Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.154

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.154.1

कणिकस्य मतं श्रुत्वा कार्त्स्न्येन भरतर्षभ ।
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः।
दुशासनचतुर्थास्ते मन्त्रयामासुरेकदा ॥ १.१५४.१ ॥

婆罗多族的雄牛啊,听完迦尼迦的全部意见后,难敌、迦尔纳与苏跋罗之子沙恭尼,连同难降为第四人,一次商议起来。

1.154.2

ते कौरव्यमनुज्ञाप्य धृतराष्ट्रं नराधिपम् ।
दहने तु सपुत्रायाः कुन्त्या बुद्धिमकारयन् ॥ १.१५४.२ ॥

他们取得了库鲁后裔、人王持国的同意,便谋划将贡提与她的儿子们一同焚烧。

1.154.3

तेषामिङ्गितभावज्ञो विदुरस्तत्त्वदर्शिवान् ।
आकारेण च तं मन्त्रं बुबुधे दुष्टचेतसाम् ॥ १.१५४.३ ॥

知晓他们举止含义、洞察真相的维杜罗,从他们的神态中便察觉了那些心怀恶念之人的密谋。

1.154.4

ततो विदितवेद्यात्मा पाण्डवानां हिते रतः ।
पलायने मतिं चक्रे कुन्त्याः पुत्रैः सहानघः ॥ १.१५४.४ ॥

于是,自知其心、致力于般度子嗣之福利的无罪维杜罗,决定与贡提之子们一同逃走。

1.154.5

ततो वातसहां नावं यन्त्रयुक्तां पताकिनीम् ।
ऊर्मिक्षमां दृढां कृत्वा कुन्तीमिदमुवाच ह ॥ १.१५४.५ ॥

随后,他命人建造了一艘坚固的船,能抵挡风浪,装有机关,饰以旗帜,然后对贡提说了这番话。

1.154.6

एष जातः कुलस्यास्य कीर्तिवंशप्रणाशनः ।
धृतराष्ट्रः परीतात्मा धर्मं त्यजति शाश्वतम् ॥ १.१५४.६ ॥

此人生于此族,将毁灭此家族的声名与世系。持国心志迷乱,正在抛弃永恒的法。

1.154.7

इयं वारिपथे युक्ता तरङ्गपवनक्षमा ।
नौर्यया मृत्युपाशात्त्वं सपुत्रा मोक्ष्यसे शुभे ॥ १.१५४.७ ॥

这只船适于水路,能经受波浪与风,已经备好。乘此船,吉祥的人啊,你将与你的儿子们一同脱离死亡的绳索。

1.154.8

तच्छ्रुत्वा व्यथिता कुन्ती पुत्रैः सह यशस्विनी ।
नावमारुह्य गङ्गायां प्रययौ भरतर्षभ ॥ १.१५४.८ ॥

孔蒂听后忧伤,她这位著名的女子与儿子们一同登上船,沿恒河而去,婆罗多族中的雄牛啊。

1.154.9

ततो विदुरवाक्येन नावं विक्षिप्य पाण्डवाः ।
धनं चादाय तैर्दत्तमरिष्टं प्राविशन्वनम् ॥ १.१५४.९ ॥

于是依据维杜罗的话,般度子孙弃了船,取了人家给的财物,进入了安全的森林。

1.154.10

निषादी पञ्चपुत्रा तु जातेषु तत्र वेश्मनि ।
कारणाभ्यागता दग्धा सह पुत्रैरनागसा ॥ १.१५४.१० ॥

当他们在那屋中焚烧时,一位有五个儿子的尼沙陀女人因某事来到那里,虽无罪过,却与儿子们一同被烧死。

1.154.11

स च म्लेच्छाधमः पापो दग्धस्तत्र पुरोचनः ।
वञ्चिताश्च दुरात्मानो धार्तराष्ट्राः सहानुगाः ॥ १.१५४.११ ॥

那卑劣的罪人、蛮夷中的最下者补罗遮那在那里被烧死;心术邪恶的持国之子与其随从也被欺骗了。

1.154.12

अविज्ञाता महात्मनो जनानामक्षतास्तथा ।
जनन्या सह कौन्तेया मुक्ता विदुरमन्त्रिताः ॥ १.१५४.१२ ॥

众人不识,诸位大德、安然无恙的孔蒂之子,依维杜罗的劝告,与母亲一同脱险。

1.154.13

ततस्तस्मिन्पुरे लोका नगरे वारणावते ।
दृष्ट्वा जतुगृहं दग्धमन्वशोचन्त दुःखिताः ॥ १.१५४.१३ ॥

于是伐罗那瓦塔城的人们见漆宫已被焚毁,悲痛地哀叹起来。

1.154.14

प्रेषयामासू राजानं यथावृत्तं निवेदितुम् ।
संवृतस्ते महान्कामः पाण्डवान्दग्धवानसि ॥ १.१५४.१४ ॥

他们派遣使者向国王报告所发生的事:“您的大愿已经实现,您烧死了般度之子。”

1.154.15

सकामो भव कौरव्य भुङ्क्ष्व राज्यं सपुत्रकः ।
तच्छ्रुत्वा धृतराष्ट्रस्तु सहपुत्रेण शोचयन् ॥ १.१५४.१५ ॥

“库鲁的后裔啊,您的愿望已经实现;与您的儿子们一同享受王国吧。”听到这些,持国与儿子一同哀叹起来。

1.154.16

प्रेतकार्याणि च तथा चकार सह बान्धवैः ।
पाण्डवानां तथा क्षत्ता भीष्मश्च कुरुसत्तमः ॥ १.१५४.१६ ॥

般度之子的丧葬仪式也与亲族一同照样举行;克沙塔(维杜罗)与库鲁之最的毗湿摩也同样照办。

1.154.17

पुनर्विस्तरशः श्रोतुमिच्छामि द्विजसत्तम ।
दाहं जतुगृहस्यैव पाण्डवानां च मोक्षणम् ॥ १.१५४.१७ ॥

婆罗门中最优秀的人啊,我希望再详细地听听漆宫的焚烧和般度之子的脱险。

1.154.18

सुनृशंसमिदं कर्म तेषां क्रूरोपसंहितम् ।
कीर्तयस्व यथावृत्तं परं कौतूहलं मम ॥ १.१५४.१८ ॥

他们这极其残忍、充满暴虐的行为——请照实叙述;我的好奇心非常强烈。

1.154.19

शृणु विस्तरशो राजन्वदतो मे परन्तप ।
दाहं जतुगृहस्यैतत्पाण्डवानां च मोक्षणम् ॥ १.१५४.१९ ॥

君王啊,敌人的折磨者,请听我详细道来:这是蜡宫的焚烧,以及般度之子们的脱险。

1.154.20

ततो दुर्योधनो राजा धृतराष्ट्रमभाषत ।
पाण्डवेभ्यो भयं नः स्यात्तान्विवासयतां भवान्।
निपुणेनाभ्युपायेन नगरं वारणावतम् ॥ १.१५४.२० ॥

于是,国王难敌对持国王说:“般度之子可能会给我们带来恐惧;请您用某种巧妙的计策,将他们流放到瓦拉纳瓦塔城。”

1.154.21

धृतराष्ट्रस्तु पुत्रेण श्रुत्वा वचनमीरितम् ।
मुहूर्तमिव संचिन्त्य दुर्योधनमथाब्रवीत् ॥ १.१५४.२१ ॥

然而持国王听了儿子所说的话,沉思片刻,然后对难敌说道。

1.154.22

धर्मनित्यः सदा पाण्डुस्तथा धर्मपरायणः ।
सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः ॥ १.१५४.२२ ॥

般度始终坚守法义,恪尽正道;对所有亲族,尤其是对我,他都怀有特别的深情。

1.154.23

नासौ किंचिद्विजानाति भोजनादिचिकीर्षितम् ।
निवेदयति नित्यं हि मम राज्यं धृतव्रतः ॥ १.१५४.२३ ॥

他恪守誓愿,对饮食等事宜所要做的,一概不知;他总是只向我报告我的国政。

1.154.24

तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः ।
गुणवान्लोकविख्यातः पौरवाणां सुसंमतः ॥ १.१५४.२४ ॥

他的儿子也像般度一样恪守法义;他德行兼备,名闻天下,在般度族中备受尊敬。

1.154.25

स कथं शक्यतेऽस्माभिरपाकर्तुं बलादितः ।
पितृपैतामाहाद्राज्यात्ससहायो विशेषतः ॥ १.१५४.२५ ॥

我们如何能以武力把他从这里、从父祖的王国中驱逐出去,尤其是连同他的同盟者?

1.154.26

भृता हि पाण्डुनाऽमात्या बलं च सततं भृतम् ।
भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः ॥ १.१५४.२६ ॥

的确,般度供养了大臣,军队也始终得到供养;他们的儿子和孙子也都得到供养,尤其是他们的。

1.154.27

ते पुरा सत्कृतास्तात पाण्डुना नागरा जनाः ।
कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् ॥ १.१५४.२७ ॥

亲爱的,那些曾受般度尊敬的城中百姓,为了坚战,为何不会杀害我们和我们的亲族呢?

1.154.28

एवमेतन्मया तात भावितं दोषमात्मनि ।
दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन पूजिताः ॥ १.१५४.२८ ॥

父亲,我也这样想过;我看见自己身上的这个过失,因为所有臣民都以财富和尊敬受到礼遇。

1.154.29

ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः ।
अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते ॥ १.१५४.२९ ॥

他们必定主要是我们的盟友;富人阶层连同大臣,今日都归附于我,大地之主啊。

1.154.30

स भवान्पाण्डवानाशु विवासयितुमर्हति ।
मृदुनैवाभ्युपायेन नगरं वारणावतम् ॥ १.१५४.३० ॥

您应当尽快以温和的方式,把般度五子流放到瓦纳瓦塔城。

1.154.31

यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति ।
तदा कुन्ती सहापत्या पुनरेष्यति भारत ॥ १.१५४.३१ ॥

大王啊,当王国由我确立之时,俱卢之母(贡蒂)将与她的儿子们一同归来,婆罗多啊。

1.154.32

दुर्योधन ममाप्येतद्धृदि संपरिवर्तते ।
अभिप्रायस्य पापत्वान्नैवं तु विवृणोम्यहम् ॥ १.१५४.३२ ॥

杜罗陀那啊,这件事也在我心中翻腾;但因这意图的罪恶,我不这样明说。

1.154.33

न च भीष्मो न च द्रोणो न च क्षत्ता न गौतमः ।
विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हिचित् ॥ १.१५४.३३ ॥

毗湿摩、德罗纳、刹埵(维杜罗)、乔達摩(克里帕)都绝不会同意驱逐贡蒂之子。

1.154.34

समा हि कौरवेयाणां वयं ते चैव पुत्रक ।
नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः ॥ १.१५४.३४ ॥

我儿,我们与他们同是俱卢族的子孙;具有法(达摩)且心胸高尚的人,不会希望不公。

1.154.35

ते वयं कौरवेयाणामेतेषां च महात्मनाम् ।
कथं न वध्यतां तात गच्छाम जगतस्तथा ॥ १.१५४.३५ ॥

我儿啊,我们俱卢族与这些高尚者,怎能不遭毁灭?如此,我们将以毁灭之身走向世间。

1.154.36

मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः ।
यतः पुत्रस्ततो द्रोणो भविता नात्र संशयः ॥ १.१५४.३६ ॥

毗湿摩始终保持中立,而德罗纳之子站在我这边;他对我如同儿子,因此德罗纳也必定与我们同在,此事毫无疑问。

1.154.37

कृपः शारद्वतश्चैव यत एतौ ततो भवेत् ।
द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित् ॥ १.१५४.३७ ॥

沙罗堕多之子憍利波,以及这二人所出之人,他决不会抛弃德罗纳与外甥。

1.154.38

क्षत्ताऽर्थबद्धस्त्वस्माकं प्रच्छन्नं संयतः परैः ।
न चैकः स समर्थोऽस्मान्पाम्डवार्थेऽधिबाधितुम् ॥ १.१५४.३८ ॥

管家维都罗因财物与我们相连,却被敌人暗中牵制;他一人不能为了般度之子而阻挡我们。

1.154.39

सुविस्रब्धः पाण्डुपुत्रान्सह मात्रा प्रवासय ।
वारणावतमद्यैव यथा यान्ति यथा कुरु ॥ १.१५४.३९ ॥

你要完全放心,让般度之子与他们的母亲一同流放;就在今天,让他们前往婆罗那瓦陀,无论如何去办。

1.154.40

विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम् ।
शोकपावकमुद्भूतं कर्मणैतेन नाशय ॥ १.१५४.४० ॥

那夺走睡眠、可怕的、如同刺入心中之箭的悲痛之火已经燃起——以此行为将其熄灭。