Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.125

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.125.1

तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् ।
सिद्धचारणसङ्घानां बभूव प्रियदर्शनः ॥ १.१२५.१ ॥

在那里,他also专注于至高的苦行,这位有力者在悉陀与遮罗那的众会中成为令人喜悦的容颜。

1.125.2

सुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः ।
स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत ॥ १.१२५.२ ॥

他恭顺服侍,不自夸,自制其心,克制诸根,婆罗多之子啊,他以自身的勇力努力前往天界。

1.125.3

केषांचिदभवद्भ्राता केषांचिदभवत्सखा ।
ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन् ॥ १.१२५.३ ॥

对一些人他是兄弟,对另一些人他是朋友;其他仙人则如待儿子一般守护着他。

1.125.4

स तु कालेन महता प्राप्य निष्कल्मषं तपः ।
ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ ॥ १.१२५.४ ॥

般度经过漫长的岁月,获得了无垢的苦行,婆罗多之雄啊,他变得如同梵仙一般。

1.125.5

अमावास्यां तु सहिता ऋषयः संशितव्रताः ।
ब्रह्माणं द्रष्टुकामास्ते संप्रतस्थुर्महर्षयः ॥ १.१२५.५ ॥

月末之日,持坚定誓愿的诸仙聚集在一起,想要拜见梵天,那些大仙便出发了。

1.125.6

संप्रयातानृषीन्दृष्ट्वा पाण्डुर्वचनमब्रवीत् ।
भवन्तः क्व गमिष्यन्ति ब्रूत मे वदतां वराः ॥ १.१२५.६ ॥

般度看到出发的诸仙,便说道:“诸位尊者将去往何处?请告诉我,你们是言说者中最殊胜的。”

1.125.7

समावायो महानद्य ब्रह्मलोके महात्मनाम् ।
देवानां च ऋषीणां च पितॄणां च महात्मनाम्।
वयं तत्र गमिष्यामो द्रष्टुकामाः स्वयंभुवम् ॥ १.१२५.७ ॥

梵天世界正在举行一场盛大的集会,诸位大德、天神、仙人与祖先都将参加。我们想拜见自生者(梵天),将前往那里。

1.125.8

पाण्डुरुत्थाय सहसा गन्तुकामो महर्षिभिः ।
स्वर्गपारं तितीर्षुः स शतशृङ्गादुदङ्मुखः ॥ १.१२५.८ ॥

般度突然起身,想与大仙人同行,想渡过天界的彼岸,从百峰山面向北方。

1.125.9

प्रतस्थे सह पत्नीभ्यामब्रुवंस्तं च तापसाः ।
उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः ॥ १.१२५.९ ॥

他与两位妃子一同出发,苦行者们对他说:“面向北方,朝着山王,一步步向上行进。”

1.125.10

दृष्टवन्तो गिरौ रम्ये दुर्गान्देशान्बहून्वयम् ।
विमानशतसंबाधां गीतस्वरनिनादिताम् ॥ १.१२५.१० ॥

在那座可爱的山上,我们看到许多险峻的地方,布满上百辆天车,回荡着歌声。

1.125.11

आक्रीडभूमिं देवानां गन्धर्वाप्सरसां तथा ।
उद्यानानि कुबेरस्य समानि विषमाणि च ॥ १.१२५.११ ॥

我们看到了诸天神、乾闼婆与阿普萨拉的游乐之地,以及俱毗罗的园林,有的平坦,有的崎岖。

1.125.12

महानदीनितम्बांश्च गहनान्गिरिगह्वरान् ।
सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः ॥ १.१२५.१२ ॥

有大河的山坡、幽深的山洞,还有终年积雪的地区,那里没有树木、鹿,也没有飞禽。

1.125.13

सन्ति क्वचिन्महादर्यो दुर्गाः काश्चिद्दुरासदाः ।
नातिक्रामेत पक्षी यान्कुत एवेतरे मृगाः ॥ १.१२५.१३ ॥

某些地方有巨大的洞穴,有些险要难以抵达,连飞鸟也无法越过,其他鹿又怎能通过呢?

1.125.14

वायुरेको हि यात्यत्र सिद्धाश्च परमर्षयः ।
गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं न्विमे ॥ १.१२५.१४ ॥

这里只有风能经过,还有成就者和最高的仙人;这两位王女行走在这座山王之上,怎么能够做到呢?

1.125.15

न सीदेतामदुःखार्हे मा गमो भरतर्षभ ।
अप्रजस्य महाभागा न द्वारं परिचक्षते ॥ १.१२५.१५ ॥

那些不应承受悲伤的人不要悲痛;婆罗多族的雄牛啊,不要去。有大福之人说:无子嗣者没有门户。

1.125.16

स्वर्गे तेनाभितप्तोऽहमप्रजस्तु ब्रवीमि वः ।
सोऽहमुग्रेण तपसा सभार्यस्त्यक्तजीवितः ॥ १.१२५.१६ ॥

我因此在天上受苦,无子嗣的我告诉你们:我与妻子们以严酷的苦行舍弃了生命。

1.125.17

अनपत्योऽपि विन्देयं स्वर्गमुग्रेण कर्मणा ।
अस्ति वै तव धर्मात्मन्विद्म देवोपम शुभम् ॥ १.१२५.१७ ॥

虽无子嗣,我仍可凭严酷之行获得天界。正直者、如神者,我们知道你有一个吉祥的孩子。

1.125.18

अपत्यमनघं राजन्वयं दिव्येन चक्षुषा ।
दैवोद्दिष्टं नरव्याघ्र कर्मणेहोपपादय ॥ १.१२५.१८ ॥

大王,我们以神眼看见无瑕的子嗣。人中之虎,请以行为在此促成天命所定的孩子。

1.125.19

अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः ।
तस्मिन्दृष्टे फले राजन्प्रयत्नं कर्तुमर्हसि ॥ १.१२५.१९ ॥

智者不费力、不慌乱地获得果实。哦,国王,既然看见了这果实,你就应当努力去做。

1.125.20

अपत्यं गुणसंपन्नं लब्धा प्रीतिकरं ह्यसि ।
तच्छ्रुत्वा तापसवचः पाण्डुस्चिन्तापरोऽभवत् ॥ १.१२५.२० ॥

得到一个具备美德的儿子,你必定会欢喜。听了那位苦行者的话,般度陷入了沉思。

1.125.21

आत्मनो मृगशापेन जानन्नुपहतां क्रियाम् ॥ १.१२५.२१ ॥

他知道自己的行为已因鹿的诅咒而被毁坏。