहतचेतनः ॥ १.१०७.५९ ॥
那时,这位大地之主一心只想着渔夫的女儿,心神被欲望所伤,因眷恋而返回了象城(Hāstinapura)。
1.107.60
ततः कदाचिच्छोचन्तं शान्तनुं ध्यानमास्थितम् ।
पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत् ॥ १.१०७.६० ॥
后来有一天,山塔努悲伤地坐在那里沉思,他的儿子提婆婆罗多走近父亲,说了这些话。
1.107.61
सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः ।
तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः ॥ १.१०७.६१ ॥
四方皆安,诸王皆服从于您。那么您为何如此悲伤,在此不停地忧叹?
1.107.62
ध्यायन्निव च मां राजन्नाभिभाषसि किंचन ।
न चाश्वेन विनिर्यासि विवर्णो हरिणः कृशः ॥ १.१०७.६२ ॥
君王啊,您仿佛沉浸于冥想之中;您不对我说一句话,也不再骑马外出;您面色苍白,形容枯瘦。
1.107.63
व्याधिमिच्छामि ते ज्ञातुं प्रतिकुर्यां हि तत्र वै ।
स तं काममवाच्यं वै दाशकन्यां प्रतीदृशम् ॥ १.१०७.६३ ॥
我想知道您的病因,并定会为您设法医治。但那份愿望——对渔人之女的那般渴望——是不便说出口的。
1.107.64
विवर्तुं नाशकत्तस्मै पिता पुत्रस्य शान्तनुः ।
एवमुक्तः स पुत्रेण शान्तनुः प्रत्यभाषत ॥ १.१०७.६४ ॥
父亲珊陀那无法让儿子回避此事。儿子如此询问,珊陀那便回答了。
1.107.65
असंशयं ध्यानपरो यथा वत्स तथा शृणु ।
अपत्यं नस्त्वमेवैकः कुले महति भारत ॥ १.१०७.६५ ॥
毫无疑问,我陷于沉思之中。听着,亲爱的孩子:在这个伟大的家族中,你是我们唯一的后嗣,婆罗多啊。
1.107.66
शस्त्रनित्यश्च सततं पौरुषे पर्यवस्थितः ।
अनित्यतां च लोकानामनुशोचामि पुत्रक ॥ १.१०७.६६ ॥
你始终专注于武艺,在男子汉的努力中坚定不移。孩子,我为世间的无常而忧伤。
1.107.67
कथंचित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम् ।
असंशयं त्वमेवैकः शतादपि वरः सुतः ॥ १.१०७.६७ ॥
恒河之子啊,无论遭遇何种灾难,我们的家族都不会因你而灭绝。毫无疑问,你一人便胜过百子。
1.107.68
न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे ।
संतानस्याविनाशाय कामये भद्रमस्तु ते ॥ १.१०७.६८ ॥
我也不会徒然再娶妻室。为了使血脉不致断绝,愿你平安吉祥。
1.107.69
अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः ।
चक्षुरेकं च पुत्रश्च अस्ति नास्ति च भारत।
चक्षुर्नाशे तनोर्नाशः पुत्रनाशे कुलक्षयः ॥ १.१०७.६९ ॥
讲说法义者说,只有一子等同无子。婆罗多啊,一目与一子,有若存在又若不存在。失去眼目则身体失去;失去儿子则家族衰亡。
1.107.70
अग्निहोत्रं त्रयी विद्या यज्ञाश्च सहदक्षिणाः ।
सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम् ॥ १.१०७.७० ॥
火祭、三明之学、以及附有酬资的祭祀——这一切加起来,也比不上子嗣的十六分之一。
1.107.71
एवमेतन्मनुष्येषु तच्च सर्वं प्रजास्विति ।
यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः ॥ १.१०७.७१ ॥
人类中情形如此,一切众生中也是如此。大智者啊,关于子嗣,我毫无疑问。
1.107.72
अपत्येनानृणो लोके पितॄणां नास्ति संशयः ।
एषा त्रयी पुराणानां देवतानां च शाश्वती ॥ १.१०७.७२ ॥
人借子嗣,在此世间便脱离对祖先的债务,这毫无疑问。此三明之教,是古人与诸神永恒的道路。
1.107.73
अपत्यं कर्म विद्या च त्रीणि ज्योतींषि भारत ॥ १.१०७.७३ ॥
婆罗多啊,子嗣、祭祀之业与知识,是三道光明。
1.107.74
त्वं च शूरः सदाऽमर्षी शस्त्रनित्यश्च भारत ।
नान्यत्र युद्धात्तस्मात्ते निधनं विद्यते क्वचित् ॥ १.१०७.७४ ॥
你英勇,常怀愤怒,恒常专注于兵器,婆罗多啊。因此你的死亡只会在战斗中降临,别无他处。
1.107.75
सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत् ।
इति ते कारणं तात दुःखस्योक्तमशेषतः ॥ १.१०७.७५ ॥
我疑惑当你平静之后,此事如何能成。孩子,你痛苦的原因已完整地告诉你了。
1.107.76
ततस्तत्कारणं राज्ञो ज्ञात्वा सर्वमशेषतः ।
देवव्रतो महाबुद्धिः प्रज्ञया चान्वचिन्तयत् ॥ १.१०७.७६ ॥
于是,完全明了国王的缘由后,大智的提婆伐刺多以其智慧加以思量。
1.107.77
अपत्यफलसंयुक्तमेतच्छ्रुत्वा पितुर्वचः ।
सूतं भूयोऽपि संतप्त आह्वयामास वै पितुः ॥ १.१०७.७७ ॥
听闻父亲这番关于子嗣之果的话,他痛心之下,再次召唤父亲的御者。
1.107.78
सूतस्तु कुरुमुख्यस्य उपयातस्तदाज्ञया ।
तमुवाच महाप्राज्ञो भीष्मो वै सारथिं पितुः ॥ १.१०७.७८ ॥
于是御者奉俱卢之主之命前来。大智的毗湿摩对父亲的那位御者说道。
1.107.79
त्वं सारथे पितुर्मह्यं सखासि रथधूर्गतः ।
अपि जानासि यदि वै कस्यां भावो नृपस्य तु ॥ १.१०७.७९ ॥
御者啊,你是我父亲的朋友,久居车轭之侧。若你知道国王的心意倾向于谁,就请告诉我。
1.107.80
तदाचक्ष्व भवान्पृष्टः करिष्ये न तदन्यथा ।
दाशकन्या कुरुश्रेष्ठ तत्र भावः पितुर्गतः ॥ १.१०७.८० ॥
你既然问了,我便如实相告,绝不违背。哦,俱卢之最,你父亲的心已倾向于那渔家女。
1.107.81
वृतः स नरदेवेन तदा वचनमब्रवीत् ।
योऽस्यां पुमान्भवेज्जातः स राजा त्वदनन्तरम् ॥ १.१०७.८१ ॥
国王求娶时,他便说道:“由她所生之子,将在你之后为王。”
1.107.82
नाकामयत तं दातुं पिता तव वरं तदा ।
स चापि निश्चयस्तस्य न च दद्यां ततोऽन्यथा ॥ १.१०७.८२ ॥
那时你父亲并不愿意应允这一请求,而他自己的决定也是:“否则我不会将她给你。”
1.107.83
एतत्ते कथितं वीर कुरुष्व यदनन्तरम् ।
ततः स पितुराज्ञाय मतं सम्यगवेक्ष्य च।
ज्ञात्वा च मानसं पुत्रः प्रययौ यमुनां प्रति ॥ १.१०७.८३ ॥
勇士啊,这些已告诉你了;接下来你便照着去做。于是那儿子深知父亲的意思,明了其心意,便向亚穆纳河而去。
1.107.84
क्षत्रियैः सह धर्मात्मा पुराणैर्धर्मचारिभिः ।
उच्चैश्श्रवसमागम्य कन्यां वव्रे पितुः स्वयम् ॥ १.१०७.८४ ॥
那位心怀正法的儿子与古老的遵行法道的刹帝利同来,亲自为父亲求娶了那位少女。
1.107.85
तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च ।
अब्रवीच्चैनमासीनं राजसंसदि भारत ॥ १.१०७.८५ ॥
渔夫依礼迎接并尊敬了他;在王廷议会中坐着的他面前,婆罗多啊,他说道。
1.107.86
राज्यशुल्का प्रदातव्या कन्येयं याचतां वर ।
अपत्यं यद्भवेदस्याः स राजाऽस्तु पितुः परम् ॥ १.१०७.८६ ॥
求婚者中的最优者啊,这位少女应以王国为聘礼而嫁出;她所生的儿子应在父亲之后为王。
1.107.87
त्वमेवात्र महाबाहो शान्तनोर्वंशवर्धनः ।
पुत्रः शस्त्रभृतां श्रेष्ठः किं नु वक्ष्यामि ते वचः ॥ १.१०७.८७ ॥
大臂者啊,此处唯你是增益珊陀努家族的人,是持兵器者中最优秀的儿子;我还能对你说什么呢?
1.107.88
कुमारिकायाः शुल्कार्थं किंचिद्वक्ष्यामि भारत ।
कोहि संबन्धखं श्लाघ्यमीप्सितं यौनमीदृशम्।
अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः ॥ १.१०७.८८ ॥
婆罗多啊,关于少女的聘礼,我要说几句:如此值得称赞、令人向往的婚姻联姻若被违背,谁能不悔恨,即便是因陀罗本人?
1.107.89
अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः ।
यस्य शुक्रात्सत्यवती संभूता वरवर्णिनी ॥ १.१०७.८९ ॥
此子嗣属于那位在德行上与你们相等的高贵者;从他的精液中,肤色美丽的萨蒂雅瓦蒂诞生了。
1.107.90
तेन मे बहुशस्तात पिता ते परिकीर्तितः ।
अर्हः सत्यवतीं वोढुं धर्मज्ञः स नराधिपः ॥ १.१०७.९० ॥
亲爱的,因为此事,我多次称赞你的父亲;那位精通法的人主,配得上迎娶萨蒂雅瓦蒂。
1.107.91
इयं सत्यवती देवी पितरं तेऽब्रवीत्तथा ।
अर्थितश्चापिराजर्षिः प्रत्याख्यातः पुरा मया ॥ १.१०७.९१ ॥
女神萨提亚瓦蒂对你的父亲这样说:“那位王仙先前也曾向我求婚,但我拒绝了他。”
1.107.92
कन्यापितृत्वात्किंचित्तु वक्ष्यामि त्वां नराधिप ।
बलवत्सपत्नतामत्र दोषं पश्यामि केवलम् ॥ १.१०७.९२ ॥
人主啊,作为女儿的父亲,我要对你说几句。我在此只看到一个过失:强大的情敌之患。
1.107.93
भूयांसं त्वयि पश्यामि तद्दोषमपराजित ।
यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा ॥ १.१०७.९३ ॥
不败之人啊,我在你身上看到的那过失更大,因为你可能会成为乾闼婆或阿修罗的情敌。
1.107.94
न स जातु चिरं जीवेत्त्वयि क्रुद्धे परन्तप ।
एतावानत्र दोषो हि नान्यः कश्चन पार्थिव ॥ १.१०७.९४ ॥
降伏敌人的人啊,你若愤怒,他不会长久活着。国王啊,这里的过失只有这些,别无其他。
1.107.95
एतज्जानीहि भद्रं ते दानादाने परन्तप ॥ १.१०७.९५ ॥
降伏敌人的人啊,你要知道此事,愿你吉祥。这就是给予与接受。
1.107.96
एवमुक्तस्तु गाङ्गेयस्तद्युक्तं प्रत्यभाषत ।
शृण्वतां भूमिपालानां पितुरर्थाय भारत ॥ १.१०७.९६ ॥
如此被问之后,恒河之子给出了恰当的回答,诸王在旁聆听,婆罗多啊,为了父亲的利益。
1.107.97
इदं वचनमाधत्स्व नास्ति वक्तास्य मत्समः ।
अन्यो जातो न जनिता न च कश्चन संप्रति ॥ १.१०७.९७ ॥
请听此言:在此事上没有与我相当的言者,此刻也没有像我这样出生或生育的人。
1.107.98
एवमेतत्करिष्यामि यथा त्वमनुभाषसे ।
योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति ॥ १.१०७.९८ ॥
我将照你所说的去做:由她所生的儿子将成为我们的国王。
1.107.99
इत्युक्तः पुनरेव स्म तं दाशः प्रत्यभाषत ।
चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ ॥ १.१०७.९९ ॥
如此被问,渔夫又回答他,想为王国做一件艰难的事,婆罗多之牛啊。
1.107.100
त्वमेव नाथः संप्राप्तः शान्तनोरमितद्युते ।
कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः ॥ १.१०७.१०० ॥
你,无量光辉的珊陀努之子,已来此作为主人;义人啊,将这少女许配出去的权力也只在你一人手中。
1.107.101
इदं तु वचनं सौम्य कार्यं चैव निबोध मे ।
कौमारिकाणां शीलेन वक्ष्याम्यहमरिन्दम ॥ १.१०७.१०१ ॥
但请听我之言,温和的人,并付诸实行:我将依照未婚少女的天性而说,降伏敌人者啊。
1.107.102
यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण ।
राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत् ॥ १.१०७.१०२ ॥
你为了萨蒂亚瓦蒂在众王面前所立的誓言,守持真理与法的人啊,只适合你自己。
1.107.103
नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन ।
तवापत्यं भवेद्यत्तु तत्र नः संशयो महान् ॥ १.१०७.१०३ ॥
啊,大臂者,此事毫无疑问不会有别的结果。但若你有了子嗣,我们对此便有很大的疑虑。
1.107.104
तस्यैतन्मतमाज्ञाय सत्यधर्मपरायणः ।
प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया ॥ १.१०७.१०४ ॥
他知道了父亲的想法,这位奉行真理与法的人,于是,国王啊,出于想让父亲高兴的心意,立下了誓言。
1.107.105
उच्चैश्श्रवः समाधत्स्व प्रतिज्ञां जनसंसदि ।
ऋषयो वाथ वा देवा भूतान्यन्तर्हितानि च ॥ १.१०७.१०५ ॥
啊,乌察恰室罗婆,请在人众的集会中坚守此誓。无论是仙人、天神,还是隐藏起来的众生——
1.107.106
यानि यानीह शृण्वन्तु नास्ति वक्तास्य मत्समः ।
दाशराज निबोधेदं वचनं मे नृपोत्तम ॥ १.१०७.१०६ ॥
凡在此处者,都请聆听;就此事而言,没有能与我相比的说话者。啊,达舍王,诸王中的至尊,请理解我这些话。
1.107.107
शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते ।
राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिपाः ॥ १.१०७.१०७ ॥
聆听的诸王啊,我为父亲所说的是此事:王国我早前已经放弃了。啊,人主们。
1.107.108
अपत्यहेतोरपि च करिष्येऽद्य विनिश्चयम् ।
अद्यप्रभृति मे दाश ब्रह्मचर्यं भविष्यति ॥ १.१०७.१०८ ॥
即使为了子嗣,我现在也要下定决心。啊,达舍,从今日起,我将过梵行的生活。
1.107.109
अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि ।
न हि जन्मप्रभृत्युक्तं मया किंचिदिहानृतम् ॥ १.१०७.१०९ ॥
即使我没有儿子,我在天上的世界也将永恒不灭。自出生以来,我在此从未说过一句谎话。
1.107.110
यावत्प्राणा ध्रियन्ते वै मम देहं समाश्रिताः ।
तावन्न जनयिष्यामि पित्रे कन्यां प्रयच्छ मे ॥ १.१०७.११० ॥
只要生命之气仍留在我的身体中,我便不会生育子嗣。请把一位少女交给我,为了父亲。
1.107.111
परित्यजाम्यहं राज्यं मैथुनं चापि सर्वशः ।
ऊर्ध्वरेता भविष्यामि दाश सत्यं ब्रवीमि ते ॥ १.१०७.१११ ॥
我完全放弃王国与交合。啊渔夫,我将成为精气上升之人。这是我对你说的真实之言。
1.107.112
तस्य तद्वचनं श्रुत्वा संप्रहृष्टतनूरुहः ।
ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत ॥ १.१०७.११२ ॥
听了他的这番话,喜得汗毛竖起的正法之心的渔夫回答他说:「我给。」
1.107.113
ततोन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तदा ।
तद्दृष्टा दुष्करं कर्म प्रशशंसुश्च पार्थिवाः ॥ १.१०७.११३ ॥
此时天空中的天女、诸神与仙人众,见到这一难成之事,诸王也都赞叹不已。
1.107.114
अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् ।
ततः स पितुरर्थाय तामुवाच यशस्विनीम् ॥ १.१०७.११४ ॥
他们洒下花雨,说:「此人是毗湿摩。」随后,他为了父亲,对那位有名的女子说道。
1.107.115
अधिरोह रथं मातर्गच्छावः स्वगृहानिति ।
एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीं ॥ १.१०७.११५ ॥
“母亲,请上车,让我们回自己的家吧。”如此说后,毗湿摩将那位光彩照人的女子扶上战车。
1.107.116
आगम्य हास्तिनपुरं शान्तनोः संन्यवेदयत् ।
तस्य तद्दुष्करं कर्म प्रशशंसुर्नाराधिपाः ॥ १.१०७.११६ ॥
抵达象城后,他将一切禀报给了三度。诸王赞美他这难以完成的壮举。
1.107.117
समेताश्च पृथक्चैव भीष्मोयमिति चाब्रुवन् ।
तच्छ्रुत्वा दुष्करं कर्म कृतं भीष्मेण शान्तनुः ॥ १.१०७.११७ ॥
众人或聚在一起,或分散各处,都说:“这就是毗湿摩。”三度听闻毗湿摩完成了这难以完成的壮举,
1.107.118
बभूव दुःखितो राजा चिररात्राय भारत ।
स तेन कर्मणा सूनोः प्रीतस्तस्मै वरं ददौ ॥ १.१०७.११८ ॥
婆罗多啊,三度王悲伤了很久。之后,因儿子的这一行为而欢喜,他便赐予他一个恩惠。
1.107.119
स्वच्छन्दमरणं तुष्टो ददौ तस्मै महात्मने ।
न ते मृत्युः प्रभविता यावज्जीवितुमिच्छसि ॥ १.१०७.११९ ॥
三度王欣然赐予这位大德者随意死亡的恩惠:“只要你想活着,死亡就无法支配你。”
1.107.120
त्वत्तो ह्यनुज्ञां संप्राप्य मृत्युः प्रभविताऽनघ ॥ १.१०७.१२० ॥
“无罪的人啊,只有在得到你的允许之后,死亡才能对你发生作用。”