Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.148

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.148.1

पाण्डवान्धार्तराष्ट्रांश्च कृतास्त्रान्प्रसमीक्ष्य सः ।
गुर्वर्थं दक्षिणां काले प्राप्तेऽमन्यत वै गुरुः ॥ १.१४८.१ ॥

导师看到般度之子与持国之子已精通武艺,便在适当的时候考虑了师尊的酬谢。

1.148.2

अस्त्रशिक्षामनुज्ञातान्रङ्गद्वारमुपागतान् ।
भारद्वाजस्ततस्तांस्तु सर्वानेवाभ्यभाषत ॥ १.१४८.२ ॥

当他们结束武艺训练、获准来到竞技场门口时,婆罗堕阁子(德罗纳)便对他们所有人说道。

1.148.3

इच्छामि दत्तां सहितां मह्यं परमदक्षिणाम् ।
एवमुक्तास्ततः सर्वे शिष्या द्रोणमथाब्रुवन्।
भगवन्किं प्रयच्छाम आज्ञापयतु नो गुरुः ॥ १.१४८.३ ॥

“我希望完整地获得至上的酬谢。”听他这样说,众弟子便对德罗纳说:“尊者,我们该奉上什么?请师尊吩咐我们。”

1.148.4

ततः शिष्यान्समाहूय आचार्योऽर्थमचोदयत् ।
द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते ॥ १.१४८.४ ॥

于是,导师德罗纳召集弟子,恳切地催促他们全体为酬谢而努力,哦,大地之主。

1.148.5

पञ्चालराजं द्रुपदं गृहित्वा रणमूर्धनि ।
पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा ॥ १.१४८.५ ॥

在战阵前端擒获般遮罗国王德鲁帕达,并把他带到我这里来。愿你们平安;那便是至上的酬谢。

1.148.6

तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः ।
आचार्यधनदानार्थं द्रोणेन सहिता ययुः ॥ १.१४८.६ ॥

他们回答“就照你说的办”,那些战士便迅速登上战车,与德罗纳一同出发,为师尊奉上酬谢。

1.148.7

ततोऽभिजग्मुः पञ्चालान्निघ्नन्तस्ते नरर्षभाः ।
ममृदुस्तस्य नगरं द्रुपदस्य महौजसः ॥ १.१४८.७ ॥

于是那些人中雄牛向般遮罗进发,击杀敌人,践踏了大力的木钵罗的城市。

1.148.8

दुर्योधनश्च कर्णश्च युयुत्सुश्च महाबलः ।
दुःशासनो विकर्णश्च जलसन्धः सुलोचनः ॥ १.१४८.८ ॥

难敌、迦尔纳、大力的犹由促、难降、毗伽尔纳、阇罗桑陀和苏洛遮那。

1.148.9

एते चान्ये च बहवः कुमारा बहुविक्रमाः ।
अहं पूर्वमहं पूर्वमित्येवं क्षत्रियर्षभाः ॥ १.१४८.९ ॥

他们以及其他许多勇猛的王子,刹帝利中的雄牛,都喊着:'我先!我先!'

1.148.10

ततो वरराथारूढाः कुमाराः सादिभिः सह ।
प्रविश्य नगरं सर्वे राजमार्गमुपाययुः ॥ १.१४८.१० ॥

于是王子们乘上良车,与骑兵一起进入城中,全都来到了王道上。

1.148.11

तस्मिन्काले तु पाञ्चालः श्रुत्वा दृष्ट्वा महद्बलम् ।
भ्रातृभिः सहितो राजंस्त्वरया निर्ययौ गृहात् ॥ १.१४८.११ ॥

那时,般遮罗王听闻并看见大军,王啊,便与兄弟们急忙从宫中出来。

1.148.12

ततस्तु कृतसन्नाहा यज्ञसेनसहोदराः ।
शरवर्षाणि मुञ्चन्तः प्रणेदुः सर्व एव ते ॥ १.१४८.१२ ॥

于是身披铠甲的祭军的兄弟们,射出箭雨,全都大声吼叫起来。

1.148.13

ततो रथेन शुभ्रेण समासाद्य तु कौरवान् ।
यज्ञसेनः शरान्घोरान्ववर्ष युधि दुर्जयः ॥ १.१४८.१३ ॥

于是,驾着明亮的战车逼近俱卢族人,在战场上不可战胜的祭祀生(德鲁帕达)降下了可怕的箭雨。

1.148.14

पूर्वमेव तु संमन्त्र्य पार्थो द्रोणमथाऽब्रवीत् ।
दर्पोद्रेकात्कुमाराणामाचार्यं द्विजसत्तमम् ॥ १.१४८.१४ ॥

先前已经商议,因王子们骄傲过度,阿周那便对最优秀的婆罗门、老师德罗纳说道。

1.148.15

एषां पराक्रमस्यान्ते वयं कुर्याम साहसम् ।
एतैरशक्यः पाञ्चालो ग्रहीतुं रणमूर्धनि ॥ १.१४८.१५ ॥

待他们的勇力耗尽之时,我们应大胆出击;有他们在,般遮罗便无法在阵前被擒。

1.148.16

एवमुक्त्वा तु कौन्तेयो भ्रातृभिः सहितोऽनघः ।
अर्धक्रोशे तु नगरादतिष्ठद्बहिरेव सः ॥ १.१४८.१६ ॥

说完这些,贡蒂之子无过的阿周那与兄弟们一同站在城外,离城半俱卢舍之地。

1.148.17

द्रुपदः कौरवान्दृष्ट्वा प्राधावत समन्ततः ।
शरजालेन महता मोहयन्कौरवीं चमूम् ॥ १.१४८.१७ ॥

德鲁帕达见到俱卢族人,从四面八方冲去,以巨大的箭网迷惑俱卢军队。

1.148.18

तमुद्यतं रथेनैकमाशुकारिणमाहवे ।
अनेकमिव सन्त्रासान्मेनिरे तत्र कौरवाः ॥ १.१४८.१८ ॥

他独自驾车前进,在战斗中行动迅捷,俱卢族人因恐惧而以为他是许多人。

1.148.19

द्रुपदस्य शरा घोरा विचेरुः सर्वतोदिशम् ।
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्च सहस्रशः ॥ १.१४८.१९ ॥

德鲁帕达可怕的箭矢向四方散布。随后,成千上万的海螺、鼓和木鼓齐鸣。

1.148.20

प्रावाद्यन्त महाराज पञ्चालानां निवेशने ।
सिंहनादश्च संजज्ञे पञ्चालानां महात्मनाम् ॥ १.१४८.२० ॥

大王啊,般遮罗营中乐器齐鸣,高尚的般遮罗人发出了狮子般的吼声。

1.148.21

धनुर्ज्यातलशब्दश्च संस्पृश्य गगनं महान् ।
दुर्योधनो विकर्णश्च सुबाहुर्दीर्घलोचनः ॥ १.१४८.२१ ॥

弓弦的巨响震动天空。难敌、毗迦尔纳和长眼的苏跋呼(前进)。

1.148.22

दुःशाशनश्च संक्रुद्धः शरवर्षैरवाकिरन् ।
सोऽतिविद्धो महेष्वासः पार्षतो युधि दुर्जयः ॥ १.१४८.२२ ॥

愤怒的难降以箭雨覆盖了他。那位大弓手、毕利沙塔之子、战场上无敌者,遭受重创。

1.148.23

व्यधमत्तान्यनीकानि तत्क्षणादेव भारत ।
दुर्योधनं विकर्णं च कर्णं चापि महाबलम् ॥ १.१४८.२३ ॥

婆罗多之子啊,他立刻冲散了那些军队,并击退了难敌、毗迦尔纳,以及强大的迦尔纳。

1.148.24

नानानृपसुतान्वीरान्सैन्यानि विविधानि च ।
अलातचक्रवत्सर्वं चरन्बाणैरतर्पयत् ॥ १.१४८.२४ ॥

他如火轮般四处旋转,以箭矢射击众多王子、英雄和各色军队。

1.148.25

ततस्तु नागराः सर्वे मुसलैर्यष्टिभिस्तदा ।
अभ्यवर्षन्त कौरव्यान्वर्षमाणा घा इव ॥ १.१४८.२५ ॥

此时城中所有人手持木槌与棍棒,如降雨的云般向俱卢族倾泻而下。

1.148.26

सबालवृद्धाः काम्पिल्याः कौरवानभ्ययुस्तदा ।
श्रुत्वा सुतुमुलं युद्धं कौरवानेव भारत ॥ १.१४८.२६ ॥

于是坎毗拉城的人们,包括孩童与老人,一齐扑向俱卢族;婆罗多啊,他们听到那场剧烈的战斗之声,便直奔俱卢族而去。

1.148.27

द्रवन्तिस्म नदन्तिस्म क्रोशन्तः पाण्डवान्प्रति ।
पाडवास्तु स्वनं श्रुत्वा आर्तानां रोमहर्षणम् ॥ १.१४८.२७ ॥

他们奔跑呼号,向般度之子哭喊而去;般度五子听到了那令人毛骨悚然的受难者的哀号。

1.148.28

अभिवाद्य ततो द्रोणं रथानारुरुहुस्तदा ।
युधिष्ठिरं निवार्याशु मा युध्यस्वेति पाण्डवम् ॥ १.१४८.२८ ॥

随后,他们向德罗纳致敬,登上战车;并迅速拦住般度之子坚战,说道:“不要作战。”

1.148.29

माद्रेयौ चक्ररक्षौ तु फाल्गुनश्च तदाऽकरोत् ।
सेनाग्रगो भीमसेनस्तदाभूद्गदया सह ॥ १.१४८.२९ ॥

摩德利的两个儿子担任车轮的守护者,阿周那当时也这样做;而毗湿摩那手持铁杵,站在军队的前列。

1.148.30

तदा शत्रुस्वनं श्रुत्वा भ्रातृभिः सहितोऽनघः ।
आयाज्जवेन कौन्तेयो रथेनानादयन्दिशः ॥ १.१४८.३० ॥

那时,无过的昆蒂之子听到敌人的喧嚣,便与兄弟们急速赶来,战车的轰鸣震动四方。

1.148.31

पञ्चालानां ततः सेनामुद्धूतार्णवनिःस्वनाम् ।
भीमसेनो महाबाहुर्दण्डपाणिरिवान्तकः ॥ १.१४८.३१ ॥

于是,面对般遮罗军队如怒涛般的喧嚣,大臂的怖军(猛然冲入),如手持杖的死神。

1.148.32

प्रविवेश महासेनां मकरः सागरं यथा ।
चतुरङ्गबलाकीर्णे ततस्तस्मिन्रणोत्सवे ॥ १.१४८.३२ ॥

如摩伽罗进入大海,他进入了那充满四军的庞大军队,在那战争的盛宴之中。

1.148.33

स्वयमभ्यद्रवद्भीमो नागानीकं गदाधरः ॥ १.१४८.३३ ॥

持杖的怖军亲自冲向象军。

1.148.34

स युद्धकुशलः पार्थो बाहुवीर्येण चातुलः ।
अहनत्कुञ्जरानीकं गदया कालरूपधृक् ॥ १.१४८.३४ ॥

那位善战的普利塔之子,以臂力无双,化作时间之形,以棒击杀象军。

1.148.35

ते गजा गिरिसङ्काशाः क्षरन्तो रुधिरं बहु ।
भीमसेनस्य गदया भिन्नमस्तकपिण्डकाः ॥ १.१४८.३५ ॥

那些如山的象,流出大量鲜血,头颅被怖军之棒击碎,纷纷倒下。

1.148.36

पतन्ति द्विरदा भूमौ वज्रघातादिवाचलाः ।
गजानश्वान्रथांश्चैव पातयामास पाण्डवः ॥ १.१४८.३६ ॥

如被雷霆击中的山岳,象纷纷倒地;般度之子又击倒了象、马和战车。

1.148.37

पदातींश्च रथांश्चैव न्यवधीदर्जुनाग्रजः ।
गोपाल इव दण्डेन यथा पशुगणान्वने ॥ १.१४८.३७ ॥

如同牧人在林中以杖驱赶牛群,阿周那的长兄击倒了步兵与战车。

1.148.38

चालयन्रथनागांश्च संचचाल वृकोदरः ।
भारद्वाजप्रियं कर्तुमुद्यतः फाल्गुनस्तदा ॥ १.१४८.३८ ॥

狼腹(Vṛkodara)震动战车与象群向前推进;此时法尔古那(阿周那)亦决意要成全德罗纳所喜,遂动身前进。

1.148.39

पार्षतं शरजालेन क्षिपन्नागात्स पाण्डवः ।
हयौघांश्च रथौघांश्च गजौघांश्च समन्ततः ॥ १.१४८.३९ ॥

此般庄王以箭网将般遮(Pārṣata)从象上推开,那位般度之子四面八方击倒成群的马、战车与象。

1.148.40

पातयन्समरे राजन्युगान्ताग्रिरिव ज्वलन् ।
ततस्ते हन्यमाना वै पञ्चालाः सृञ्जयास्तथा ॥ १.१४८.४० ॥

大王啊,他在战场上击倒敌人,光焰如劫末之火;于是被他杀戮的般遮罗与苏敬耶,也如此倒下。

1.148.41

शरैर्नानाविधैस्तूर्णं पार्थं संछाद्य सर्वशः ।
सिंहनादं मुखैः कृत्वा समयुध्वन्त पाण्डवम् ॥ १.१४८.४१ ॥

他们以种种箭矢迅速从四面掩覆普利塔之子(阿周那),以口发出狮子吼,与那位般度之子交战。

1.148.42

तद्युद्धमभवद्धोरं समुहाद्भुतदर्शनम् ।
सिंहनादस्वनं श्रुत्वा नामृष्यत्पाकशासनिः ॥ १.१४८.४२ ॥

那场战斗变得可怖而令人惊奇。因闻狮子吼之声,因陀罗之子(阿周那)不能忍受。

1.148.43

ततः किरीटी सहसा पञ्चालान्समरेऽद्रवत् ।
छादयन्निषुजालेन महता मोहयन्निव ॥ १.१४८.४३ ॥

于是持冠者(阿周那)忽然在战场上冲向般遮罗人,以巨大的箭网覆盖他们,仿佛要使他们迷惑。

1.148.44

शीघ्रमभ्यस्यतो बाणान्संदधानस्य चानिशम् ।
नान्तरं ददृशे किंचित्कौन्तेयस्य यशस्विनः ॥ १.१४८.४४ ॥

在那位名声显赫的贡提之子身上,只见他快速射箭,不停地将箭搭上弓弦,竟看不到丝毫间隙。

1.148.45

न दिशो नान्तरिक्षं च तदा नैव च मेदिनी ।
अदृश्यत महाराज तत्र किंचिन्न सङ्गरे ॥ १.१४८.४५ ॥

大王啊,那时既看不见四方,也看不见天空,甚至看不见大地;在那场战斗中,那里什么也看不见。

1.148.46

पाञ्चालानां कुरूणां च साधुसाध्विति निस्वनः ।
तत्र तूर्यनिनादश्च शङ्खानां च महास्वनः ॥ १.१४८.४६ ॥

般遮罗人与俱卢人齐声高呼:“好!好!”那里又响起号角之声与海螺的巨大轰鸣。

1.148.47

सिंहनादश्च संजज्ञे साधुशब्देन मिश्रितः ।
ततः पाञ्चालराजस्तु तथा सत्यजिता सह ॥ १.१४८.४७ ॥

狮吼之声也随着“好”的呼声响起;然后般遮罗王与萨蒂亚吉特一同[前进]。

1.148.48

त्वरमाणोऽभिदुद्राव महेन्द्रं शम्बरो यथा ।
महता शरवर्षेण पार्थः पाञ्चालमावृणोत् ॥ १.१४८.४८ ॥

他如同商波罗疾速扑向因陀罗(摩亨德拉)一般飞速前冲;而普利塔之子(阿周那)以大量箭雨覆盖了般遮罗王。

1.148.49

ततो हलहलाशब्द आसीत्पाञ्चालके बले ।
जिवृक्षति महासिंहे गजानामिव यूथपम् ॥ १.१४८.४९ ॥

于是般遮罗军中响起一片喧嚣,犹如大狮子想要擒住象群之王。

1.148.50

दृष्ट्वा पार्थं तदायान्तं सत्यजित्सत्यविक्रमः ।
पाञ्चालं वै परिप्रेप्सुर्धनञ्जयमदुद्रुवत् ॥ १.१४८.५० ॥

见般度之子(Pārtha)来至,真勇的萨蒂亚吉特为护卫般遮罗王,朝财胜(Dhanañjaya)冲去。

1.148.51

ततस्त्वर्जुनपाञ्चालौ युद्धाय समुपागतौ ।
व्यक्षोभयेतां तौ सैन्यमिन्द्रवैरोचनाविव ॥ १.१४८.५१ ॥

于是阿周那与般遮罗王相会而战,二人搅动大军,犹如因陀罗与毗卢遮那。

1.148.52

ततः सत्यजितं पार्थो दशभिर्मर्मभेदिभिः ।
विव्याध बवलद्गाढं तदद्भुतमिवाभवत् ॥ १.१४८.५२ ॥

于是般度之子以十支击中要害的箭迅猛深深射中萨蒂亚吉特;这景象仿佛奇迹。

1.148.53

ततः शरशतैः पार्थं पाञ्चालः शीघ्रमार्दयत् ।
पार्थस्तु शरवर्षेण च्छाद्यमानो महारथः ॥ १.१४८.५३ ॥

于是般遮罗王迅速以数百支箭攻击般度之子;而大战车手般度之子被箭雨覆盖……

1.148.54

वेगं चक्रे महावेगो धनुर्ज्यामवमृज्य च ।
ततः सत्यजितश्चापं छित्वा राजानमभ्ययात् ॥ १.१४८.५४ ॥

迅捷的般度之子拉紧弓弦,加速进攻;随后斩断萨蒂亚吉特的弓,朝国王逼近。

1.148.55

अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम् ।
साश्वं ससूतं सरथं पार्थं विव्याध सत्वरः ॥ १.१४८.५५ ॥

于是萨蒂亚吉特取另一张弓,以更大的力量,迅速射中了般度之子(阿周那)连同马匹、御者与战车。

1.148.56

स तं न ममृषे पार्थः पाञ्चालेनार्दितो युधि ।
ततस्तस्य विनाशार्थं सत्वरं व्यसृजच्छरान् ॥ १.१४८.५६ ॥

般度之子被般遮罗人在战中所困,无法忍受;于是为了毁灭他,迅速射出了箭。

1.148.57

हयान्ध्वजं धनुर्मुष्टिमुभौ तौ पार्ष्णिसारथी ।
स तथा भिद्यमानेषु कार्मुकेषु पुनः पुनः ॥ १.१४८.५७ ॥

马匹、旌旗、弓把,以及两侧的御者——而他的弓一再被折断。

1.148.58

हयेषु विनिकृत्तेषु विमुखोऽभवदाहवे ।
स सत्यजितमालेक्य तथा विमुखमाहवे ॥ १.१४८.५८ ॥

马匹被斩断后,他便退出了战斗;他看见萨蒂亚吉特同样在战中退避,

1.148.59

वेगेन महता राजन्नभ्यधावत पार्षतम् ।
तदा चक्रे महद्युद्धमर्जुनो जयतां वरः ॥ १.१४८.५९ ॥

大王啊,他以巨大的速度冲向般遮罗之子;于是胜者中最杰出的阿周那展开了大战。

1.148.60

तस्य पार्थो धनुश्छित्त्वा ध्वजं चोर्व्यामपातयत् ।
पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः ॥ १.१४८.६० ॥

般度之子斩断了他的弓,又将旌旗打落在地,并以五支箭射中了他的马匹与御者。

1.148.61

तत उत्सृज्य तच्चापमाददानः शरावरम् ।
खड्गमुद्धृत्य कौन्तेयः सिंहनादमथाकरोत् ॥ १.१४८.६१ ॥

于是,弃去那张弓,拔出宝剑,俱卢之子发出狮子般的吼声。

1.148.62

पाञ्चालस्य रथस्येषामाप्लुत्य सहसाऽपतत् ।
पाञ्चालरथमास्थाय अवित्रस्तो धनञ्जयः ॥ १.१४८.६२ ॥

他忽然跳上般遮罗人战车的辕木,无所畏惧的财主登上了般遮罗的战车。

1.148.63

विक्षोभ्याम्भोनिधिंतार्क्ष्यस्तंनागमिव सोऽग्रहीत् ।
ततस्तु सर्वपाञ्चाला विद्रवन्ति दिशो दश ॥ १.१४८.६३ ॥

如金翅鸟搅动大海而抓住毒蛇一般,他抓住了他;于是所有般遮罗人向十方逃散。

1.148.64

दर्शयन्सर्वसैन्यानां स बाह्वोर्बलमात्मनः ।
सिंहनादस्वनं कृत्वा निर्जगाम धनञ्जयः ॥ १.१४८.६४ ॥

向全军展示自己双臂的力量,发出狮子般的吼声,财主走了出去。

1.148.65

आयान्तमर्जुनं दृष्ट्वा कुमाराः सहितास्तदा ।
ममृदुस्तस्य नगरं द्रुपदस्य महात्मनः ॥ १.१४८.६५ ॥

见阿周那走来,众王子聚集一处,便践踏了伟大的德鲁波陀的城市。

1.148.66

संबन्धी कुरुवीराणां द्रुपदो राजसत्तमः ।
मा वधीस्तद्बलं भीम गुरुदानं प्रदीयताम् ॥ १.१४८.६६ ॥

德鲁波陀是诸王之中最优秀的,是俱卢英雄的亲属。啊,怖军,不要杀他的军队;应当交付给老师的礼物。

1.148.67

भीमसेनस्तदा राजन्नर्जुनेन निवारितः ।
अतृप्तो युद्धधर्मेषु न्यवर्तत महाबलः ॥ १.१४८.६७ ॥

君王啊,那时被阿周那制止,大力的怖军虽在战斗法则中未得满足,仍然返回了。

1.148.68

ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि ।
उपाजग्मुः सहामात्यं द्रोणाय भरतर्षभ ॥ १.१४८.६८ ॥

他们在战阵前列擒获了祭祀生的德鲁帕达,与其大臣一同来到德罗纳面前,婆罗多之雄啊。

1.148.69

भग्नदर्पं हृतधनं तं तथा वशमागतम् ।
स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत् ॥ १.१४८.६९ ॥

见他骄傲已破、财富已被夺取、如此被制服,德罗纳心中默想着仇恨,对德鲁帕达说道。

1.148.70

विमृज्य तरसा राष्ट्रं पुरं ते मृदितं मया ।
प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते ॥ १.१४८.७० ॥

我已用武力扫平了你的国家,摧毁了你的城市。活在敌人的掌控之下,昔日的朋友啊,你现在还想要什么?

1.148.71

एवमुक्त्वा प्रहस्यैनं किंचित्स पुनरब्रवीत् ।
मा भैः प्राणभयाद्वीर क्षमिणो ब्राह्मणा वयम् ॥ १.१४८.७१ ॥

说完这话,他笑着又对他说道:英雄啊,不要因为怕失去性命而害怕;我们婆罗门是宽恕的。

1.148.72

आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह ।
तेन संवर्धितः स्नेहः प्रीतिश्च क्षत्रियर्षभ ॥ १.१४८.७२ ॥

你在童年时在净修林与我一起游戏,由此增长了情谊与爱,刹帝利中的雄牛啊。

1.148.73

प्रार्थयेयं त्वया सख्यं पुनरेव जनाधिप ।
वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि ॥ १.१४८.७३ ॥

国王啊,我本想再次向你求取友谊。人民之主啊,我赐你一个恩惠:国王啊,得到王国的一半吧。

1.148.74

अराजा किल नो राज्ञः सखा भवितुमर्हति ।
अतः प्रयतितं राज्ये यज्ञसेन मया तव ॥ १.१४८.७४ ॥

不是国王的人不配做国王的朋友。因此,祭祀之军啊,我为你的王国而努力。

1.148.75

राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे ।
सखायं मां विजानीहि पाञ्चाल यदि मन्यसे ॥ १.१४८.७५ ॥

你是跋吉罗提河南岸的国王,我在北岸。般遮罗啊,如果你这样认为,就把我当作你的朋友吧。

1.148.76

अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु ।
प्रीये त्वयाऽहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम् ॥ १.१४८.७६ ॥

婆罗门啊,在英勇的大德之人中,这并不奇怪。我因你而欢喜,希望从你那里得到长久的情谊。

1.148.77

एवमुक्तः स तं द्रोणो मोक्षयामास भारत ।
सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् ॥ १.१४८.७७ ॥

婆罗多啊,被这样说后,德罗纳释放了他。他以欢喜之心敬重他,把王国的一半归还给他。

1.148.78

माकन्दीमथ गङ्गायास्तीरे जनपदायुताम् ।
सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम् ॥ १.१४८.७८ ॥

此后,他在恒河岸边、人口众多的摩干第城中,心情沮丧地居住;也住在最好的城市坎皮利亚。

1.148.79

दक्षिणांश्चापि पञ्चालान्यावच्चर्मण्वती नदी ।
द्रोणेन चैवं द्रुपदः परिभूयाथ पालितः ॥ १.१४८.७९ ॥

直到遮摩婆底河的南般遮罗,也由德律波陀统治,他已被德罗那如此羞辱。

1.148.80

क्षात्रेण च बलेनास्य नापश्यत्स पराजयम् ।
हीनं विदित्वा चात्मानं ब्राह्मेण स बलेनतु ॥ १.१४८.८० ॥

他以刹帝利之力未见自己的失败;然而知道自己在婆罗门之力上低劣,他……

1.148.81

पुत्रजन्म परीप्सन्वै पृथिवीमन्वसंचरत् ।
अहिच्छत्रं च विषयं द्रोणः समभिपद्यत ॥ १.१४८.८१ ॥

他渴望生子,遍游大地;德罗那到达了阿希ccha特拉之地。

1.148.82

एवं राजन्नहिच्छत्रा पुरीजनपदायुता ।
युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता ॥ १.१४८.८२ ॥

如此,大王,阿希查特拉城及其领地被普利塔之子在战斗中征服,并交给了德罗那。