摩诃婆罗多 · 章 1.14
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.14.1
सौतिरुवाच ।
ततो निवेशाय तदा स विप्रः संशितव्रतः।
महीं चचार दारार्थी न च दारानविन्दत ॥ १.१४.१ ॥
苏提说:那时,这位持守严格誓愿的婆罗门想成家,便在大地上四处寻找妻子,却未能找到妻子。
1.14.2
स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन् ।
चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव ॥ १.१४.२ ॥
有一次他走进森林,这位婆罗门想起祖先的话,低声呼喊了三次,乞求一位少女作为施舍。
1.14.3
तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा ।
न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन् ॥ १.१४.३ ॥
于是婆苏吉举起他的妹妹献给他;但他没有接受她,心想她与自己同名。
1.14.4
सनाम्नीं चोद्यतां भार्यां गृह्णीयामिति तस्य हि ।
मनो निविष्टमभवज्जरत्कारोर्महात्मनः ॥ १.१४.४ ॥
“我应当娶那位被献上的妻子,即使她同名。”——这位大德的耆羅特迦卢的心便这样定下了。
1.14.5
तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः ।
किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम ॥ १.१४.५ ॥
那位大智慧、大苦行的耆羅特迦卢对他说:“蛇王啊,你这妹妹叫什么名字?请如实告诉我。”
1.14.6
वासुकिरुवाच ।
जरत्कारो जरत्कारुः स्वसेयमनुजा मम।
प्रतिगृह्णीष्व भार्यार्थे मया दत्तां सुमध्यमाम् ।
त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम ॥ १.१४.६ ॥
婆苏吉说:“耆羅特迦卢啊,这是我的小妹,也名为耆羅特迦卢。请接受我献给你作妻子的这位细腰少女;她早就为你而被守护着。二生者中最优秀的,请接受她吧。”
1.14.7
सौतिरुवाच ।
एवमुक्त्वा ततः प्रादाद्भार्यार्थे वरवर्णिनीम्।
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा ॥ १.१४.७ ॥
苏提说:如此说罢,他便将那位容貌端美的女子给予为妻;他依照规定的仪式接受了她。