Vedyatra वेदयात्रा
Search

Mahābhārata · Adhyāya 1.109

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

Read with meanings

1.109.1

हते चित्राङ्गदे भीष्मो बाले भ्रातरि कौरव ।
पालयामास तद्राज्यं सत्यवत्या मते स्थितः ॥ १.१०९.१ ॥

O Kaurava, when Citrāṅgada was killed and his younger brother was still a child, Bhīṣma, abiding by Satyavatī's counsel, ruled that kingdom.

1.109.2

तथा विचित्रवीर्यं तु वर्तमानं सुखेऽतुले ।
संप्राप्तयौवनं दृष्ट्वा भ्रातरं धीमतां वरः।
भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् ॥ १.१०९.२ ॥

Seeing his brother Vicitravīrya, living in incomparable happiness and grown to youth, Bhīṣma, best of the wise, resolved to arrange Vicitravīrya's marriage.

1.109.3

अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरोपमाः ।
शुश्राव सहिता राजन्वृण्वाना वै स्वयंवरम् ॥ १.१०९.३ ॥

Then, O king, Bhīṣma heard that the three daughters of the king of Kāśī, like apsaras, were holding a swayamvara together.

1.109.4

ततः स रथिनां श्रेष्ठो रथेनैकेन शत्रुजित् ।
जगामानुमते मातुः पुरीं वाराणसीं प्रभुः ॥ १.१०९.४ ॥

Then that lord, best of charioteers and conqueror of enemies, went alone in a single chariot to the city of Vārāṇasī, with his mother's consent.

1.109.5

तत्र राज्ञः समुदितान्सर्वतः समुपागतान् ।
ददर्श कन्यास्ताश्वै भीष्मः शान्तनुनन्दनः ॥ १.१०९.५ ॥

There the son of Śantanu, Bhīṣma, saw the kings gathered from every side, and the maidens.

1.109.6

तासां कामेन संमत्ताः सहिताः काशिकोसलाः ।
वङ्गाः पुण्ड्राः कलिङ्गाश्च ते जग्मुस्तां पुरीं प्रति ॥ १.१०९.६ ॥

Maddened with desire for them, the Kāśis, Kosalas, Vaṅgas, Puṇḍras and Kaliṅgas went together toward that city.

1.109.7

कीर्त्यमानेषु राज्ञां तु तदा नामसु सर्वशः ।
एकाकिनं तदा भीष्मं वृद्धं शान्तनुनन्दनम् ॥ १.१०९.७ ॥

As the names of the kings were being proclaimed one by one, Bhīṣma, son of Śāntanu, the aged one, appeared alone.

1.109.8

सोद्वेगा इव तं दृष्ट्वा कन्याः परमशोभनाः ।
अपाक्रामन्त ताः सर्वा वृद्ध इत्येव चिन्तया ॥ १.१०९.८ ॥

Seeing him, the most beautiful maidens, as if agitated, all withdrew, thinking, 'He is an old man.'

1.109.9

वृद्धः परमधर्मात्मा वलीपलितधारणः ।
किकारणमिहायातो निर्लज्जो भरतर्षभः ॥ १.१०९.९ ॥

This old man, supremely righteous in soul, bearing wrinkles and grey hair, bull of the Bharatas, shameless—for what reason has he come here?

1.109.10

मिथ्याप्रतिज्ञो लोकेषु किं वदिष्यति भारत ।
ब्रह्मचारीति भीष्मो हि वृथैव प्रथितो भुवि ॥ १.१०९.१० ॥

What will one who has made a false vow say among the people, O Bhārata? Bhīṣma is renowned on earth as a 'brahmacārin' only in vain.

1.109.11

इत्येवं प्रबुवन्तस्ते हसन्ति स्म नृपाधमाः ।
क्षत्रियाणां वचः श्रुत्वा भीष्मश्चुक्रोध भारत ॥ १.१०९.११ ॥

Speaking thus, those lowest of kings laughed. Hearing those words of the kṣatriyas, O Bhārata, Bhīṣma grew angry.

1.109.12

भीष्मस्तदा स्वयं कन्या वरयामास ताः प्रभुः ।
उवाच च महीपालान्राजञ्जलदनिःस्वनः ॥ १.१०९.१२ ॥

Then the mighty Bhīṣma himself chose those maidens as brides, and, with a voice like a thundercloud, spoke to the kings, O king.

1.109.13

रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः ।
आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः ॥ १.१०९.१३ ॥

Having set those maidens on the chariot, Bhīṣma, best of warriors, bore them off. The wise have declared that the gift of a maiden should be made to virtuous men who have been summoned.

1.109.14

अलङ्कृत्य यथाशक्ति प्रदाय च धनान्यपि ।
प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि ॥ १.१०९.१४ ॥

Others give away the maiden, having adorned her according to their means, and having given wealth as well, even a pair of cows.

1.109.15

वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च ।
प्रमत्तामुपयन्त्यन्ये स्वयमन्ये च विन्दते ॥ १.१०९.१५ ॥

Some take in marriage a maiden who is intoxicated, having obtained her by wealth, others by a declared price, others by force, others having won consent; and others obtain her by their own choice.

1.109.16

आर्षं विधिं पुरस्कृत्य दारान्विन्दन्ति चापरे ।
अष्टमं तमथो वित्त विवाहं कविभिर्वृतम् ॥ १.१०९.१६ ॥

Others, placing the rite of the ṛṣis foremost, obtain wives. And know then that eighth marriage, which has been chosen by the sages.

1.109.17

स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च ।
प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः ॥ १.१०९.१७ ॥

Kings praise the self-choice ceremony and take wives through it; but those who speak of dharma call the maiden carried off by force, having seized her, the best.

1.109.18

ता इमाः पृथिवीपाला जिहीर्षामि बलादितः ।
ते यतध्वं परं शक्त्या विजयायेतराय वा ॥ १.१०९.१८ ॥

O kings, I wish to carry these maidens off from here by force. Strive with your utmost might, either for victory or for the contrary.

1.109.19

स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः ।
एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान् ॥ १.१०९.१९ ॥

O protectors of the earth, I stand resolved for battle. Having said this, the mighty one addressed the kings and the king of Kāśi.

1.109.20

सर्वाः कन्याः स कौरव्यो रथमारोप्य च स्वकम् ।
आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः ॥ १.१०९.२० ॥

That Kaurava placed all the maidens upon his own chariot. Then, taking leave of them, he set out swiftly, carrying off those maidens.

1.109.21

ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः ।
संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान् ॥ १.१०९.२१ ॥

Then all those kings, incensed, rose up, touching their own arms and biting their lips with their teeth.

1.109.22

तेषामाभरणान्याशु त्वरितानां विमुञ्चताम् ।
आमुञ्चतां च वर्माणि संभ्रमः सुमहानभूत् ॥ १.१०९.२२ ॥

As they hastily removed their ornaments and put on their armour, a great commotion arose.

1.109.23

ताराणामिव संपातो बभूव जनमेजय ।
भूषणानां च सर्वेषां कवचानां च सर्वशः ॥ १.१०९.२३ ॥

O Janamejaya, a shower like falling stars arose, of all the ornaments and all the armour, everywhere.

1.109.24

सवर्मभिर्भूषणैश्च प्रकीर्यद्बिरितस्ततः ।
सक्रोधामर्षजिह्मभ्रूकषायीकृतलोचनाः ॥ १.१०९.२४ ॥

Armour and ornaments were scattered here and there, and their eyes were reddened by anger, indignation, and knitted brows.

1.109.25

सूतोपक्लृप्तान् रुचिरान्सदश्वैरुपकल्पितान् ।
रथानास्थाय ते वीराः सर्वप्रहरणान्विताः ॥ १.१०९.२५ ॥

Mounting the splendid chariots prepared by charioteers and yoked with fine horses, those heroes, equipped with every kind of weapon.

1.109.26

प्रयान्तमथ कौरव्यमनुसस्रुरुदायुधाः ।
ततः समभवद्युद्धं तेषां तस्य च भारत।
एकस्य च बहूनां च तुमुलं रोमहर्षणम् ॥ १.१०९.२६ ॥

Those raising weapons pursued the Kaurava as he advanced. Then, O Bhārata, a tumultuous, hair-raising battle arose between them and him, one against many.

1.109.27

ते त्विषून्दशसाहस्रांस्तस्मिन्युगपदाक्षिपन् ।
अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तथाऽन्तरा ॥ १.१०९.२७ ॥

They shot at him at once ten thousand arrows; but Bhīṣma swiftly cut all of them down in mid-air before they reached him.

1.109.28

अच्छिनच्छरवर्षेण महता लोमवाहिना ।
ततस्ते पार्थिवाः सर्वे सर्वतः परिवार्य तम् ॥ १.१०९.२८ ॥

He cut them down with a great shower of fine, hair-like arrows. Then all those kings, surrounding him on every side,

1.109.29

ववृषुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ।
स तं बाणमयं वर्षं शरैरावार्य सर्वतः ॥ १.१०९.२९ ॥

Just as clouds pour rain upon a mountain, they rained down a shower of arrows; and he, blocking that arrow-made downpour on every side with his own arrows,

1.109.30

ततः सर्वान्महीपालान्पर्यविध्यत्त्रिभिस्त्रिभिः ।
एकैकस्तु ततो भीष्मं राजन्विव्याध पञ्चभिः ॥ १.१०९.३० ॥

Then he pierced each of all those kings with three arrows apiece; and then, O king, each of them pierced Bhīṣma with five arrows.

1.109.31

स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमन् ।
तद्युद्धमासीत्तुमुलं घोरं देवासुरोपमम् ॥ १.१०९.३१ ॥

He, displaying his prowess, struck back at each of them with two arrows. That battle was tumultuous and terrible, like the battle of gods and asuras.

1.109.32

पश्यतां लोकवीराणां शरशक्तिसमाकुलम् ।
स धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि ॥ १.१०९.३२ ॥

As the heroes of the world looked on, that battle was filled with arrows and spears. He ... bows, banner-tops, armours and heads.

1.109.33

चिच्छेद समरे भीष्मः शतशोथ सहस्रशः ।
तस्यातिपुरुषं कर्म लाघवं रथचारिणः ॥ १.१०९.३३ ॥

Bhīṣma cut down hundreds and thousands in battle. The deed of that charioteer was superhuman, and his dexterity was remarkable.

1.109.34

रक्षणं चात्मनः संख्ये शत्रवोऽप्यभ्यपूजयन् ।
अक्षतः क्षपयित्वान्यानसङ्ख्येयपराक्रमः ॥ १.१०९.३४ ॥

Even his enemies praised the way he protected himself in battle. Having destroyed others, he stood unhurt, a hero of countless valour.

1.109.35

आनिनाय स काश्यस्य सुताः सागरगासुतः ।
तान्विनिर्जित्य तु रणे सर्वशस्त्रभृतां वरः ॥ १.१०९.३५ ॥

The son of the Gaṅgā brought the daughters of the king of Kāśi. Having conquered them in battle, he, best of all weapon-bearers, ...

1.109.36

कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति ।
ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः ॥ १.१०९.३६ ॥

Together with the maidens, that Bhārata set out toward the Bhāratas. Then, O king, the king of Śālva, the great charioteer, from behind him...

1.109.37

अभ्यगच्छदमेयात्मा भीष्मं शान्तनवं रणे ।
वारणं जघने भिन्दन्दन्ताभ्यामपरो यथा ॥ १.१०९.३७ ॥

Of immeasurable spirit, he advanced in battle toward Bhīṣma, son of Śantanu, as another elephant pierces an opposing elephant's flank with its tusks.

1.109.38

वासितामनुसंप्राप्तो यूथपो बलिनां वरः ।
स्त्रीकामस्तिष्ठतिष्ठेति भीष्ममाह स पार्थिवः ॥ १.१०९.३८ ॥

That king, best of the strong, having followed the scent of the female elephant like a herd-leader, said to Bhīṣma: 'Stop, stop, lover of women!'

1.109.39

साल्वराजो महाबाहुरमर्षेण प्रचोदितः ।
ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः ॥ १.१०९.३९ ॥

Śālva, the mighty-armed king, was driven on by indignation. Then Bhīṣma, tiger among men, crusher of the enemy's forces, (prepared to respond).

1.109.40

तद्वाक्याकुलितः क्रोधाद्विधूमोग्निरिव ज्वलन् ।
विततेषुधनुष्पाणिर्विकुञ्चितललाटभृत् ॥ १.१०९.४० ॥

Agitated by those words, he blazed in anger like a fire without smoke, a bow and quiver spread in his hands, his brow furrowed.

1.109.41

क्षत्रधर्मं समास्थाय व्यपेतभयसंभ्रमः ।
निवर्तयामास रथं साल्वं प्रति महारथः ॥ १.१०९.४१ ॥

Taking up the duty of a warrior, free from fear and agitation, the great charioteer turned his chariot back toward Śālva.

1.109.42

निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते ।
प्रेक्षकाः समपद्यन्त भीष्मसाल्वसमागमे ॥ १.१०९.४२ ॥

Seeing him turn back, all those kings became spectators of the encounter between Bhīṣma and Śālva.

1.109.43

तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे ।
अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ ॥ १.१०९.४३ ॥

Those two, roaring like bulls, strong and mighty in valour, advanced upon each other in the space of the cow in heat.

1.109.44

ततो भीष्मं शान्तनवं शरैः शतसहस्रशः ।
साल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः ॥ १.१०९.४४ ॥

Then Sālva, king and best of men, showered Bhīṣma, son of Śantanu, with hundreds of thousands of swift arrows.

1.109.45

पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं साल्वेन ते नृपाः ।
विस्मिताः समपद्यन्त साधुसाध्विति चाब्रुवन् ॥ १.१०९.४५ ॥

Seeing Bhīṣma earlier pressed hard by Sālva, those kings were astonished and said, "Well done! Well done!"

1.109.46

लाघवं तस्य ते दृष्ट्वा समरे सर्वपार्थिवाः ।
अपूजयन्त संहृष्टा वाग्भिः साल्वं नराधिपम् ॥ १.१०९.४६ ॥

Seeing his swiftness in battle, all the kings, delighted, honoured Sālva, lord of men, with words of praise.

1.109.47

क्षत्रियाणां ततो वाचः श्रुत्वा परपुञ्जयः ।
क्रुद्धः शान्तनवो भीष्मस्तिष्ठतिष्ठेत्यभाषत ॥ १.१०९.४७ ॥

Then Bhīṣma, son of Śantanu, conqueror of foes, hearing those words of the warriors, grew angry and said, "Stop! Stop!"

1.109.48

सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः ।
यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट् ॥ १.१०९.४८ ॥

Angered, he said to his charioteer, "Drive to where this king is, so that I may slay him today, as the king of birds slays a serpent."

1.109.49

ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः ।
तेनाश्वांश्चतुरोऽमृद्गात्साल्वराजस्य भूपते ॥ १.१०९.४९ ॥

Then the Kaurava (Bhīṣma) properly fitted the Vāruṇa weapon, and with it crushed the four horses of King Sālva, O king.

1.109.50

अस्त्रैरस्त्राणि संवार्य साल्वराजस्य कौरवः ।
भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम् ॥ १.१०९.५० ॥

The Kaurava Bhīṣma, warding off weapons with weapons, struck down the charioteer of King Sālva, O tiger among kings.

1.109.51

अस्त्रेण चास्याथैन्द्रेण न्यवधीत्तुरगोत्तमान् ।
कन्याहेतोर्नरश्रेष्ठ भीष्मः शान्तनवस्तदा ॥ १.१०९.५१ ॥

And with an Aindra weapon he struck down his finest horses; for the sake of the maidens, O best of men, Bhīṣma, son of Śantanu, then did so.

1.109.52

जित्वा विसर्जयामास जीवन्तं नृपसत्तमम् ।
ततः साल्वः स्वनगरं प्रययौ भरतर्षभ ॥ १.१०९.५२ ॥

Having conquered him, he released the living best of kings; then Sālva went to his own city, O bull of the Bharatas.

1.109.53

स्वराज्यमन्वशाच्चैव धर्मेण नृपतिस्तदा ।
राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः ॥ १.१०९.५३ ॥

Then the king ruled his own kingdom righteously; and the kings who had been there, desiring to see the svayaṃvara, went their way.

1.109.54

स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जयाः ।
एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः ॥ १.१०९.५४ ॥

Those conquerors of enemy cities also went to their own kingdoms; thus, having conquered those maidens, Bhīṣma, best of warriors...

1.109.55

प्रययौ हास्तिनपुरं यत्र राजा स कौरवः ।
विचित्रवीर्यो धर्मात्मा प्रशास्ति वसुधामिमाम् ॥ १.१०९.५५ ॥

He went to Hāstinapura, where the Kaurava king, the righteous Vicitravīrya, was ruling this earth.

1.109.56

यथा पितास्य कौरव्यः शान्तनुर्नृपसत्तमः ।
सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप ॥ १.१०९.५६ ॥

Just as his father, the Kaurava king Śāntanu, best of kings, also passed away in no long time, O lord of men.

1.109.57

वनानि सरितश्चैव शैलांश्च विनिधान्द्रुमान् ।
अक्षतः क्षपयित्वाऽरीन्सङ्ख्येऽसङ्ख्येयविक्रमः ॥ १.१०९.५७ ॥

Forests, rivers, mountains, and trees — having destroyed the enemies in battle, he of immeasurable valour passed through them unharmed.

1.109.58

आनयामास काश्यस्य सुताः सागरगासुतः ।
स्नुषा इव स धर्मात्मा भगिनीरिव चानुजाः ॥ १.१०९.५८ ॥

The son of Gaṅgā brought the daughters of the king of Kāśī; the righteous one brought them as though they were daughters-in-law, and as though they were younger sisters.

1.109.59

यथा दुहितश्चैव परिगृह्य ययौ कुरून् ।
आनिन्ये स महाबाहुर्भ्रातुः प्रियचिकीर्षया ॥ १.१०९.५९ ॥

Taking them as though they were his daughters, he went to the Kurus; the mighty-armed one brought them, wishing to please his brother.

1.109.60

ताः सर्वगुणसंपन्ना भ्राता भ्रात्रे यवीयसे ।
भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः ॥ १.१०९.६० ॥

Those maidens, endowed with every virtue and won by valour, Bhīṣma gave to his younger brother Vicitravīrya.

1.109.61

एवं धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् ।
भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे ॥ १.१०९.६१ ॥

Thus the knower of dharma, having performed a superhuman deed in accordance with dharma, set about the marriage of his brother Vicitravīrya.

1.109.62

सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान् ।
विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता।
ज्येष्ठा तासामिदं वाक्यमब्रवीद्धसती तदा ॥ १.१०९.६२ ॥

When Bhīṣma, self-controlled, had made a mutual decision with Satyavatī and was about to arrange the marriage, the eldest of the daughters of the king of Kāśi, laughing, spoke these words.

1.109.63

मया सौभपतिः पूर्वं मनसा हि वृतः पतिः ।
तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः ॥ १.१०९.६३ ॥

I had already chosen the lord of Saubha as husband in my mind, and by him I was chosen beforehand; this is also my father's wish.

1.109.64

मया वरयितव्योऽभूत्साल्वस्तस्मिन्स्वयंवरे ।
एतद्विज्ञाय धर्मज्ञ धर्मतत्त्वं समाचर ॥ १.१०९.६४ ॥

At that svayaṃvara I was to have chosen Sālva. Knowing this, O knower of dharma, act according to the essence of dharma.

1.109.65

एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि ।
चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः ॥ १.१०९.६५ ॥

When the maiden had spoken thus in the assembly of brahmins, the hero Bhīṣma fell into thought fitting that very deed.

1.109.66

अन्यसक्ता त्वियं कन्या ज्येष्ठा त्वम्बा मया जिता ।
वाचा दत्ता मनोदत्ता कृतमङ्गलवाचना ॥ १.१०९.६६ ॥

This maiden is attached to another, but I have won the eldest, Ambā; she was given by word, given in mind, and given with auspicious blessings recited.

1.109.67

निर्दिष्टा तु परस्यैव सा त्याज्या परचिन्तिनी ।
इत्युक्त्वा चानुमान्यैव भ्रातरं स्ववशानुगम् ॥ १.१०९.६७ ॥

A maiden already designated for another, whose thoughts are on another, should be abandoned. Having said this and obtained the consent of his brother, who followed his will...

1.109.68

विनिश्चित्य स धर्मज्ञो ब्राह्मणैर्वेदपारगैः ।
अनुजज्ञे तदा ज्येष्ठामम्बां काशिपतेः सुताम् ॥ १.१०९.६८ ॥

Having deliberated with the brahmins who had mastered the Vedas, that knower of dharma then gave leave to Ambā, the eldest daughter of the king of Kāśi.

1.109.69

अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे ।
भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा ॥ १.१०९.६९ ॥

By the rite prescribed in accordance with law, Bhīṣma gave the two wives Ambikā and Ambālikā to his younger brother Vicitravīrya.

1.109.70

तयोः पाणी गृहीत्वा तु रूपयौवनदर्पितः ।
विचित्रवीर्यो धर्मात्मा नाम्बामैच्छत्कथंचन ॥ १.१०९.७० ॥

Having taken the hands of those two, Vicitravīrya, righteous of soul yet proud of beauty and youth, did not desire Ambā in any way at all.

1.109.71

अम्बामन्यस्य कीर्त्यन्तीमब्रवीच्चारुदर्शनाम् ।
पापस्य फलमेवैष कामोऽसाधुर्निरर्थकः।
परतन्त्रोपभोगो मामार्य नाऽऽयोक्तुमर्हसि ॥ १.१०९.७१ ॥

To Ambā, fair of form, who was being declared as another's, he said: "This is the fruit of sin; this desire is wicked and fruitless. Noble lady, you should not engage me in pleasure under another's control."

1.109.72

प्रातिष्ठच्छान्तनोर्वंशस्तात यस्य त्वमन्वयः ।
अकामवृत्तो धर्मात्मन्साधु मन्ये मतं तव ॥ १.१०९.७२ ॥

"Dear one, the lineage of Śāntanu has been established, and you are its descendant. Righteous one, your conduct is free of desire; I consider your opinion good."

1.109.73

इत्युक्त्वाम्बां समालोक्य विधिवद्वाक्यमब्रवीत् ।
विसृष्टा ह्यसि गच्छ त्वं यथाकाममनिन्दिते ॥ १.१०९.७३ ॥

Having spoken thus, and looking upon Ambā in the proper manner, he said these words: "You are released, blameless one; go now as you wish."

1.109.74

नानियोज्ये समर्थोऽहं नियोक्तुं भ्रातरं प्रियम् ।
अन्यबावगतां चापि को नारीं वासयेद्गृहे ॥ १.१०९.७४ ॥

I am not able to appoint my dear brother; and who would keep in the house a woman whose mind has gone to another?

1.109.75

अतस्त्वां न नियोक्ष्यामि अन्यकामासि गम्यताम् ।
अहमप्यूर्ध्वरेता वै निवृत्तो दारकर्मणि ॥ १.१०९.७५ ॥

Therefore I will not appoint you; you desire another, so go. I too am one whose seed rises upward, withdrawn from the business of marriage.

1.109.76

न संबन्धस्तदावाभ्यां भविता वै कथंचन ।
इत्युक्ता सा गता तत्र सखीभिः परिवारिता ॥ १.१०९.७६ ॥

"Then there shall in no way be any union between us two." Thus told, she went away from there, surrounded by her companions.

1.109.77

निर्दिष्टा हि शनै राजन्साल्वराजपुरं प्रति ।
अथाम्बा साल्वंमागम्य साऽब्रवीत्प्रतिपूज्य तं ॥ १.१०९.७७ ॥

O king, she was slowly directed toward the city of King Sālva. Then Ambā came to Sālva, honored him, and spoke.

1.109.78

पुरा निर्दिष्टभावा त्वामागतास्मि वरानन ।
देवव्रतं समुत्सृज्य सानुजं भरतर्षभम् ॥ १.१०९.७८ ॥

"O fair-faced one, my intention was declared before; therefore I have come to you, having abandoned Devavrata, bull of the Bharatas, together with his younger brother."

1.109.79

प्रतिगृह्णीष्व भद्रं ते विधिवन्मां समुद्यताम् ॥ १.१०९.७९ ॥

May good fortune be yours. Take me according to the rite; I am ready.

1.109.80

तयैवमुक्तः साल्वोपि प्रहसन्निदमब्रवीत् ।
निर्जिताऽसीह भीष्मेण मां विनिर्जित्य राजसु ॥ १.१०९.८० ॥

When she had spoken thus, Sālva also laughed and said: "Here you have been won by Bhīṣma, having defeated me among the kings."

1.109.81

अन्येन निर्जितां भद्रे विसृष्टां तेन चालयात् ।
न गृह्णामि वरारोहे तत्र चैव तु गम्यताम् ॥ १.१०९.८१ ॥

"O gracious one, one who has been won by another and cast out from home by him, I do not accept, O fair-hipped one. Go there."

1.109.82

इत्युक्ता सा समागम्य कुरुराज्यमनुत्तमम् ।
अम्बाब्रवीत्ततो भीष्मं त्वयाऽहं सहसा हृता ॥ १.१०९.८२ ॥

Thus addressed, she went to the supreme Kuru kingdom, and Ambā said to Bhīṣma: "You carried me off by force."

1.109.83

क्षत्रधर्ममवेक्षस्व त्वं भर्ता मम धर्मतः ।
यां यः स्वयंवरे कन्यां निर्जयेच्छौर्यसंपदा ॥ १.१०९.८३ ॥

"Consider the duty of the warrior: by dharma you are my husband, for whoever wins a maiden at her svayaṃvara through the wealth of his valour."

1.109.84

राज्ञः सर्वान्विनिर्जित्य स तामुद्वाहयेद्ध्रुवम् ।
अतस्त्वमेव भर्ता मे त्वयाऽहं निर्जिता यतः ॥ १.१०९.८४ ॥

"Having conquered all the kings, he must surely marry her. Therefore you alone are my husband, since it was you who won me."

1.109.85

तस्माद्वहस्व मां भीष्म निर्जितां संसदि त्वया ।
ऊर्ध्वरेता ह्यहमिति प्रत्युवाच पुनःपुनः ॥ १.१०९.८५ ॥

Therefore, Bhīṣma, take me, whom you have won in the assembly. I am one who has retained his seed, she replied again and again.

1.109.86

भीष्मं सा चाब्रवीदम्बा यथाजैषीस्तथा कुरु ।
एवमन्वगमद्भीष्मं षट्समाः पुष्करेक्षणा ॥ १.१०९.८६ ॥

Ambā said to Bhīṣma, "Do as you have won me." Thus the lotus-eyed one followed Bhīṣma for six years.

1.109.87

ऊर्ध्वरेतास्त्वहं भद्रे विवाहविमुखोऽभवम् ।
तमेव साल्वं गच्छ त्वं यः पुरा मनसा वृतः ॥ १.१०९.८७ ॥

I am one who has retained his seed, good lady, and I have turned away from marriage. Go to Sālva himself, whom you chose in your mind before.

1.109.88

अन्यसक्तं किमर्थं त्वमात्मानमवदः पुरा ।
अन्यसक्तां वधूं कन्यां वासयेत्स्वगृहे न हि ॥ १.१०९.८८ ॥

Why did you first declare yourself attached to another? No one keeps a maiden attached to another as a bride in his own house.

1.109.89

नाहमुद्वाहयिष्ये त्वां मम भ्रात्रे यवीयसे ।
विचित्रवीर्याय शुभे यथेष्टं गम्यतामिति ॥ १.१०९.८९ ॥

I will not marry you. For my younger brother Vicitravīrya, O auspicious one, go as you wish.

1.109.90

भूयः साल्वं समभ्येत्य राजन्गृह्णीष्व मामिति ।
नाहं गृह्णाम्यन्यजितामिति साल्वनिराकृता ॥ १.१०९.९० ॥

Going again to Sālva, she said, "O king, take me." Rejected by Sālva, who said, "I will not accept one won by another."

1.109.91

ऊर्ध्वरेतास्त्वहमिति भीष्मेण च निराकृता ।
अम्बा भीष्मं पुनः साल्वं भीष्मं साल्वं पुनः पुनः ॥ १.१०९.९१ ॥

'I am one who has raised his seed,' thus saying, she was rejected by Bhīṣma too. Ambā went again and again to Bhīṣma and to Sālva.

1.109.92

गमनागमनेनैवमनैषीत्षट् समा नृप ।
अश्रुभिर्भूमिमुक्षन्ती शोचन्ती सा मनस्विनी ॥ १.१०९.९२ ॥

O king, thus in going and coming she spent six years, wetting the ground with tears, grieving, that high-minded woman.

1.109.93

पीनोन्नतकुचद्वन्द्वा विशालजघनेक्षणा ।
श्रोणीभरालसगमा राकाचन्द्रनिभानना ॥ १.१०९.९३ ॥

Having a pair of full, raised breasts, broad hips and eyes, a gait languid from the weight of her hips, and a face like the full moon.

1.109.94

वर्षत्कादम्बिनीमूर्ध्नि स्फुरन्ती चञ्चलेव सा ।
सा ततो द्वादश समा बाहुदामभितो नदीम्।
पार्श्वे हिमवतो रम्ये तपो घोरं समाददे ॥ १.१०९.९४ ॥

Like lightning flashing on the crown of rain-bearing clouds, she shone. Then for twelve years, on the lovely flank of the Himālaya, on both banks of the river Bāhudā, she undertook fierce austerity.

1.109.95

संक्षिप्तकरणा तत्र तप आस्थाय सुव्रता ।
पादाङ्गुष्ठेन साऽतिष्ठदकम्पन्त ततः सुराः ॥ १.१०९.९५ ॥

There, with her senses restrained, established in austerity and steadfast in her vow, she stood on the big toe of one foot; then the gods trembled.

1.109.96

तस्यास्तत्तु तपो दृष्ट्वा सुराणां क्षोभकारकम् ।
विस्मितश्चैव हृष्टश्च तस्यानुग्रहबुद्धिमान् ॥ १.१०९.९६ ॥

Seeing her austerity, which caused agitation among the gods, the wise one, astonished and delighted, became disposed to grant her favour.

1.109.97

अनन्तसेनो भगवान्कुमारो वरदः प्रभुः ।
मानयन्राजपुत्रीं तां ददौ तस्यै शुभां स्रजम् ॥ १.१०९.९७ ॥

The blessed youth Anantasena, the lord who grants boons, honoring that king's daughter, gave her an auspicious garland.

1.109.98

एषा पुष्करिणी दिव्या यथावत्समुपस्थिता ।
अम्बे त्वच्छोकशमनी माला भुवि भविष्यति ॥ १.१०९.९८ ॥

This divine lotus pond has duly appeared. O Ambā, this garland, which allays your sorrow, will be upon the earth.

1.109.99

एतां चैव मया दत्तां मालां यो धारयिष्यति ।
सोऽस्य भीष्मस्य निधने कारणं वै भविष्यति ॥ १.१०९.९९ ॥

Whoever wears this garland given by me will indeed become the cause of Bhīṣma's death.