摩诃婆罗多 · 章 1.133
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.133.1
कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च ।
मद्रराजसुता पाण्डुं रहो वचनमब्रवीत् ॥ १.१३३.१ ॥
在昆蒂之子和持国之子相继出生之后,摩德罗王之女私下对般度说了这番话。
1.133.2
न मेऽस्ति त्वयि सन्तापो विगुणेऽपि परन्तप ।
नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा ॥ १.१३३.२ ॥
啊,征服敌人的人,尽管你缺乏美德,我对你也没有任何忧虑;啊,无罪的人,我一直作为配得上最好之人的妻子而存在,即使地位低下,我也不感到悲伤。
1.133.3
गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा ।
श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन ॥ १.१३३.३ ॥
啊,国王,即使听说甘陀利生下了一百个儿子,我也没有感到那样的悲伤,啊,库鲁的喜悦。
1.133.4
इदं तु मे महद्दुःखं तुल्यतायामपुत्रता ।
दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति सन्ततिः ॥ १.१३३.४ ॥
但我最大的悲伤在于:虽然地位相同,我却没有儿子;幸运的是,如今丈夫的后嗣也存在于昆蒂之中。
1.133.5
यदि त्वपत्यसन्तानं कुन्तिराजसुता मयि ।
कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् ॥ १.१३३.५ ॥
如果昆蒂王之女昆蒂能施恩为我诞育后嗣,那便是对我的恩惠,也会对你有益。
1.133.6
संरम्भो हि सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति ।
यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय ॥ १.१३३.६ ॥
因为我们是同夫的妻子,我难以向昆蒂之女开口;如果你对我满意,那就请你亲自去劝促她。
1.133.7
ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते ।
न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया ॥ १.१३३.७ ॥
摩德利啊,这一心愿始终在我心中萦绕。但我不敢对你说出,因为我想说的既有令人欢喜的,也有令人不快的。
1.133.8
तव त्विदं मतं मत्वा प्रयतिष्याम्यतः परम् ।
मन्ये ध्रुवं मयोक्ता सा वचनं प्रतिपत्स्यते ॥ १.१३३.८ ॥
我已思量你的这个意愿,此后便会努力去做。我想,她听了我的话,一定会答应的。
1.133.9
ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् ।
अनुगृह्णीष्व कल्याणि मद्रराजसुतामपि।
कुलस्य मम सन्तानं लोकस्य च कुरु प्रियम् ॥ १.१३३.९ ॥
于是般度在僻静处又对贡蒂说道:“吉祥的人啊,也请善待摩德罗王的女儿吧。为我家族的后嗣与世间做那令人欢喜的事。”
1.133.10
मम चापिण्डनाशाय पूर्वेषां च महात्मनाम् ।
मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम् ॥ १.१३३.१० ॥
吉祥的人啊,为使我与先祖诸位大德的祭品不致断绝,也为我所珍视的缘故,请行这至上的善行吧。
1.133.11
यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् ।
प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोऽर्थिना ॥ १.१३३.११ ॥
为了荣誉,你也去做这极其艰难的事,如同渴求荣名的因陀罗,得到统治权并以祭祀供奉自己。
1.133.12
तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम् ।
गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि ॥ १.१३३.१२ ॥
同样,通晓咒语的婆罗门为了荣名,行极艰难的苦行之后,仍去拜见自己的师长,贤淑的女子啊。
1.133.13
तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः ।
चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम् ॥ १.१३३.१३ ॥
同样,所有王仙和以苦行为财富的婆罗门,为了名声而行了种种艰难之事。
1.133.14
सा त्वं माद्रीं प्लवेनैव तारयैनामनिन्दिते ।
अपत्यसंविधानेन परां कीर्तिमवाप्नुहि ॥ १.१३३.१४ ॥
无可指责的女子啊,你就像用筏子一样救度摩德里;通过安排子嗣,获得至高的名声。
1.133.15
धर्मं वै धर्मशास्त्रोक्तं यथा वदसि तत्तथा ।
तस्मादनुग्रहं तस्याः करोमि कुरुनन्दन ॥ १.१३३.१५ ॥
你所说的依法论所载之法,正是如此;因此,库卢之喜啊,我对她施以恩惠。
1.133.16
एवमुक्ताऽब्रवीन्मार्द्रीं सकृच्चिन्तय दैवतम् ।
तस्मात्ते भविताऽपत्यमनुरूपमसंशयम् ॥ १.१३३.१६ ॥
如此被告知后,她对摩德里说:“你只须一次专心想念一位神,那么你必定会得到相称的子嗣。”
1.133.17
ततो मन्त्रे कृते तस्मिन्विधिदृष्टेन कर्मणा ।
ततो राजसुता स्नाता शयने संविवेश ह ॥ १.१३३.१७ ॥
随后,咒语已念诵,仪式依规定完成,王女沐浴后躺在床上。
1.133.18
ततो माद्री विचार्यैका जगाम मनसाऽश्विनौ ।
तावागम्य सुतौ तस्यां जनयामासतुर्यमौ।
नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि ॥ १.१३३.१८ ॥
于是摩德里思量后独自在心中前往阿湿毗诺;他们来到并使她生下两个儿子——孪生的那古罗和萨诃提婆,在世上容貌无双。
1.133.19
तथैव तावपि यमौ वागुवाचाशरीरिणी ।
धर्मतो भक्तितश्चैव शीलतो विनयैस्तथा ॥ १.१३३.१९ ॥
同样,一个无形之声也谈到那对孪生子,说这是因为法、虔敬、德行与谦逊。
1.133.20
सत्वरूपगुणोपेतौ भवतोऽत्यश्विनाविति ।
मासते तेजसाऽत्यर्थं रूपद्रविणसंपदा ॥ १.१३३.२० ॥
“你们二人是具备善性、美貌与德行的双马神。”他们由此生活,光辉极盛,兼具容貌与财富。
1.133.21
नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः ।
भक्त्या च कर्मणा चैव तथाऽऽशीर्भिर्विशांपते ॥ १.१३३.२१ ॥
人主啊!住在百峰山的仙人们依据虔敬、行为与祝福为他们取了名字。
1.133.22
ज्येष्ठं युधिष्ठिरेत्येवं भीमसेनेति मध्यमम् ।
अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन् ॥ १.१३३.२२ ॥
长子名为坚战,中子名为怖军,第三子名为阿周那——他们如此为俱卢族之母(贡蒂)的儿子命名。
1.133.23
पूर्वजं नकुलेत्येवं सहदेवेति चापरम् ।
माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः ॥ १.१३३.२३ ॥
先出生者名为无种,另一位名为偕天——那些心怀喜悦的婆罗门如此宣告了摩陀利之子的名字。
1.133.24
अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः ।
पाण्डुपुत्रा व्यराजन्त पञ्चसंवत्सरा इव ॥ १.१३३.२४ ॥
虽然他们一年一年地相继出生,但这些俱卢族中的俊杰、般度之子,却光彩照人,如同五岁的孩童。
1.133.25
महासत्त्वा महावीर्या महाबलपराक्रमाः ।
पाण्डुर्दृष्ट्वा सुतांस्तांस्तु देवरूपान्महौजसः ॥ १.१३३.२५ ॥
潘度见到那些儿子——心志宏大、勇力非凡、力量与威武兼备、形貌如神、光辉盛大——便(欢喜)。
1.133.26
मुदं परमिकां लेभे ननन्द च नराधिपः ।
ऋषीणामपि सर्वेषां शतशृङ्गनिवासिनाम् ॥ १.१३३.२६ ॥
人主获得了至上的喜悦而欢喜;居于百峰山的所有仙人也同样欢喜。
1.133.27
प्रिया बभूवुस्तासां च तथैव मुनियोषिताम् ।
कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत् ॥ १.१३३.२७ ॥
他们与仙人之妻同样受到喜爱。之后,潘度为了摩德丽再次催促贡蒂。
1.133.28
तमुवाच पृथा राजन् रहस्युक्ता तदा सती ।
उक्ता सक्वद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता ॥ १.१३३.२८ ॥
大王!那时在私下被请求后,贞洁的普利塔(贡蒂)对他说:“我曾经以一次召唤得到了这一对,因此我被欺骗了。”
1.133.29
बिभेम्यस्याः परिभवात्कुस्त्रीणां गतिरिदृशी ।
नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम् ॥ १.१३३.२९ ॥
“我害怕她的羞辱;恶劣女子的命运正是如此。我愚昧无知,在召唤那一对时不知有两种后果。”
1.133.30
तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम ।
एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः ॥ १.१३३.३० ॥
“因此不要再派我去;愿这便是我的恩赐。”如此,潘度的五个儿子,由诸神所赐,皆具大力。
1.133.31
संभूताः कीर्तिमन्तश्च कुरुवंशविवर्धनाः ।
शुभलक्षणसंपन्नाः सोमवत्प्रियदर्शनाः ॥ १.१३३.३१ ॥
他们生而享有盛名,增益俱卢家族,具足吉祥之相,容貌如月般令人喜悦。
1.133.32
सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः ।
सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः ॥ १.१३३.३२ ॥
他们骄傲如狮,是伟大的弓箭手,行走如狮子之步,颈如狮子,为人中之王,具有神一般的威勇,逐渐长大。
1.133.33
विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ ।
विस्मयं जनयामासुर्महर्षीणां समेयुषाम् ॥ १.१३३.३३ ॥
他们在那神圣的喜马拉雅山上成长,使聚集的大仙人们为之惊叹。
1.133.34
जातमात्रानुपादाय शतशृङ्गनिवासिनः ।
पाण्डोः पुत्रानमन्यन्त तापसाः स्वानिवात्मजान् ॥ १.१३३.३४ ॥
居住在百峰山的苦行者们抱起刚出生的孩子,将般度的诸子视为自己的儿子。
1.133.35
ततस्तु वृष्णयः सर्वे वसुदेवपुरोगमाः ॥ १.१३३.३५ ॥
于是,以婆苏提婆为首的所有毗湿尼族人(前来)。
1.133.36
पाण्डुः शापभयाद्भीतः शतशृङ्गमुपेयिवान् ।
तत्रैव मुनिभिः सार्धं तापसोऽभूत्तपस्विभिः ॥ १.१३३.३६ ॥
般度因害怕诅咒而恐惧,前往百峰山,并在那里与诸位仙人一同成为苦行者中的苦行者。
1.133.37
शाकमूलफलाहारस्तपस्वी नियतेन्द्रियः ।
योगध्यानपरो राजा बभूवेति च वादकाः ॥ १.१३३.३७ ॥
以蔬菜、根茎和果实为食,成为克制诸根的苦行者,专注于瑜伽与禅定,有人这样说。
1.133.38
प्रबुवन्ति स्म बहवस्तच्छ्रुत्वा शोककर्शिताः ।
पाण्डोः प्रीतिसमायुक्ताः कदा श्रोष्याम संकथाः ॥ १.१३३.३८ ॥
众人听闻此事,因悲伤而憔悴,怀着对般度的深情,说:“我们何时才能再听他的故事?”
1.133.39
इत्येवं कथयन्तस्ते वृष्णयः सह बान्धवैः ।
पाण्डोः पुत्रागमं श्रुत्वा सर्वे हर्षसमन्विताः ॥ १.१३३.३९ ॥
如此议论之际,毗湿尼族与亲族一同听闻般度诸子将至,人人皆充满喜悦。
1.133.40
सभाजयन्तस्तेऽन्योन्यं वसुदेवं वचोऽब्रुवन् ।
न भवेरन्क्रियाहीनाः पाण्डुपुत्रा महाबलाः ॥ १.१३३.४० ॥
彼此致敬之后,他们对婆苏提婆说:“大力的般度诸子不会缺少仪式。”
1.133.41
पाण्डोः प्रियहितान्वेषी प्रेषय त्वं पुरोहितम् ।
वसुदेवस्तथेत्युक्त्वा विससर्ज पुरोहितम् ॥ १.१३३.४१ ॥
你既求般度之利益与福祉,便应遣送祭司。婆苏提婆说“就这样吧”,便送走了祭司。
1.133.42
युक्तानि च कुमाराणां पारबर्हाण्यनेकशः ।
कुन्तीं माद्रीं च संदिश्य दासीदासपरिच्छदम् ॥ १.१३३.४२ ॥
为诸王子备办种种合宜的礼物;又嘱咐了昆提与玛德利,并随同奴婢与随从。
1.133.43
गावो हिरण्यं रौप्यं च प्रेषयामास भारत ।
तानि सर्वाणि संगृह्य प्रययौ स पुरोहितः ॥ १.१३३.४३ ॥
他送出牛、金和银,婆罗多啊。那位祭司将这些全部收集后便启程了。
1.133.44
तमागतं द्विजश्रेष्ठं काश्यपं वै पुरोहितम् ।
पूजयामास विधिवत्पाण्डुः परपुरञ्जयः ॥ १.१३३.४४ ॥
征服敌城的般度,依礼恭敬地迎接了这位前来的再生者中的最优者、迦叶波种的祭司。
1.133.45
पृथा माद्री च संहृष्टे वसुदेवं प्रशंसताम् ।
ततः पाण्डुः क्रियाः सर्वाः पाण्डवानामकारयत् ॥ १.१३३.४५ ॥
普利塔与摩德利欢喜地赞美婆苏提婆。随后般度为般度五子举行了一切仪式。
1.133.46
गर्भाधानादिकृत्यानि चौलोपनयनानि च ।
काश्यपः कृतवान्सर्वमुपाकर्म च भारत ॥ १.१३३.४६ ॥
从受胎开始的诸仪式、剃发与入门礼,以及奥义仪式,婆罗多啊,迦叶波都全部主持完成了。
1.133.47
चौलोपनयनादूर्ध्वमृषभाक्षा यशस्विनः ।
वैदिकाध्ययने सर्वे समपद्यन्त पारगाः ॥ १.१३३.४७ ॥
剃发与入门礼之后,那些眼如牛目的著名者们,全都精通了吠陀学习。
1.133.48
शर्यातेः प्रथमः पुत्रः शुक्रो नाम परन्तपः ।
येन सागरपर्यन्ता धुषा निर्जिता मही ॥ १.१३३.४८ ॥
沙利耶提的长子名叫湿婆羯罗(Śukra),是敌人的克星,由他征服了以大海为界的大地。
1.133.49
अश्वमेधशतैरिष्ट्वा स महात्मा महामखैः ।
आराध्य देवताः सर्वाः पितॄनपि महामतिः ॥ १.१३३.४९ ॥
这位大德而智慧的人举行了一百次马祭和大祭,又礼敬了一切天神和祖先。
1.133.50
शतशृह्गे तपस्तेपे शाकमूलफलाशनः ।
तेनोपकरणश्रेष्ठैः शिक्षया चोपबृंहिताः ॥ १.१३३.५० ॥
他在百峰山上修苦行,以蔬菜、根和果实为食;他们借助他最好的器具和教导而得以增长。
1.133.51
तत्प्रसादाद्धनुर्वेदे समपद्यन्त पारगाः ।
गदायां पारगो भीमस्तोमरेषु युधिष्ठिरः ॥ १.१३३.५१ ॥
由于他的恩惠,他们都精通了弓箭之术;毗摩精通铁棒,坚战精通长矛。
1.133.52
असिचर्मणि निष्णातौ यमौ सत्त्ववतां वरौ ।
धनुर्वेदे गतः पारं सव्यसाची परन्तपः ॥ १.१३३.५२ ॥
精通剑与盾的双生子,力量之中的最优者,以及焚烧敌人的萨维亚萨钦,都在弓箭之术上达到了精通。
1.133.53
शुक्रेण समनुज्ञातो मत्समोऽयमिति प्रभो ।
अनुज्ञाय ततो राजा शक्तिं खङ्गं ततः शरान् ॥ १.१३३.५३ ॥
主啊,室建罗批准了他,说:“此人与我同等。”然后国王也许可了,[传授]长矛、宝剑,然后是箭。
1.133.54
धनुश्च दमतां श्रेष्ठस्तालमात्रं महाप्रभम् ।
विपाठक्षुरनाराचान्गृध्रपक्षैरलङ्कृतान् ॥ १.१३३.५४ ॥
克己者中的最优者取了一把如棕榈般高、光辉巨大的弓,以及以秃鹫羽毛装饰的毗跋陀、刀刃箭和那拉恰箭。
1.133.55
ददौ पार्थाय संहृष्टो महोरगसमप्रभान् ।
अवाप्य सर्वशस्त्राणि मुदितो वासवात्मजः ॥ १.१३३.५५ ॥
欢喜的因陀罗之子获得了一切兵器,将光辉如大蛇的兵器赠予贝塔(阿周那)。
1.133.56
मेने सर्वान्महीपालानपर्याप्तान्स्वतेजसः ॥ १.१३३.५६ ॥
他认为所有国王与自己的光辉相比都不足够。
1.133.57
एकवर्षान्तरास्त्वेवं परस्परमरिन्दमाः ।
अन्ववर्तन्त पार्थाश्च माद्रीपुत्रौ तथैव च ॥ १.१३३.५७ ॥
如此,相差一年出生的敌人制伏者们彼此相处;普利塔之子与玛德里之二子亦复如此。
1.133.58
ते च पञ्च शतं चैव कुरुवंशविवर्धनाः ।
सर्वे ववृधिरेऽल्पेन कालेनाप्स्विव पङ्कजाः ॥ १.१३३.५८ ॥
那五百位增益俱卢家族的人,也都在短时间内成长起来,如同莲花在水中生长。