Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.16

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.16.1

सौते त्वं कथयस्वेमां विस्तरेण कथां पुनः ।
आस्तीकस्य कवेःसाधोः शुश्रूषा परमा हिनः ॥ १.१६.१ ॥

苏提啊,请你再详细讲述这个故事。聆听智者、诗人、善人阿斯提卡的事迹,是我们最大的心愿。

1.16.2

मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया ।
प्रीयामहे भृशं तात पितेवेदं प्रभाषसे ॥ १.१६.२ ॥

温和的人啊,你说话甜美,字句柔和。亲爱的,你说话像父亲一样,我们非常欣喜。

1.16.3

अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव ।
आचष्टैतद्यथाऽऽक्यानं पिता तेत्वं तथा वद ॥ १.१६.३ ॥

你的父亲始终专心服侍我们。正如你的父亲讲述了这段故事,你也请如此讲述。

1.16.4

आयुष्मन्निदमाख्यानमास्तीकं कथयामि ते ।
यथाश्रुतं कथयतः सकाशाद्वै पितुर्मया ॥ १.१६.४ ॥

长寿的人啊,我把阿斯提卡的这段故事讲给你听,正如我从父亲口中所听到的那样。

1.16.5

पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे ।
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघ ॥ १.१६.५ ॥

婆罗门啊,往昔神之时代,生主有两个吉祥的女儿,她们是两姐妹,容貌奇妙,无有瑕疵。

1.16.6

ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह ।
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः ॥ १.१६.६ ॥

她们是迦叶波的两位妻子,卡德鲁与毗那塔。与生主相等的丈夫欣喜,赐予她们二人一个恩惠。

1.16.7

कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः ।
वरातिसर्गं श्रुत्वैवं कश्यपादुत्तमं च ते ॥ १.१६.७ ॥

迦叶波与他的两位正妻一同满怀至高的喜悦。听闻恩赐已经给予,二人便从迦叶波那里得到了那份殊胜的恩赐。

1.16.8

हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ ।
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यवर्चसः ॥ १.१६.८ ॥

得到恩赐的那两位女子,因喜悦而获得了无比的欢欣。迦德卢选择了同样光辉的一千个蛇子。

1.16.9

द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले ।
तेजसा वपुषा चैव विक्रमेणाधिकौ च तौ ॥ १.१६.९ ॥

毗娜塔选择了两个在力量上胜过迦德卢之子的儿子,他们在光辉、身形与勇武上也更为殊胜。

1.16.10

तस्यै भर्ता वरं प्रादादीदृसौ ते भविष्यतः ।
एवमस्त्विति तं चाह कश्यपं विनता तदा ॥ १.१६.१० ॥

她的丈夫给了她这样的恩赐:你将生下这样的儿子。于是毗娜塔对迦叶波说:“就这样吧。”

1.16.11

यथावत्प्रार्थितं लब्ध्वा वरं तुष्टाभवत्तदा ।
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ ॥ १.१६.११ ॥

按照所求获得了恩赐,她当时便心满意足;毗娜塔达成了心愿,获得了两个在勇力上殊胜的儿子。

1.16.12

कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यवर्चसाम् ।
धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः ॥ १.१६.१२ ॥

迦德卢也获得了一千个同样光辉的儿子,心满意足。那位大苦行者说:“请小心地怀护这些胚胎。”……

1.16.13

ते भार्ये वरसंतुष्टे कश्यपो वनमाविशत् ।
कालेन महता कद्रूरण्डानां दशतीर्दश ॥ १.१६.१३ ॥

迦叶留下两位因恩赐而满足的妻子,进入森林。经过很长时间,迦德鲁生下了一千颗卵。

1.16.14

जनयामास विप्रेन्द्र द्वे चाण्डे विनता तदा ।
तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः ॥ १.१६.१४ ॥

婆罗门中的最优者啊,那时毗那达生下了两颗卵。欢喜的侍女们将它们放置好。

1.16.15

सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च ।
ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः ॥ १.१६.१५ ॥

它们在温暖的瓮中放置了五百年。然后五百年过去,迦德鲁的儿子们破壳而出。

1.16.16

अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत ।
ततः पुत्रार्थिनी देवी व्रीडिता च तपस्विनी ॥ १.१६.१६ ॥

然而毗那达的卵中没有出现一对。于是这位渴望儿子、感到羞愧的苦行女神……

1.16.17

अण्डं बिभेद विनता तत्र पुत्रमपश्यत ।
पूर्वार्धकायसंपन्नमितरेणाप्रकाशता ॥ १.१६.१७ ॥

毗那达打破一枚卵,看见里面有一个儿子,上半身已经完成,另一部分仍未显现。

1.16.18

स पुत्रः क्रोधसंरब्धः शशापैनामिति श्रुतिः ।
योऽहमेवं कृतो मातस्त्वया लोभपरीतया ॥ १.१६.१८ ॥

据说那儿子怒火中烧,诅咒她道:'母亲啊,你被贪欲所控,才使我变成这样。'

1.16.19

शरीरेणासमग्रेण तस्माद्दासी भविष्यसि ।
पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह ॥ १.१६.१९ ॥

你将以残缺之身,成为与你争胜者的奴婢,长达五百年。

1.16.20

एष च त्वां सुतो मातर्दासीत्वान्मोचयिष्यति ।
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् ॥ १.१६.२० ॥

母亲啊,你的这个儿子将把你从奴役中解救出来;若你也像在卵壳破裂时对待我那样对待他……

1.16.21

न करिष्यस्यनङ्गं वा व्यङ्गं वापि तपस्विनम् ।
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया ॥ १.१६.२१ ॥

你不可使他残缺或有缺陷;你应当耐心等待他出生的时候。

1.16.22

विशिष्टं बलमीप्सन्त्या पञ्चवर्षशतात्परः ।
एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः ॥ १.१६.२२ ॥

你渴望更强的力量,五百年后方得解脱。他如此诅咒之后,那位在天空中飞行的儿子对毗娜达说道。

1.16.23

अरुणोऽदृश्यत ब्रह्मन्प्रभातसमये तदा ।
उद्यन्नथ सहस्रांशुर्दृष्ट्वा तमरुणं प्रभुः ॥ १.१६.२३ ॥

婆罗门啊,那时黎明时分,阿鲁那显现了。随后升起的千光之主看见了那位阿鲁那。

1.16.24

स्वतेजसा प्रज्वलन्तमात्मनः समतेजसम् ।
सारथ्ये कल्पयामास प्रीयमाणस्तमोनुदः ॥ १.१६.२४ ॥

他以自身光辉闪耀,光芒与自己相等。驱散黑暗者心中欢喜,便任命他为自己的御者。

1.16.25

सोऽपि तं रथमारुह्य भानोरमिततेजसः ।
सर्वलोकप्रदीपस्य ह्यमरोऽप्यरुणोऽभवत् ॥ १.१६.२५ ॥

他也登上那辆车,成为无量光明、照耀一切世界之明灯的太阳的御者;他虽为不死者,却成为了阿盧那。

1.16.26

गरुडोऽपि यथाकालं जज्ञे पन्नगभोजनः ।
स जातमात्रो विनतां परित्यज्य खमाविशत् ॥ १.१६.२६ ॥

迦楼罗也按时出生,是以蛇为食者;刚一出生,他便离开毗那达,飞入天空。

1.16.27

आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत् ।
विधात्रा भृगुशार्दूल क्षुधितः पतगेश्वरः ॥ १.१६.२७ ॥

婆利固中的猛虎啊!那飞鸟之主,饥饿地准备取用造物主为他所规定的食物……