Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.138

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.138.1

ततस्ते मन्त्रयामासुर्दुर्योधनपुरोगमाः ।
प्राणवान्विक्रमी चापि शौर्ये च महति स्थितः ॥ १.१३८.१ ॥

于是以难敌为首的人密谋。他精力充沛、勇猛,在大勇之中屹立。

1.138.2

स्पर्धते चापि सततमस्मानेव वृकोदरः ।
तं तु सुप्तं पुरोद्याने जले शूले क्षिपामहे ॥ १.१३८.२ ॥

狼腹(怖军)总是与我们争竞。趁他睡着时,在前面的园中,我们将他投入水中或插在刺上。

1.138.3

ततो जलविहारार्थं कारयामास भारत ।
प्रमाणकोट्यामुद्देशे स्थलं किंचिदुपेत्य ह ॥ १.१३८.३ ॥

然后,婆罗多啊,他在边界的某处为水上游戏准备了一个地方。

1.138.4

भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यमथापि च ।
उपपादितं नरैस्तत्र कुशलैः सूदकर्मणि ॥ १.१३८.४ ॥

那里,由擅长烹饪的人们准备了可食之物、餐食、饮料、可吮之物和可舔之物。

1.138.5

न्यवेदयंस्तत्पुरुषा धार्तराष्ट्राय वै तदा ।
ततो दुर्योधनस्तत्र पाण्डवानाह दुर्मतिः ॥ १.१३८.५ ॥

那些人便报告了持国之子。于是恶念的难敌在那里对般度诸子说。

1.138.6

गङ्गां चैवानुयास्याम उद्यानवनशोभिताम् ।
सहिता भ्रातरः सर्वे जलक्रीडामवाप्नुमः ॥ १.१३८.६ ॥

让我们沿着装饰着园林和林木的恒河前往。众兄弟一起去享受水上游戏。

1.138.7

एवमस्त्विति तं चापि प्रत्युवाच युधिष्ठिरः ।
ते रथैर्नगराकारैर्देशजैश्च गजोत्तमैः ॥ १.१३८.७ ॥

坚战也回答他说:「就这样吧。」他们乘坐如城市般宏大的战车,以及本地最好的象出发了。

1.138.8

निर्ययुर्नगराच्छूराः कौरवाः पाण्डवैः सह ।
उद्यानवनमासाद्य विसृज्य च महाजनम् ॥ १.१३८.८ ॥

英勇的俱卢人与般度人一同走出城市;到达园林树丛后,他们遣散了庞大的人群。

1.138.9

विशन्ति स्म तदा वीराः सिंहा इव गिरेर्गुहाम् ।
उद्यानमभिपश्यन्तो भ्रातरः सर्व एव ते ॥ १.१३८.९ ॥

那时,这些英勇的兄弟们一同走进园林,四下观望,如同狮子走进山洞一般。

1.138.10

उपस्थानगृहैः शुभ्रैर्वलभीभिश्च शोभितम् ।
गवाक्षकैस्तथा जालैर्यन्त्रैः सांचारिकैरपि ॥ १.१३८.१० ॥

那座园林装饰着洁白的殿堂、平台、窗户、格栅以及可以移动的机关。

1.138.11

संमार्जितं सौधकारैश्चित्रकारैश्च चित्रितम् ।
दीर्घिकाभिश्च पूर्णाभिस्तथा पुष्करिणीषु च ॥ १.१३८.११ ॥

那座园林经泥瓦匠清扫,又经画师彩绘;其中有灌满清水的长池和莲花池。

1.138.12

जलं तच्छुशुभे च्छन्नं फुल्लैर्जलरुहैस्तथा ।
उपच्छन्ना वसुमती तथा पुष्पैर्यथर्तुकैः ॥ १.१३८.१२ ॥

那水面被盛开的水生花覆盖,闪闪发光;大地也被依照季节开放的花朵所覆盖。

1.138.13

तत्रोपविष्टास्ते सर्वे पाण्डवाः कौरवाश्च ह ।
उपच्छन्नान्बहून्कामांस्ते भुञ्जन्ति ततस्ततः ॥ १.१३८.१३ ॥

坐在那里的所有般度族与俱卢族人,四处享用着许多可口的美食。

1.138.14

अथोद्यानवरे तस्मिंस्तथा क्रीडागताश्चते ।
परस्परस्य वक्त्रेषु ददुर्भक्ष्यांस्ततस्ततः ॥ १.१३८.१४ ॥

随后,那些前往那座美妙园林嬉戏的人,彼此你给我、我给你,四处喂食入口。

1.138.15

ततो दुर्योधनः पापस्तद्भक्ष्ये कालकूटकम् ।
विषं प्रक्षेपयामास भीमसेनजिघांसया ॥ १.१३८.१५ ॥

于是,恶人难敌想杀死怖军,便在那食物中掺入了迦罗俱吒毒药。

1.138.16

स्वयमुत्थाय चैवाथ हृदयेन क्षुरोपमः ।
स वाचाऽमृतकल्पश्च भ्रातृवच्च सुहृद्यथा ॥ १.१३८.१६ ॥

他亲自起身,心如刀锋般锐利,言语却如甘露般甜美,像兄弟与朋友一样走上前来。

1.138.17

स्वयं प्रक्षिपते भक्ष्यं बहु भीमस्य पाकृत् ।
प्रभक्षितं च भीमेन तं वै दोषमजानता ॥ १.१३८.१७ ॥

他亲自为怖军盛上许多食物,怖军并不知道其中的过错,全部吃了下去。

1.138.18

ततो दुर्योधनस्तत्र हृदयेन हसन्निव ।
कृतकृत्यमीवात्मानं मन्यते पुरुषाधमः ॥ १.१३८.१८ ॥

于是,那个最卑劣的人难敌在那里心中暗笑,自以为大功告成。

1.138.19

ततस्ते सहिताः सर्वे जलक्रीडामकुर्वत ।
पाण्डवा धार्तराष्ट्राश्च तदा मुदितमानसाः ॥ १.१३८.१९ ॥

于是众人一起嬉戏于水中:般度五子与持国之子,此时心中皆欢喜。

1.138.20

विहारावसथेष्वेव वीरा वासमरोचयन् ।
भीमस्तु बलवान्भुक्त्वा व्यायामाभ्यधिकं जले ॥ १.१३८.२० ॥

众英雄选择在游乐之所歇息。而强壮的怖军在水中剧烈锻炼后用餐,

1.138.21

वाहयित्वा कुमारांस्ताञ्जलक्रीडागतांस्तदा ।
प्रमाणकोट्यां वासार्थी सुष्वापावाप्य तत्स्थलम् ॥ १.१३८.२१ ॥

他把那些去水中嬉戏的少年带回,渴望休息,便来到那处地方睡去。

1.138.22

शीतं वातं समासाद्य श्रान्तो मदविमोहितः ।
विषेण च परीताङ्गो निश्चेष्टः पाण्डुनन्दनः ॥ १.१३८.२२ ॥

他迎着凉风,疲惫且因醉意而昏迷,身体被毒所笼罩,般度之子僵然不动。

1.138.23

ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः स्वयम् ।
शूलान्यप्सु निखायाशु प्रादेशाभ्यन्तराणि च ॥ १.१३८.२३ ॥

于是难敌亲自用藤索缚住怖军,并迅速在水中插下木桩,深及一虎口。

1.138.24

लतापाशैर्दृढं बद्धं स्थलाज्जलमपातयत् ।
सशेषत्वान्न संप्राप्तो जले शूलिनि पाण्डवः ॥ १.१३८.२४ ॥

他将被藤索紧紧缚住的怖军从岸上推入水中;但因尚存一息,这位般度之子并未坠到水中的木桩之上。

1.138.25

पपात यत्र तत्रास्य शूलं नासीद्यदृच्छया ।
स निःसंज्ञो जलस्यान्तमवाग्वै पाण्डवोऽविशत्।
आक्रामन्नागभवने तदा नागकुमारकान् ॥ १.१३८.२५ ॥

他四处跌倒,而恰好他身边没有尖刺。失去知觉的般度之子头朝下沉入水底,在龙王宫殿中践踏着龙童。

1.138.26

ततः समेत्य बहुभिस्तदा नागैर्महाविषैः ।
अदश्यत भृशं भीमो महादंष्ट्रैर्विपोल्बणैः ॥ १.१३८.२६ ॥

于是许多剧毒的龙蛇聚集而来,猛烈地咬伤了毗摩;它们有着巨大的獠牙,毒性骇人。

1.138.27

ततोऽस्य दश्यमानस्य तद्विषं कालकूटकम् ।
हतं सर्पविषेणैव स्थावरं जङ्गमेन तु ॥ १.१३८.२७ ॥

于是,在他被咬时,迦拉库塔毒被蛇毒本身所消灭——静止之毒被活动之毒所灭。

1.138.28

दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः ।
त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः ॥ १.१३८.२८ ॥

那些獠牙之蛇的牙齿甚至刺中了他的要害,却因这宽胸者身体的坚实而无法穿透他的皮肤。

1.138.29

ततः प्रबुद्धः कौन्तेयः सर्वं संछिद्य बन्धनम् ।
पोथयामास तान्सर्पान्केचिद्भीताः प्रदुद्रुवुः ॥ १.१३८.२९ ॥

于是觉醒的昆蒂之子斩断了所有束缚,并碾碎了那些蛇;有些蛇吓得逃走了。

1.138.30

हतावशेषा भीमेन सर्वे वासुकिमभ्ययुः ।
ऊचुश्च सर्पराजानं वासुकिं वासवोपमम् ॥ १.१३८.३० ॥

所有没有被毗摩杀死的蛇都去见婆苏吉,对如因陀罗般的蛇王婆苏吉说话。

1.138.31

अयं नरो वै नागरेन्द्र ह्यप्सु बद्ध्वा प्रवेशितः ।
यथा च नो मतिर्वीर विषपीतो भविष्यति ॥ १.१३८.३१ ॥

诸龙王之主啊,此人被缚后带入水中;英雄啊,依我们看,他已饮了毒。

1.138.32

निश्चेष्टोऽस्माननुप्राप्तः स च दष्टोऽन्वबुध्यत ।
ससंज्ञश्चापि संवृत्तश्छित्त्वा बन्धनमाशु नः ॥ १.१३८.३२ ॥

他僵卧着来到我们这里;虽被咬,却苏醒过来,很快割断了我们的绳索,自己获得了自由。

1.138.33

पोथयन्तं महाबाहुं त्वं वै तं ज्ञातुमर्हसि ।
ततो वासुकिरभ्येत्य नागैनुगतस्तदा ॥ १.१३८.३३ ॥

你应当查明是谁在压碎那大臂之人。于是婆修吉与诸龙一同前来,跟随着他。

1.138.34

पश्यति स्म महाबाहुं भीमं भीमपराक्रमम् ।
आर्यकेण च दृष्टः स पृथाया आर्यकेण च ॥ १.१३८.३४ ॥

他看见了勇猛可畏的大臂之人婆伽;也被普利塔的祖父看见了。

1.138.35

तदा दौहित्रदौहित्रः परिष्वक्तः सुपीडितम् ।
सुप्रीतश्चाभवत्तस्य वासुकिः स महायशाः ॥ १.१३८.३५ ॥

于是他紧紧拥抱了女儿之子的儿子(婆伽);名声显赫的婆修吉对他非常满意。

1.138.36

अब्रवीत्तं च नागेन्द्रः किमस्य क्रियतां प्रियम् ।
धनौघो रत्ननिचयो वसु चास्य प्रदीयताम् ॥ १.१३८.३६ ॥

诸龙王之主对他说:"为他做什么令他喜悦的事呢?应当赐予他巨额财富、一堆珠宝与财物。"

1.138.37

एवमुक्तस्तदा नागो वासुकिं प्रत्यभाषत ।
यदि नागेन्द्र तुष्टोऽसि किमस्य धनसंचयैः ॥ १.१३८.३७ ॥

那龙闻言回答婆苏吉说:"龙王啊,若你欢喜,何须以财富之堆赠予他呢?"

1.138.38

रसं पिबेत्कुमारोऽयं त्वयि प्रीते महाबलः ।
बलं नागसहस्रस्य यस्मिन्कुण्डे प्रतिष्ठितम् ॥ १.१३८.३८ ॥

若你欢喜,愿这位大力少年饮下那池中的甘露,那池中安住着千龙之力。

1.138.39

यावत्पिबति बालोऽयं तावदस्मै प्रदीयताम् ।
एवमस्त्विति तं नागं वासुकिः प्रत्यभाषत ॥ १.१३८.३९ ॥

只要这孩子在饮用,就给他。"婆苏吉回答那龙说:"就这样吧。"

1.138.40

ततो भीमस्तदा नागैः कृतस्वस्त्ययनः शुचिः ।
प्राङ्मुखश्चोपविष्टश्च रसं पिबति पाण्डवः ॥ १.१३८.४० ॥

于是,经诸龙行吉祥仪式而得清净的般度之子婆罗多,面向东方坐下,开始饮用那甘露。

1.138.41

एकोच्छ्वासात्ततः कुण्डं पिबति स्म महाबलः ।
एवमष्टौ स कुण्डानि ह्यपिबत्पाण्डुनन्दनः ॥ १.१३८.४१ ॥

于是,这位大力者一口气饮尽一池。如此,般度之子饮尽了八池。

1.138.42

ततस्तु शयने दिव्ये नागदत्ते महाभुजः ।
अशेत भीमसेनस्तु यथासुखमरिंदमः ॥ १.१३८.४२ ॥

于是,在诸龙所赠的天界床榻上,大臂、降伏敌人的婆摩塞那安然躺下。