Mahābhārata · Adhyāya 1.108
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.108.1
चेदिराजसुतां ज्ञात्वा दाशराजेन वर्धिताम् ।
विवाहं कारयामास शास्त्रदृष्टेन कर्मणा ॥ १.१०८.१ ॥
Knowing that the daughter of the Cedi king had been raised by the king of the fishermen, he had her married with the rite prescribed by the scriptures.
1.108.2
ततो विवाहे निर्वृत्ते स राजा शान्तनुर्नृपः ।
तां कन्यां रूपसंपन्नां स्वगृहे संन्यवेशयत् ॥ १.१०८.२ ॥
When the marriage was completed, King Śantanu settled that beautiful maiden in his own house.
1.108.3
ततः शान्तनवो धीमान्सत्यवत्यामजायत ।
वीरश्चित्राङ्गदो नाम वीर्यवान्पुरुषेश्वरः ॥ १.१०८.३ ॥
Then the wise son of Śantanu was born of Satyavatī: a hero named Citrāṅgada, mighty, lord of men.
1.108.4
अथापरं महेष्वासं सत्यवत्यां सुतं प्रभुः ।
विचित्रवीर्यं राजानं जनयामास वीर्यवान् ॥ १.१०८.४ ॥
Then the mighty one begot another great archer by Satyavatī, a king named Vicitravīrya.
1.108.5
अप्राप्तवति तस्मिंस्तु यौवनं पुरुषर्षभे ।
स राजा शान्तनुर्धीमान्कालधर्ममुपेयिवान् ॥ १.१०८.५ ॥
Before that bull among men had reached youth, the wise King Śantanu went the way of time, to death.
1.108.6
स्वर्गते शान्तनौ भीष्मश्चित्राङ्गदमरिन्दनम् ।
स्थापयामास वै राज्ये सत्यवत्या मते स्थितः ॥ १.१०८.६ ॥
When Śantanu had gone to heaven, Bhīṣma, abiding by Satyavatī's consent, set Citrāṅgada, subduer of foes, upon the throne.
1.108.7
स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान् ।
मनुष्यं न हि मेन स कंचित्सदृशमात्मनः ॥ १.१०८.७ ॥
Chitrāṅgada, out of valour, challenged all the kings; he thought no man his equal.
1.108.8
तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा ।
गन्धर्वराजो बलवांस्तुल्यनामाऽभ्ययात्तदा ॥ १.१०८.८ ॥
Against him, who challenged gods, men and demons alike, there then came the mighty king of the Gandharvas, who bore the same name.
1.108.9
त्वं वै सदृशनामासि युद्धं देहि नृपात्मज ।
नाम वाऽन्यत्प्रगृह्णीष्व यदि युद्धं न दास्यसि ॥ १.१०८.९ ॥
Prince, you indeed bear the same name. Give battle, or else take up another name if you will not give battle.
1.108.10
त्वयाहं युद्धमिच्छामि त्वत्सकाशं तु नामतः ।
आगतोस्मि वृथाऽऽभाष्य न गच्छेन्नाम ते मम ॥ १.१०८.१० ॥
I desire battle with you. I have come before you only because of the name; having called out in vain, let not your name become mine.
1.108.11
इत्युक्त्वा गर्जमानौ तौ हिरण्वत्यास्तटं गतौ ।
तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह ॥ १.१०८.११ ॥
Having spoken thus, roaring, the two went to the bank of the Hiraṇvatī, and between them at Kurukṣetra a very great battle came to be.
1.108.12
तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः ।
नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः ॥ १.१०८.१२ ॥
There, on the bank of the Hiraṇvatī, between those two mighty ones, the Gandharva king and the chief of the Kurus, the battle lasted three years.
1.108.13
तस्मिन्विमर्दे तुमुले शस्त्रवर्षसमाकुले ।
मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम् ॥ १.१०८.१३ ॥
In that fierce clash, filled with a rain of weapons, the Gandharva, superior in illusion, slew the hero, best of the Kurus.
1.108.14
स हत्वा तु नरश्रेष्ठं चित्राङ्गदमरिन्दमम् ।
अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः ॥ १.१०८.१४ ॥
Having slain Citrāṅgada, the best of men, the subduer of foes, and brought him to his end, the Gandharva then departed for the sky.
1.108.15
तस्मिन्पुरुषशार्दूले निहते भूरितेजसि ।
भीष्मः शान्तनवो राजा प्रेतकार्याण्यकारयत् ॥ १.१०८.१५ ॥
When that tiger among men, of great splendor, had been slain, Bhīṣma, son of Śantanu, the king, had the funeral rites performed.
1.108.16
विचित्रवीर्यं च तदा बालमप्राप्तयौवनम् ।
कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम् ॥ १.१०८.१६ ॥
Then the mighty-armed Bhīṣma at once anointed Vicitravīrya, a boy not yet come of age, as king over the kingdom of the Kurus.
1.108.17
विचित्रवीर्यः स तदा भीष्मस्य वचने स्थितः ।
अन्वशासन्महाराज पितृपैतामहं पदम् ॥ १.१०८.१७ ॥
Then Vicitravīrya, abiding by the word of Bhīṣma, governed, O great king, in the seat of his fathers and grandfathers.