Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.146

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.146.1

एतस्मिन्नेव काले तु तस्मिञ्जनसमागमे ।
दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनः।
विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः ॥ १.१४६.१ ॥

就在此时,仆人们在人群中为他让出了空间,卡尔纳睁大惊异的双眼,走进了宽阔的赛场,他是征服敌城者。

1.146.2

सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः ।
स धनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः ॥ १.१४६.२ ॥

身披与生俱来的铠甲,面庞因耳环而光彩照人,束好弓与剑,他如同徒步行走的山岳。

1.146.3

कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः ।
तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः ॥ १.१४६.३ ॥

他生于少女之腹,声名远扬,是普利塔(贡蒂)的大眼之子,是锐光太阳的一部分,是摧毁敌军的卡尔纳。

1.146.4

सिंहर्षभगजेन्द्राणां बलवीर्यपराक्रमः ।
दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः ॥ १.१४६.४ ॥

他具有狮子、公牛和上等象的力量、勇气与威武,以光辉、光泽与明亮的品质,如同太阳、月亮与火焰。

1.146.5

प्रांशुः कनकतालाभः सिंहसंहननो युवा ।
असङ्ख्येयगुणः श्रीमान्भास्करस्यात्मसंभवः ॥ १.१४६.५ ॥

身材高大,如同金色棕榈,年轻而体格坚强如狮子,具无数美德,光彩照人,是太阳自生的儿子。

1.146.6

स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम् ।
प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत् ॥ १.१४६.६ ॥

这位大臂者环顾整个赛场后,向德罗纳和克里帕行礼,仿佛并非出于极大的敬意。

1.146.7

स समाजजनः सर्वो निश्चलः स्थिरलोचनः ।
कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत् ॥ १.१४६.७ ॥

全场之人纹丝不动,目光凝定。心中惊扰,问道:“此人是谁?”众人遂充满好奇。

1.146.8

सोऽब्रवीन्मेघगम्भीरस्वरेण वदतां वरः ।
भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम् ॥ १.१४६.८ ॥

辩才最优者以深沉如雷云的声音说话。对那位未被识破的兄弟,萨维特拉(迦尔纳)向帕卡沙萨尼(阿周那)说道。

1.146.9

पार्थ यत्ते कृतं कर्म विशेषवदहं ततः ।
करिष्ये पश्यतां नॄणां माऽऽत्मना विस्मयं गमः ॥ १.१४६.९ ॥

帕尔塔啊!你所做之事,我将以更加卓越的方式完成。在众人注视之下,你自己不要陷入惊异。

1.146.10

असमाप्ते ततस्तस्य वचने वदतां वर ।
यन्त्रोत्क्षिप्त इवोत्तस्थौ क्षिप्रं वै सर्वतो जनः ॥ १.१४६.१० ॥

辩才最优者话犹未尽,四周众人便如被机关弹起一般,迅速站立起来。

1.146.11

प्रीतिश्च मनुजव्याघ्र दुर्योधनमुपाविशत् ।
ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वाविवेश ह ॥ १.१४६.११ ॥

人中之虎啊!喜悦进入了难敌,羞愧与愤怒却在瞬间进入了比跋苏(阿周那)。

1.146.12

ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा ।
यत्कृतं तत्र पार्थेन तच्चकार महाबलः ॥ १.१४६.१२ ॥

于是,经德罗纳允许、向来好战的迦尔纳,那位大力者,做出了帕尔塔在那里所做的同样之事。

1.146.13

अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत ।
कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत् ॥ १.१४६.१३ ॥

于是难敌与诸兄弟在那里,婆罗多啊,欢喜地拥抱迦尔纳,说了这些话。

1.146.14

स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद ।
अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम् ॥ १.१४६.१४ ॥

欢迎你,大臂者!幸运的是你来了,授予尊荣者。愿我与俱卢王国任你随意享用。

1.146.15

कृतं सर्वमहं मन्ये सखित्वं च त्वया वृणे ।
द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छाम्यहं प्रभो ॥ १.१४६.१५ ॥

我认为一切已经完成,我选择你的友谊。主啊,我想与普利塔之子单独决斗。

1.146.16

एवमुक्तस्तु कर्णेन राजन्दुर्योधनस्तदा ।
कर्णं दीर्घाञ्चितभुजं परिष्वज्येदमब्रवीत् ॥ १.१४६.१६ ॥

迦尔纳如此说后,大王啊,难敌便拥抱了那双臂长伸的迦尔纳,并说了这番话。

1.146.17

भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव ।
दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिन्दम ॥ १.१४६.१७ ॥

与我一同享受欢乐,做亲族所喜爱之人。降伏敌人者啊,把你的脚踩在所有敌人的头上。

1.146.18

ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत ।
कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम् ॥ १.१४६.१८ ॥

于是普利塔之子自觉仿佛被抛开,便对站在众兄弟之中、如山般不动的迦尔纳说道。

1.146.19

अनाहूतोपसृष्टानामनाहूतोपजल्पिनाम् ।
ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे ॥ १.१४६.१९ ॥

啊,迦尔纳,你将被我杀死,并得到那些不被召唤便来攻击、不被邀请便多言者所属的世界。

1.146.20

रङ्गोऽयं सर्वसामान्यः किमत्र तव फाल्गुन ।
वीर्यश्रेष्ठाश्च राजानो बलं धर्मोऽनुवर्तते ॥ १.१४६.२० ॥

此场地对所有人都是共同的。法尔古那啊,你在这里有何权利?勇武超群的国王也在此;唯有力量与法得以遵循。

1.146.21

किं क्षेपैर्दुर्बलायासैः शरैः कथय भारत ।
गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः ॥ १.१४६.२१ ॥

嘲讽与软弱的努力有何用?婆罗多之后啊,请以箭说话。在老师面前,今日我将以箭取下你的头颅。

1.146.22

ततो द्रोणाभ्यनुज्ञातः पार्तः परपुरञ्जयः ।
भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम् ॥ १.१४६.२२ ॥

于是,得到德罗纳允许、征服敌城的普利塔之子,被兄弟们急切地拥抱后,前往与他交战。

1.146.23

ततो दुर्योधनेनापि स भ्रात्रा समरोद्यतः ।
परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः ॥ १.१४६.२३ ॥

于是,难敌也拥抱了那位已准备好作战的兄弟;迦尔纳持箭执弓,站立不动。

1.146.24

ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोगमैः ।
आवृतं गगनं मेघैर्बलाकापङ्क्तिहासिभिः ॥ १.१४६.२४ ॥

于是,天空被云层覆盖,闪电、雷鸣与彩虹走在前面,嘲笑着成行的鹤群。

1.146.25

ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम् ।
भास्करोऽप्यनयन्नाशं समीपोपगतान्घनान् ॥ १.१४६.२५ ॥

此时,太阳见到哈里哈耶(阿周那)怀着爱意观看赛场,也驱散了逼近的云层。

1.146.26

मेघच्छायोपगूढस्तु ततोऽदृश्यत फाल्गुनः ।
सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत ॥ १.१४६.२६ ॥

此时,被云影遮蔽的法尔古那(阿周那)显现出来,被烈日炙烤的迦尔纳也清楚可见。

1.146.27

धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः ।
भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन् ॥ १.१४६.२७ ॥

在迦尔纳与持国之子们所站立之处,有婆罗堕阁(德罗纳)、克里帕与毗湿摩;而在普利塔之子(阿周那)所在之处,他们也在那里。

1.146.28

द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत ।
कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह ॥ १.१४६.२८ ॥

赛场一分为二,女眷之间也产生了分歧。坤蒂(建陀菩萨之女,即昆提菩阇之女)明白了其中的含义,陷入昏厥。

1.146.29

तां तथा मोहमापन्नां विदुरः सर्वधर्मवित् ।
कुन्तीमाश्वासयामास प्रेष्याभिश्चन्दनोदकैः ॥ १.१४६.२९ ॥

通晓一切法的毗杜罗以侍女取来的檀香水安慰昏厥的坤蒂。

1.146.30

ततः प्रत्यागतप्राणा तावुभौ परिदंशितौ ।
पुत्रौ दृष्ट्वा सुसंभ्रान्ता नान्वपद्यत किंचन ॥ १.१४६.३० ॥

她醒转过来,看见身披甲胄的两个儿子,极为慌乱,什么也不明白。

1.146.31

तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत् ।
द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित् ॥ १.१४६.३१ ॥

高举大弓的二人,檀古论者、沙罗陀瓦特之子克里帕开口说道;他精通单人决斗的规矩,通晓一切法则。

1.146.32

अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः ।
कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति ॥ १.१४६.३२ ॥

这是普利塔的幼子,般度的欢喜,一位俱卢族人,他将与你单人决斗。

1.146.33

त्वमप्येवं महाबाहो मातरं पितरं कुलम् ।
कथयस्व नरेन्द्राणां येषां त्वं कुलभूषणम् ॥ १.१४६.३३ ॥

大臂者啊,你也同样说出你的母亲、父亲与族系——那些人中之主,你正是其家族的光彩。

1.146.34

ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा ।
वृथाकुलसमाचारैर्न युध्यन्ते नृपात्मजाः ॥ १.१४६.३४ ॥

那时,认出你之后,帕尔塔会与你交战或不交战;王子们不以虚妄混乱的行为作战。

1.146.35

एवमुक्तस्य कर्णस्य व्रीडावनतमाननम् ।
बभौ वर्षाम्बुविक्लिन्नं पद्ममागलितं यथा ॥ १.१४६.३५ ॥

迦尔纳听到这些话,面容因羞惭而低垂,如同被雨水浸湿而凋落的莲花,闪着微光。

1.146.36

आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये ।
सत्कुलीनश्च शूरश्च यश्च सेनां प्रकर्षति ॥ १.१४६.३६ ॥

老师啊,依照论典的定论,王者的出身有三种:出身高贵的、英勇的,以及能率领军队前进的人。

1.146.37

अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ १.१४६.३७ ॥

火生于水,刹帝利生于梵,铁生于石。它们遍及一切的威光,在各自的本源中平息。

1.146.38

यद्ययं फाल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति ।
तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते ॥ १.१४६.३८ ॥

若此法尔古那欲在战场上无王而战,那么我便在央伽之地为他灌顶为王。

1.146.39

ततो राजानमामन्त्र्य गाङ्गेयं च पितामहम् ।
अभिषेकस्य संभारान्समानीय द्विजातिभिः ॥ १.१४६.३९ ॥

于是,他召请国王与祖父恒伽之子,并通过再生者们聚集灌顶的物品。

1.146.40

गोसहस्रायुतं दत्त्वा युक्तानां पुण्यकर्मणाम् ।
अर्होऽयमङ्गराज्यस्य इति वाच्य द्विजातिभिः ॥ १.१४६.४० ॥

向有德行的贤者布施了数千乃至万千头牛,再生者们宣告:“此人配得上央伽王国。”

1.146.41

ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः ।
काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः ॥ १.१४६.४१ ॥

就在那一刻,大车战士迦尔纳在金座上,由通晓咒语的人以金瓶、炒米与花朵为他灌顶。

1.146.42

अभिषिक्तोऽङ्गराजे स श्रिया युक्तो महाबलः ।
स मौलिहारकेयूरः सहस्ताभरणाङ्गदः ॥ १.१४६.४२ ॥

他被灌顶为央伽王,富有光彩,大力无比,戴着冠冕、项链、臂钏,以及手饰与臂环。

1.146.43

राजलिङ्गैस्तथाऽन्यैश्च भूषितो भूषणैः शुभैः ।
सच्छत्रवालव्यजनो जयशब्दोत्तरेण च ॥ १.१४६.४३ ॥

佩戴王者标志与其他吉祥饰物,伴有华盖、牦牛尾扇与拂尘,在欢呼胜利的声浪之中。

1.146.44

उवाच कौरवं राजन्वचनं स वृषस्तदा ।
अस्य राज्यप्रदानस्य सदृशं किं ददानि ते ॥ १.१४६.४४ ॥

于是毗利沙(迦尔纳)对俱卢子说:大王啊,这份授予王国之恩,我该拿什么来相报呢?

1.146.45

प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप ।
अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः ॥ १.१४६.४५ ॥

请说吧,王中猛虎;大王,我确实会照做。我极其渴望友谊——苏约达那对他这样说。

1.146.46

एवमुक्तस्ततः कर्णस्तथेति प्रत्युवाच तम् ।
हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः ॥ १.१४६.४६ ॥

迦尔纳听他这样说,便回答道:“就这样吧。”二人因欢喜而紧紧拥抱,都获得了无上的喜悦。