摩诃婆罗多 · 章 1.111
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.111.1
अम्बायां निर्गतायां तु भीष्मः शान्तनवस्तदा ।
न्यायेन कारयामास राज्ञो वैवाहिकीं क्रियाम् ॥ १.१११.१ ॥
安跋离去之后,山贪努之子毗湿摩便依礼为国王举行了婚礼仪式。
1.111.2
अम्बिकाम्बालिके चैव परिणीयाग्निसंनिधौ ।
तयोः पाणी गृहीत्वा तु कौरव्यो रूपदर्पितः।
विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत ॥ १.१११.२ ॥
在火神面前迎娶安毗迦与安跋利迦并执其手后,以美貌自负的俱卢子孙毗质多罗毗耶虽心存正法,却沉溺于欲望之中。
1.111.3
ते चापि बृहतीश्यामे नीलकुञ्चितमूर्धजे ।
रक्ततुङ्गनखोपेते पीनश्रोणिपयोधऱे ॥ १.१११.३ ॥
二人皆体态宽厚,肤色深黑,发如青色卷曲,指甲红而高耸,腰臀与双乳丰满。
1.111.4
आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते ।
विचित्रवीर्यं कल्याण्यौ पूजयामासतुः शुभे ॥ १.१११.४ ॥
二位吉祥美好的女子心想:'我得到了与我相配的夫君',于是恭敬地侍奉了毗质多罗毗耶。
1.111.5
अन्योन्यं प्रति सक्ते च एकभावे इव स्थिते ।
स चाश्विरूपसदृशो देवतुल्यपराक्रमः।
सर्वासामेव नारीणां चित्तप्रमथनो रहः ॥ १.१११.५ ॥
二女彼此眷恋,仿佛同一心志;而他容貌如双马童,勇武如诸天,独处之时能扰动所有女子的心。
1.111.6
ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः ।
विचित्रवीर्यस्तरुणो यक्ष्मणा समगृह्यत ॥ १.१११.६ ॥
毗质多罗毗耶年少为王,与二女同乐七年,之后身染肺痨。
1.111.7
सुहृदां यतमानानामाप्तैः सह चिकित्सकैः ।
जगामास्तमिवादित्यः कौरव्यो यमसादनम् ॥ १.१११.७ ॥
尽管朋友们竭力救治,可靠的医师也在身旁,这位俱卢王仍如落日般前往阎摩之居。
1.111.8
धर्मात्मा स तु गाङ्गेयः चिन्ताशोकपरायणः ।
प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत् ॥ १.१११.८ ॥
然而,正直的恒河之子毗湿摩虽陷于忧虑与悲伤,仍使为他举行的一切葬礼仪式都如法完成。
1.111.9
राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः ।
ऋत्विग्बिः सहितो भीष्मः सर्वैश्च कुरुपुङ्गवैः ॥ १.१११.९ ॥
毗湿摩遵从萨蒂耶跋蒂关于国王毗质特罗毗利耶的意见,与祭司及所有俱卢族的英雄一同在场。
1.111.11
प्रसीद यज्ञसेनेह गतिर्मे भव सोमक ॥ १.१११.११ ॥
请在此垂怜,祭祀之生者啊;苏摩迦啊,请做我的依靠。