摩诃婆罗多 · 章 1.156
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.156.1
धृतराष्ट्रप्रयुक्तेषु पाण्डुपुत्रेषु भारत ।
दुर्योधनः परं हर्षमगच्छत्स दुरात्मवान् ॥ १.१५६.१ ॥
婆罗多啊,当持国王派遣般度之子之后,心术邪恶的难敌感到了极大的喜悦。
1.156.2
ततः सुबलपुत्रश्च कर्णदुर्योधनावपि ।
दहने सह पुत्रायाः कुन्त्या मतिमकुर्वत।
मन्त्रयित्वा स तैः सार्धं दुरात्मा धृतराष्ट्रजः ॥ १.१५६.२ ॥
于是,苏波罗之子(沙恭尼)与迦尔纳、难敌也谋划要连同贡提之子一同焚烧。与他们商议之后,恶心的持国之子便定下了此计。
1.156.3
स पुरोचनमेकान्तमानीय भरतर्षभ ।
गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत् ॥ १.१५६.३ ॥
婆罗多族中的雄杰啊,他将普罗遮那带到一旁,握住他的右手,对这位大臣说了这些话。
1.156.4
ममेयं वसुसंपूर्णा पुरोचन वसुन्धरा ।
यथैव भविता तात तथा त्वं द्रष्टुमर्हसि ॥ १.१५६.४ ॥
普罗遮那啊,这片充满财富的大地是我的。亲爱的朋友,你应当看到它将如何真正成为我的。
1.156.5
न हि मे कश्चिदन्योऽस्ति विश्वासिकतरस्त्वया ।
सहायो येन सन्धाय मन्त्रयेयं यथा त्वया ॥ १.१५६.५ ॥
对我来说,没有比你更可信的其他助手了,能够与他订立约定,并像与你一样商议。
1.156.6
संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर ।
निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु ॥ १.१५६.६ ॥
亲爱的朋友,守护我的秘密计划,清除我的敌人。用巧妙的方法,照我所说的去做。
1.156.7
पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् ।
उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् ॥ १.१५६.७ ॥
依持国王之命,般度五子已被派往婆罗那伐多;他们将在那里的一次节庆中游乐。
1.156.8
स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना ।
वारणावतमद्यैव यथा यासि तया कुरु ॥ १.१५६.८ ॥
你今天就乘坐由驴拉的快车前往婆罗那伐多,照你该走的方式去做。
1.156.9
तत्र गत्वा चतुःशालं गृहं परमसंवृतम् ।
नगरोपान्तमाश्रित्य कारयेथा महाधनम् ॥ १.१५६.९ ॥
到了那里,应在城郊建造一座四厅、戒备森严、价值巨大的房屋。
1.156.10
शणसर्जरसादीनि यानि द्रव्याणि कानिचित् ।
आग्नेयान्युत सन्तीह तानि तत्र प्रदापय ॥ १.१५६.१० ॥
麻、松脂等这里所有易燃之物,都要送到那里去。
1.156.11
बल्वजेन च संमिश्रं मधूच्छिष्टेन चैव हि ।
सर्पिस्तैलवसाभिश्च लाक्षया चाप्यनल्पया।
मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापय ॥ १.१५६.११ ॥
把泥土与巴尔瓦伽纤维、蜂蜡、酥油、油、脂肪及大量紫胶混合,然后让人把这灰泥涂在墙上。
1.156.12
शणं तैलं घृतं चैव जतु दारूणि चैव हि ।
तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः ॥ १.१५६.१२ ॥
麻、油、酥油、紫胶和木材,全部在那屋子四面堆放存放。
1.156.13
लाक्षाशममधूच्छिष्टवेष्टितानि मृदापि च ।
लेपयित्वा गुरूण्याशु दारुयन्त्राणि दापय ॥ १.१५६.१३ ॥
用紫胶、树脂、蜂蜜和蜡涂抹,并以泥土也涂上之后,迅速令人制作沉重的木制机械。
1.156.14
यथा च तन्न पश्येरन्परीक्षन्तोऽपि पाण्डवाः ।
आग्नेयमिति तत्कार्यमपि चान्येऽपि मानवाः ॥ १.१५६.१४ ॥
应当这样做,使般度之子即使检查也不看出,其他人也以为这是与火有关的事。
1.156.15
वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान् ।
वासयेथाः पाण्डवेयान्कुन्तीं च ससुहृज्जनाम् ॥ १.१५६.१५ ॥
在那屋里如此安排之后,让备受尊崇的般度之子和贡蒂及其亲属住在那里。
1.156.16
आसनानि च दिव्यानि यानानि शयनानि न ।
निघातव्यानि पाण्डूनां यथा तुष्येच्च मे पिता ॥ १.१५६.१६ ॥
应为般度之子安置华美的座位、车辆和床榻,使我的父亲欢喜。
1.156.17
यथा च तन्न जानन्ति नगरे वारणावते ।
यथा रमेरन्विस्रब्धा नगरे वारणावते।
तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः ॥ १.१५६.१७ ॥
使瓦腊纳瓦塔城的人不知此事,使他们安心地在瓦腊纳瓦塔城中欢乐,应如此安排一切,直到时间过去。
1.156.18
ज्ञात्वा च तान्सुविश्वस्ताञ्शयानानकुतोभयान् ।
अग्निस्त्वया ततो देयो द्वारतस्तस्य वेश्मनः ॥ १.१५६.१८ ॥
当你得知他们安睡、十分信任而无所畏惧时,就应从那屋子的门口放火。
1.156.19
दग्धानेवं स्वके गेहे दाहिताः पाण्डवा इति ।
न गर्हयेयुरस्मान्वै पाण्डवार्थाय कर्हिचित् ॥ १.१५६.१९ ॥
他们以为般度之子就这样在自己的屋中被焚,便不会为了般度之子而指责我们。
1.156.20
स तथेति प्रतिज्ञाय कौरवाय पुरोचनः ।
प्रायाद्रासभयुक्तेन स्यन्दनेनाशुगामिना ॥ १.१५६.२० ॥
布罗遮那说“就这样吧”,向俱卢之子许下诺言,然后乘坐一辆由驴拉动的快车出发了。
1.156.21
स गत्वा त्वरितं राजन्दुर्योधनमते स्थितः ।
यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः ॥ १.१५६.२१ ॥
大王啊,他迅速前往,遵从难敌的意愿留在那里,布罗遮那按照王子所说的做了一切。
1.156.22
तेषां तु पाण्डवेयानां गृहं रौद्रमकल्पयत् ॥ १.१५६.२२ ॥
他为那些般度之子建造了一座可怕的房屋。