Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.116

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.116.1

किं कृतं कर्म धर्मेण येन शापमुपेयिवान् ।
कस्य शापाच्च ब्रह्मर्षेः शूद्रयोनावजायत ॥ १.११६.१ ॥

他做了什么合乎法的事,以致遭受诅咒?因哪位梵仙的诅咒,他投生于首陀罗之胎?

1.116.2

बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः ।
धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः ॥ १.११६.२ ॥

有一位名叫曼陀缚的婆罗门,名声远扬,坚韧不拔,通晓一切法,安住于真实与苦行之中。

1.116.3

स तीर्थयात्रां विचरन्नाजगाम यदृच्छया ।
संनिकृष्टानि तीर्थानि ग्रामाणां यानि कानि च।
तत्राश्रमपदं कृत्वा वसति स्म महामुनिः ॥ १.११६.३ ॥

他云游朝圣,偶然来到村落附近的各处圣地;在那里他建立了修行处并居住下来,这位大仙。

1.116.4

स आश्रमपदद्वारि वृक्षमूले महातपाः ।
ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः ॥ १.११६.४ ॥

他在修行处的门口,树根之下,这位大苦行者,双臂高举,这位大瑜伽士,持守缄默之誓,站立不动。

1.116.5

तस्य कालेन महता तस्मिंस्तपसि वर्ततः ।
तमाश्रममनुप्राप्ता दस्यवो लोप्त्रहारिणः ॥ १.११६.५ ॥

当他长久沉浸于那苦行之中时,劫掠成性的盗贼来到了那座修行处。

1.116.6

अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ ।
तामेव वसतिं जग्मुस्ते ग्रामाल्लोप्त्रहारिणः ॥ १.११६.६ ॥

婆罗多之雄啊!那些盗贼被众多守卫追赶,从村里直奔那个住处而去。

1.116.7

यस्मिन्नावसथे शेते स मुनिः संशितव्रतः ।
ते तस्यावसथे लोप्त्रं दस्यवः कुरुसत्तम ॥ १.११६.७ ॥

在那位持守严格誓愿的仙人所居的修行处,盗贼们藏匿了赃物,库鲁之最。

1.116.8

निधाय च भयाल्लीनास्तत्रैवानागते बले ।
तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् ॥ १.११६.८ ॥

他们放下赃物,因恐惧而躲藏在那里,此时军队尚未到达;他们藏好之后,守卫的那支军队很快便赶到了。

1.116.9

आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः ।
तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम् ॥ १.११६.९ ॥

随后,追赶盗贼的人来到这里,看到了那位仙人。大王,他们于是向这位苦行丰盈的仙人询问了发生的事情。

1.116.10

कतरेण पथा याता दस्यवो द्विजसत्तम ।
तेन गच्छामहे ब्रह्मन्यथा शीघ्रतरं वयम् ॥ १.११६.१० ॥

盗贼是走哪条路离开的,婆罗门中最优秀者?婆罗门啊,我们就走那条路,以便更快地前进。

1.116.11

तथा तु रक्षिमां तेषां ब्रुवतां स तपोधनः ।
न किंचिद्वचनं राजन्नब्रवीत्साध्वसाधु वा ॥ १.११६.११ ॥

守卫们这样说的时候,那位苦行丰盈的仙人,大王,什么也没说,既没有说好,也没有说坏。

1.116.12

ततस्ते राजपुरुषा विचिन्वानास्तमाश्रमम् ।
ददृशुस्तत्र लीनांस्तांश्चोरांस्तद्द्रव्यमेव च ॥ १.११६.१२ ॥

随后,王家的人搜寻那处修行处,看到了藏在那里的盗贼,还有那些赃物。

1.116.13

ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति ।
संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन् ॥ १.११६.१३ ॥

于是守卫们对那位仙人生起了怀疑。他们把他捆绑起来,连同盗贼一起禀报了国王。

1.116.14

तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति ।
स रक्षिभिस्तैरज्ञातः शूले प्रोतो महातपाः ॥ १.११६.१४ ॥

国王下令将他与那些盗贼一同处死。那位大苦行者未被守卫认出,便被钉在了尖桩上。

1.116.15

ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा ।
प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ ॥ १.११६.१५ ॥

随后,守卫们把那位仙人举到尖桩上,取走财物,回到国王身边。

1.116.16

शूलस्थः स तु धर्मात्मा कालेन महता ततः ।
निराहारोऽपि विप्रर्षिर्मरणं नाभ्यपद्यत ॥ १.११६.१६ ॥

那位心地正直的婆罗门仙人被钉在尖桩上,虽长时间不食,却未曾死去。

1.116.17

धारयामास च प्राणानृषींश्च समुपानयत् ।
शूलाग्रे तप्यमानेन तपस्तेन महात्मना ॥ १.११६.१७ ॥

这位大德在尖桩顶端灼烧之际仍维持生命,并且还召来了诸位仙人。

1.116.18

सन्तापं परमं जग्मुर्मुनयस्तपसाऽन्विताः ।
ते रात्रौ शकुना भूत्वा सन्निपत्त्य तु भारत।
दर्शन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम् ॥ १.११६.१८ ॥

具足苦行的诸仙人极为忧伤。婆罗多啊,他们夜间化作飞鸟聚集,依自身能力显现,向那位最优秀的再生者发问。

1.116.19

श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि ।
येनेह समनुप्राप्तं शूले दुःखभयं महत् ॥ १.११६.१९ ॥

婆罗门啊,我们想听听你犯了什么罪,以致你在此被钉在木桩上,遭受极大的苦难与恐惧。