摩诃婆罗多 · 章 1.127
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.127.1
एवमुक्ता महाराज कुन्ती पाण्डुमभाषत ।
कुरूणामृषभं वीरं तदा भूमिपतिं पतिम् ॥ १.१२७.१ ॥
大王啊,被如此言说之后,贡蒂对般度说话——他是库鲁族中的雄牛,英雄,当时的大地之主,她的丈夫。
1.127.2
न मामर्हसि धर्मज्ञ वक्तुमेवं कथंचन ।
धर्मपत्नीमभिरतां त्वयि राजीवलोचने ॥ १.१२७.२ ॥
精通法义的人啊,你绝不应当这样对我说——我是你的法定妻子,专心于你,有着莲花般的眼睛。
1.127.3
त्वमेव तु महाबाहो मय्यपत्यानि भारत ।
वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि ॥ १.१२७.३ ॥
大力臂的婆罗多后裔、英雄啊,唯有你会依法在我身上生下具有勇力的子嗣。
1.127.4
स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया ।
अपत्याय च मां गच्छ त्वमेव कुरुनन्दन ॥ १.१२७.४ ॥
人中之虎啊,我愿与你一同升往天界;为了子嗣,请你亲自到我这里来吧,库鲁族的欢喜者。
1.127.5
न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम् ।
त्वत्तः प्रति विशिष्टश्च कोऽन्योऽस्ति भुवि मानवः ॥ १.१२७.५ ॥
除你之外,即使在心中我也不会去找别的男人;大地上还有谁是比你更优越的人呢?
1.127.6
इमां च तावद्धर्मात्मन्पौराणीं शृणु मे कथाम् ।
परिश्रुतां विशालाक्ष कीर्तयिष्यामि यामहम् ॥ १.१२७.६ ॥
德行高尚、眼睛宽大的人啊,现在请听我这古老的故事,人所共知,我即将叙述。
1.127.7
व्युषइताश्व इति ख्यातो बभूव किल पार्थिवः ।
पुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः ॥ १.१२७.७ ॥
曾有一位名叫毗由希多什婆的国王,名声远扬;往昔他最奉行法,是普卢族系的增益者。
1.127.8
तस्मिंश्च यजमाने वै धर्मात्मनि महाभुजे ।
उपागमंस्ततो देवाः सेन्द्रा देवर्षिभिः सह ॥ १.१२७.८ ॥
当那位心地正直、臂膀有力的国王举行祭祀时,因陀罗率众天神与天仙一同来到那里。
1.127.9
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ।
व्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः ॥ १.१२७.९ ॥
那时,在大德王仙毗由希多什婆的祭祀中,因陀罗因苏摩而欢喜,再生族因布施而满足。
1.127.10
देवा ब्रह्मर्षयश्चैव चक्रुः कर्म स्वयं तदा ।
व्युषिताश्वस्ततो राजन्नति मर्त्यान्व्यरोचत ॥ १.१२७.१० ॥
那时,诸天与梵仙亲自执行祭祀之事;大王啊,此后毗由希多什婆超越众人而光耀。
1.127.11
सर्वभूतान्प्रति यथा तपनः शिशिरात्यये ।
स विजित्य गृहीत्वा च नृपतीन्राजसत्तमः ॥ १.१२७.११ ॥
如同冬末之时太阳照耀众生,那位最优秀的国王征服并擒获诸王,
1.127.12
प्राच्यानुदिच्यान्पाश्चात्यान्दाक्षिणात्यानकालयत् ।
अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान् ॥ १.१२७.१२ ॥
在大马祠祭中,威武的毗由希多什婆降伏了东、北、西、南各方的诸王。
1.127.13
बभूव स हि राजेन्द्रो दशनागबलान्वितः ।
अप्यत्र गाथां गायन्ति ये पुराणविदो जनाः ॥ १.१२७.१३ ॥
他是诸王之主,具有十头象的力量。这里懂得古代传说的人还唱着一首偈颂。
1.127.14
व्युषिताश्वे यशोवृद्धे मनुष्येन्द्रे कुरूत्तम ।
व्युषिताश्वः समुद्रान्तां विजित्येमां वसुन्धराम् ॥ १.१२७.१४ ॥
库鲁之最啊,人主毗优希塔什婆的名声增长。毗优希塔什婆征服了这被大海环绕的大地。
1.127.15
अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान् ।
यजमानो महायज्ञैर्ब्राह्मणेभ्यो धनं ददौ ॥ १.१२७.१५ ॥
如同父亲庇护自己亲生的儿子,他庇护所有种姓。他举行大祭,把财富布施给婆罗门。
1.127.16
अनन्तरत्नान्यादाय स जहार महाक्रतून् ।
सुषाव च बहून्सोमान्सोमसंस्थास्ततान च ॥ १.१२७.१६ ॥
他取用无数珍宝,举行了大祭。他压榨了许多苏摩,并扩展了苏摩祭仪。
1.127.17
आसीत्काक्षीवती चास्य भार्या परमसंमता ।
भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि ॥ १.१२७.१७ ॥
他有一位妻子名叫迦叉婆提,非常受尊重。人主啊,她名叫跋陀罗,在大地上容貌无人可比。
1.127.18
कामयामासतुस्तौ च परस्परमिति श्रुतम् ।
स तस्यां कामसंपन्नो यक्ष्मणा समपद्यत ॥ १.१२७.१८ ॥
据传他们二人彼此相爱。他对她充满欲望,于是染上了痨病。
1.127.19
तेनाचिरेण कालेन जगामास्तमिवांशुमान् ।
तस्मिन्प्रेते मनुष्येन्द्रे भार्याऽस्य भृशदुःखिता ॥ १.१२७.१९ ॥
不久之后,他如太阳落山般离去。人主逝世后,他的妻子极为悲痛。
1.127.20
अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम् ।
भद्रा परमदुःखार्ता तन्निबोध जनाधिप ॥ १.१२७.२० ॥
人中猛虎啊,我们听说无子的跋陀罗极度悲痛而哀号。人主啊,请听此事。
1.127.21
नारी परमधर्मज्ञ सर्वा भर्तृविनाकृता ।
पतिं विना जीवति या न सा जीवति दुःखिता ॥ १.१२७.२१ ॥
精通至上法者啊,失去丈夫的女子都痛苦。没有丈夫而活着的女子,是在痛苦中活着,实际上并不算真正活着。
1.127.22
पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुंगव ।
त्वद्गतिं गन्तुमिच्छामि प्रसीदस्वनयस्वमाम् ॥ १.१२७.२२ ॥
武士中的雄牛啊,对女子而言,失去丈夫而活着不如死去。我想追随你的去向;请垂怜,带我同去。
1.127.23
त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे ।
प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम् ॥ १.१२७.२३ ॥
没有你,我连一刻也不敢活下去。国王啊,请施恩于我,快快带我离开这里。
1.127.24
पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च ।
त्वामहं नरशार्दूल गच्छन्तमनिवर्तितुम् ॥ १.१२७.२४ ॥
人中猛虎啊,无论平坦还是崎岖,你前行时我都将在你身后跟随,不是要你回头。
1.127.25
छायेवानुगता राजन्सततं वशवर्तिनी ।
भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता ॥ १.१२७.२५ ॥
君王啊,我将如影随形,永远追随您,顺从您的意志。人中之虎啊,我将始终致力于您所喜爱和有益的事。
1.127.26
अद्यप्रभृति मां राजन्कष्टा हृदयशोषणाः ।
आधयोऽभिभविष्यन्ति त्वामृते पुष्करेक्षण ॥ १.१२७.२६ ॥
从今日起,君王啊,没有您,令人心碎枯竭的痛苦心魔将压倒我,莲花眼的人啊。
1.127.27
अभाग्यया मया नूनं वियुक्ताः सहचारिणः ।
तेन मे विप्रयोगोऽयमुपपन्नस्त्वया सह ॥ १.१२७.२७ ॥
必定是因为我的不幸,我的伴侣们都与我分离了;因此我才遭遇了与您的这种离别。
1.127.28
विप्रयुक्ता तु या पत्या मुहूर्तमपि जीवति ।
दुःखं जीवति सा पापा नरकस्थेव पार्थिव ॥ १.१२७.२८ ॥
与丈夫分离的女子,即使活一刻,也只是在痛苦中活着,这罪人如同身处地狱,君王啊。
1.127.29
संयुक्ता विप्रयुक्ताश्च पूर्वदेहे कृता मया ।
तदिदं कर्मभिः पापैः पूर्वदेहेषु संचितम् ॥ १.१२७.२९ ॥
前世的身体中,我使一些人结合,又使另一些人分离;由于那些罪恶的行为,这些在我前世的身体中积累起来了。
1.127.30
दुःखं मामनुसंप्राप्तं राजंस्त्वद्विप्रयोगजम् ।
अद्यप्रभृत्यहं राजन्कुशसंस्तरशायिनी।
भविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा ॥ १.१२७.३० ॥
因与您分离而生的痛苦降临到我身上。君王啊,从今日起,我将躺在吉祥草的床上,被不幸所笼罩,一心只愿见到您。
1.127.31
दर्शयस्व नरव्याघ्र शाधि मामसुखान्विताम् ।
कृपणां चाथ करुणं विलपत्नीं नरेश्वर ॥ १.१२७.३१ ॥
人中之虎啊,请现身吧;指示我这痛苦之人。人主啊,我悲惨地、哀切地哭泣。
1.127.32
एवं बहुविधं तस्यां विलपन्त्यां पुनःपुनः ।
तं शवं संपरिष्वज्य वाक्किलाऽन्तर्हिताऽब्रवीत् ॥ १.१२७.३२ ॥
她如此百般地反复哀哭,紧紧拥抱着那具尸体,此时一个隐藏的声音说道。
1.127.33
उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव ।
जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि ॥ १.१२७.३३ ॥
起来吧,善良的女子,你去吧。我在此赐你一个恩惠。笑容美丽的人啊,我将在你身上生育子嗣。
1.127.34
आत्मकीये वरारोहे शयनीये चतुर्दशीम् ।
अष्टमीं वा ऋतुस्नाता संविशेथा मया सह ॥ १.१२७.३४ ॥
纤腰美人啊,在你自己的床榻上,于十四日或八日,经期之后沐浴,便与我同寝。
1.127.35
एवमुक्ता तु सा देवी तथा चक्रे पतिव्रता ।
यथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा ॥ १.१२७.३५ ॥
如此被告知之后,那位忠于丈夫的女神,渴望儿子的善良女子,便照着那话语所说的去做了。
1.127.36
सा तेन सुषुवे देवी शवेन भरतर्षभ ।
त्रीञ्शाल्वांश्चतुरो मद्रान्सुतान्भरतसत्तम ॥ १.१२७.३६ ॥
婆罗多族的雄牛啊,那女神借那具尸体生下了诸子:三位沙尔婆和四位摩德罗,婆罗多族中最优秀的人啊。
1.127.37
तथा त्वमपि मय्येवं मनसा भरतर्षभ ।
शक्तो जनयितुं पुत्रांस्तपोयोगबलान्वितः ॥ १.१२७.३७ ॥
婆罗多族的雄牛啊,你也同样能以心意在我之中生育诸子,因为你具备苦行与瑜伽的力量。