摩诃婆罗多 · 章 1.15
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.15.1
मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर ।
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः ॥ १.१५.१ ॥
梵之知者中最上者啊!往昔诸蛇被其母诅咒:在阇那密阁耶的祭祀中,以风为御者的火将焚烧你们。
1.15.2
तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः ।
स्वसारमृषये तस्मै सुव्रताय महात्मने ॥ १.१५.२ ॥
为平息那诅咒,诸蛇中最上者将其妹妹嫁给了那位持守善誓、伟大心灵的仙人。
1.15.3
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा ।
आस्तीको नाम पुत्रश्च तस्यां जज्ञे महामनाः ॥ १.१५.३ ॥
他依照规定的仪轨接纳了她,从她那里诞生了名叫阿斯提迦的大心之子。
1.15.4
तपस्वी च महात्मा च वेदवेदाङ्गपारगः ।
समः सर्वस्य लोकस्य पितृमातृभयापहः ॥ १.१५.४ ॥
他是苦行者,伟大心灵,精通吠陀及其支分,对一切世界平等,能除去父母的恐惧。
1.15.5
अथ दीर्घस्य कालस्य पाण्डवेयो नराधिपः ।
आजहार महायज्ञं सर्पसत्रमिति श्रुतिः ॥ १.१५.५ ॥
此后经过很长时间,般度族后裔的人王举行了一场大祭祀,名为蛇祭。
1.15.6
तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै ।
मोचयामास ताञ्शापादास्तीकः सुमहातपाः ॥ १.१५.६ ॥
当那场蛇祭开始、诸蛇将被毁灭之时,极具苦行功德的阿斯提迦将它们从诅咒中解救出来。
1.15.7
भ्रातॄंश्च मातुलांश्चैव तथैवान्यान्स पन्नगान् ।
पितॄंश्च तारयामास संतत्या तपसा तथा ॥ १.१५.७ ॥
他也以子嗣与苦行度脱了兄弟、舅父、其他诸蛇以及祖先。
1.15.8
व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत् ।
देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः ॥ १.१५.८ ॥
婆罗门啊,他以种种誓愿与诵习吠陀而免于债务,并以种种布施的祭祀令诸神欢喜。
1.15.9
ऋषींश्च ब्रह्मचर्येम सन्तत्या च पितामहान् ।
अपहृत्य गुरं भारं पितॄणां संशितव्रतः ॥ १.१५.९ ॥
以梵行解脱诸仙,以子嗣解脱祖先;誓愿坚定者卸下了对祖灵的沉重债务。
1.15.10
जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः ।
आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः ॥ १.१५.१० ॥
誓戒坚定的仙人惹罗迦如与自己的祖先一同升天;他既得子名阿斯提迦,又获无上的达摩。
1.15.11
जरत्कारुः सुमहता कालेन स्वर्गमेयिवान् ।
एतदाख्यानमास्तीकं यथावत्कथितं मया।
प्रब्रूहि भृगुशार्दूल किमन्यत्कथयामि ते ॥ १.१५.११ ॥
惹罗迦如经过极长的时间升天。阿斯提迦的这段故事,我已如实讲述给你了。婆鲁古族的猛虎啊,请说,我还要为你讲什么?