摩诃婆罗多 · 章 1.162
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.162.1
अथ रात्र्यां व्यतीतायामशेषो नागरो जनः ।
तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् ॥ १.१६२.१ ॥
夜过之后,全城的百姓急忙赶到那里,想要见到般度的儿子们。
1.162.2
निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः ।
जातुषं तद्गृहं दग्धममात्यं च पुरोचनम् ॥ १.१६२.२ ॥
那些人正在灭火,随后看见漆宫已被烧毁,大臣布罗遮那也被烧死了。
1.162.3
नूनं दुर्योधनेनेदं विहितं पापकर्मणा ।
पाण्डवानां विनाशायेत्येवं ते चुक्रुशुर्जनाः ॥ १.१६२.३ ॥
「这必定是作恶的难敌为毁灭般度五子而设下的毒计。」那些百姓这样哀号。
1.162.4
विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः ।
दग्धवान्पाण्डुदायादान्न ह्येतत्प्रतिषिद्धवान् ॥ १.१६२.४ ॥
毫无疑问,在持国王知情的情况下,持国之子烧死了般度的继承人,他也没有加以禁止。
1.162.5
नूनं शान्तनवोऽपीह न धर्मनुवर्तते ।
द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः ॥ १.१६२.५ ॥
此处的确连商陀之子(毗湿摩)也不遵循法;德罗纳、毗杜罗、克里帕以及其他俱卢人也都不遵循。
1.162.6
नावेक्षन्ते ह तं धर्मं धर्मात्मानोऽप्यहो विधेः ।
श्रुतवन्तोऽपि विद्वांसो धनवद्वशगा अहो ॥ १.१६२.६ ॥
唉,由于命运,即便是心地正直的人也不顾那法;唉,即便是博学的智者也被财富所左右了。
1.162.7
साधूननाथान्धर्मिष्ठात्सत्यव्रतपरायणान् ।
नावेक्षन्ते महान्तोऽपि दैवं तेषां परायणम् ॥ १.१६२.७ ॥
即使是伟人也不顾及那些善良、无依无靠、守法、专心于真实誓言的人;他们的依靠只有命运。
1.162.8
ते वयं धृतराष्ट्राय प्रेषयामो दुरात्मने ।
संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि ॥ १.१६२.८ ॥
我们向那心怀恶意的持国王传达此信:你的最高愿望已经实现,你烧死了般度五子。
1.162.9
ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम् ।
निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम् ॥ १.१६२.९ ॥
然后,他们拨开为般度五子点燃的火,看见尼沙陀女人与她的五个儿子被烧死,她是无辜的。
1.162.10
इतः पश्यत कुन्तीयं दग्धा शेते तपस्विनी ।
पुत्रैः सहैव वार्ष्णेयी हन्तेत्याहुः स्म नागराः ॥ १.१६२.१० ॥
“看这里!贡蒂被烧死躺在这里;这位来自月氏(Vṛṣṇi)族的苦行女与她的儿子们一同躺着。唉!”城中百姓这样说。
1.162.11
खनकेन तु तेनैव वेश्म शोधयता बिलम् ।
पांसुभिः पिहितं तच्च पुरुषैस्तैर्न लक्षितम् ॥ १.१६२.११ ॥
正是那个一边清理房屋的挖掘者挖了地道;地道被尘土掩盖,那些人没有察觉。
1.162.12
ततस्ते प्रेषयामासुर्धृतराष्ट्राय नागराः ।
पाण्डवानग्निना दग्धानमात्यं च पुरोचनम् ॥ १.१६२.१२ ॥
于是城中百姓向持国王报告:“般度五子被火烧死,大臣补罗遮那也一同烧死了。”
1.162.13
श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम् ।
विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः ॥ १.१६२.१३ ॥
般度之子遭受毁灭的这一极为不幸的消息传来,国王持国深感悲痛,哀声叹息。
1.162.14
अन्तर्हृष्टमनाश्चासौ बहिर्दुःखसमन्वितः ।
अन्तःशीतो बहिश्चोष्णो ग्रीष्मेऽगाधह्वदोयथा ॥ १.१६२.१४ ॥
他内心暗喜,外表却满怀悲伤,内里清凉,外表燥热,如同夏日的深湖。
1.162.15
अद्य पाण्डुर्मृतो राजा मम भ्राता महायशाः ।
तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः ॥ १.१६२.१५ ॥
今日我的兄弟、大名鼎鼎的般度王去世了;那些英雄,尤其是与他们的母亲一同,都被焚毁了。
1.162.16
गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम् ।
सत्कारयन्तु तान्वीरान्कुन्तीं राजसुतां च ताम् ॥ १.१६२.१६ ॥
愿人们迅速前往婆罗那伐多城,礼敬那些英雄,以及国王之女贡提。
1.162.17
ये च तत्र मृतास्तेषां सुहृदः सन्ति तानपि ।
कारयन्तु च कुल्यानि शुभ्राणि च बृहन्ति च ॥ १.१६२.१७ ॥
也请召集那些在那里死去者的友人,举行纯净而隆重的家族礼仪。
1.162.18
मम दग्धा महात्मानः कुलवंशविवर्धनाः ॥ १.१६२.१८ ॥
我那些高尚的儿子们,他们曾使家族血脉繁盛,如今都已焚毁。
1.162.19
एवं गते मया शक्यं यद्यत्कारयितुं हितम् ।
पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः ॥ १.१६२.१९ ॥
既已如此,凡我所能为般度之子与贡蒂谋利之事,都应以财富来完成。
1.162.20
समेताश्च ततः सर्वे भीष्मेण सह कौरवाः ।
धृतराष्ट्रः सपुत्रश्च गङ्गामभिमुखा ययुः ॥ १.१६२.२० ॥
随后,所有俱卢族人与毗湿摩一同聚集,持国王与诸子便朝恒河而去。
1.162.21
एकवस्त्रा निरानन्दा निराभरणवेष्टनः ।
उदकं कर्तुकामा वै पाण्डवानां महात्मनाम् ॥ १.१६२.२१ ॥
身着单衣,毫无喜色,不戴饰物与头巾,他们想要为伟大的般度之子们举行奉水之礼。
1.162.22
एवं गत्वा ततश्चक्रे ज्ञातिभिः परिवारितः ।
उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः ॥ १.१६२.२२ ॥
如此前往之后,被亲属环绕的安比卡之子持国王为般度之子们举行了奉水之礼。
1.162.23
रुरुदुः सहिताः सर्वे भृशं शोकपरायणाः ।
हा युधिष्ठिर कौरव्य हा भीम इति चापरे ॥ १.१६२.२३ ॥
众人沉浸于悲痛之中,一同大哭;另有人喊道:“啊,坚战!俱卢之后!啊,怖军!”
1.162.24
हा फल्गुनेति चाप्यन्ये हा यमाविति चापरे ।
कुन्तीमार्ताश्च शोचन्त उदकं चक्रिरे जनाः ॥ १.१६२.२४ ॥
有人哭喊:“啊,法尔古那!”,另有人喊:“啊,双生子!”;为贡蒂之苦所困扰的众人一边哀叹,一边举行了奉水之礼。
1.162.25
अन्ये पौरजनाश्चैवमन्वशोचन्त पाण्डवान् ।
विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः ॥ १.१६२.२५ ॥
其他城中百姓也同样为般度之子悲叹;但维都罗只稍感悲伤,因为他知晓至上真理。
1.162.26
विदुरो धृतराष्ट्रस्य जानन्सर्वं मनोगतम् ।
तेनायं विधिना सृष्टः कुटिलः कपटाशयः ॥ १.१६२.२६ ॥
维都罗知道持国王心中的一切,明白此人正是由这样的命运被造就为狡曲、怀有欺诈之心。
1.162.27
इत्येवं चिन्तयन्राजन्विदुरो विदुषां वरः ।
लोकानां दर्शयन्दुःखं दुःखितैः सह बान्धवैः ॥ १.१६२.२७ ॥
大王,维都罗乃智者中最优秀者,如此思量,与悲伤的亲属一同向众人显示自己的悲痛。
1.162.28
मनसाऽचिन्तयत्पार्थान्कियद्दूरं गता इति ।
सहिताः पाण्डवाः पुत्रा इति चिन्तापरोऽभवत् ॥ १.१६२.२८ ॥
他心中想道:“普利塔之子们走出了多远?般度之子们都在一起。”于是他陷入了忧虑之中。
1.162.29
ततः प्रव्यथितो भीष्मः पाण्डुराजसुतान्मृतान् ।
सह मात्रेति तच्छ्रुत्वा विललाप रुरोद च ॥ १.१६२.२९ ॥
于是,毗湿摩深感痛苦,听闻般度王之子与其母一同死去,便哀叹哭泣起来。
1.162.30
हा युधिष्ठिर हा भीम हा धनञ्जय हा यमौ ।
हा पृथे सह पुत्रैस्त्वमेकरात्रेण स्वर्गता ॥ १.१६२.३० ॥
唉,坚战!唉,怖军!唉,财施!唉,双子!唉,普利塔!你与诸子在同一夜之间升上了天界!
1.162.31
मात्रा सह कुमारास्ते सर्वे तत्रैव संस्थिताः ।
न हि तौ नोत्सहेयातां भीमसेनधनञ्जयौ ॥ १.१६२.३१ ॥
你的所有儿子与母亲一同都躺在那里。毗摩森那和达难闍耶必定无法忍受这一切。
1.162.32
तरसा वेगितात्मानौ निर्भेत्तुमपि मन्दरम् ।
परासुत्वं न पश्यामि पृथायाः सह पाण्डवैः ॥ १.१६२.३२ ॥
那两位心志迅疾者,甚至能劈开曼达罗山。我看不出普利塔与般度诸子会一同死亡。
1.162.33
सर्वथा विकृतं तत्तु यदि ते निधनं गताः ।
धर्मराजः स निर्दिष्टो ननु विप्रैर्युधिष्ठिरः ॥ १.१६२.३३ ॥
若他们真的死去,那便是彻底的颠倒。法王坚战是由婆罗门们所指定的。
1.162.34
पृथिव्यां च रथिश्रेष्ठो भविता स धनञ्जयः ।
सत्यव्रतो धर्मदत्तः सत्यवाक्छुभलक्षणः ॥ १.१६२.३४ ॥
在大地上,那达难闍耶将成为最优秀的战车武士,持守真实誓愿,为法所赐,言语真实,具足吉相。
1.162.35
कथं कालवशं प्राप्तः पाण्डवेयो युधिष्ठिरः ।
आत्मानमुपमां कृत्वा परेषां वर्तते तु यः ॥ १.१६२.३५ ॥
般度之子坚战,待人如待己,怎么会落入时间的掌控之中?
1.162.36
मात्रा सहैव कौरव्यः कथं कालवशं गतः ।
पालितः सुचिरं कालं फलकाले यथा द्रुमः ॥ १.१६२.३६ ॥
这位俱卢后裔与母亲一同怎会落入时间的掌控?就像长久养护的树木,在结果之时倒下。
1.162.37
भग्नः स्याद्वायुवेगेन तथा राजा युधिष्ठिरः ।
यौवराज्येऽभिषिक्तेन पितुर्येनाहृतं यशः ॥ १.१६२.३७ ॥
如同被风暴折断的树木,国王坚战也必定已被摧毁;他曾在太子之位受灌顶,为父亲赢得荣耀。
1.162.38
आत्मनश्च पितुश्चैव सत्यधर्मप्रवृत्तिभिः ।
यच्च सा वनवासेन तन्माता दुःखभागिनी ॥ १.१६२.३८ ॥
因她自己与其父坚持真理与法的行为,也因林中流放,那位母亲便成了承受苦难的人。
1.162.39
कालेन सह संमग्नो धिक्कृतान्तमनर्थकम् ।
यच्च सा वनवासेन तन्माता दुःखभागिनी ॥ १.१६२.३९ ॥
与时间一同沉没;可耻啊,那无益的死亡!因林中流放,那位母亲成了承受苦难的人。
1.162.40
पुत्रगृध्नुतया कुन्ती न भर्तारं मृतात्वनु ।
अल्पकालं कुले जाता भर्तुः प्रीतिमवाप या ॥ १.१६२.४० ॥
因渴望子嗣,贡蒂没有随已故的丈夫殉死;她虽在此族中短暂停留,却获得了丈夫的爱。
1.162.41
दग्धाऽद्य सह पुत्रैः सा असंपूर्णमनोरा ।
मृतो भीम इति श्रुत्वा मनो न श्रद्दधाति मे ॥ १.१६२.४१ ॥
今日她与儿子们一同被焚,心愿未遂。听说毗摩已死,我的心却不相信。
1.162.42
एतच्च चिन्तयानस्य व्यथितं बहुधा मनः ।
अवधूय च मे देहं हृदयेन विदीर्यते ॥ १.१६२.४२ ॥
我思念此事,心多方烦乱;身体颤抖,心如被撕裂。
1.162.43
पीनस्कन्धश्चारुबाहुर्मेरुकूटसमो युवा ।
मृतो भीम इति श्रुत्वा मनो न श्रद्दधाति मे ॥ १.१६२.४३ ॥
肩膀宽阔、手臂俊美、如须弥山峰的青年毘摩死了——听到此言,我的心却不相信。
1.162.44
अतित्यागी च योधी च क्षिप्रहस्तो दृढायुधः ।
प्रपत्तिमाँल्लब्धलक्षो रथयानविशारदः ॥ १.१६२.४४ ॥
极其慷慨且是战士,手法敏捷,执兵坚定,意志坚决,命中准确,善于驾驭战车。
1.162.45
दूरपाती त्वसंभ्रान्तो महावीर्यो महास्त्रवान् ।
अदीनात्मा नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥ १.१६२.४५ ॥
箭射得远且从容不迫,威力巨大,拥有强大的神兵,心志无畏,是人中之最,是所有弓手中的第一。
1.162.46
येन प्राच्याश्च सौवीरा दाक्षिणात्याश्च निर्जिताः ।
ख्यापितं येन शूरेण त्रिषु लोकेषु पौरुषम् ॥ १.१६२.४६ ॥
由他征服了东方诸国、苏毗罗人和南方诸国,这位英雄使其勇武之名传遍三界。
1.162.47
यस्मिञ्जाते विशोकाऽभूत्कुन्ती पाण्डुश्च वीर्यवान् ।
पुरन्दरसमो जिष्णुः कथं कालवशं गतः ॥ १.१६२.४७ ॥
他出生时,贡蒂与威力强大的般度得以免于忧伤,如今那位与因陀罗相等的胜者,怎会落入时间的支配?
1.162.48
कथं तावृषभष्कन्धौ सिंहविक्रान्तगामिनौ ।
मर्त्यधर्ममनुप्राप्तौ यमावरिनिवर्हणौ ॥ १.१६२.४८ ॥
那两位肩如公牛、步如狮子、能摧毁敌人的孪生兄弟,怎会落入凡人之法(死亡)?
1.162.49
वत्सा गताः क्व मां वृद्धं विहाय भृशमातुरम् ।
हा स्नुषे मम वार्ष्णेयि निधाय हृदि मे शुचम् ॥ १.१६२.४९ ॥
孩儿们啊,你们离开我这个极度痛苦的老人去了哪里?哎,媳妇,婆里世妮,把悲伤留在了我心中。
1.162.50
वारणावतयात्रायां के स्युर्वै शकुनाः पथि ।
एवमल्पायुषो लोके भविष्यन्ति पृथासुताः ॥ १.१६२.५० ॥
前往婆罗纳瓦塔的旅途中,路上有哪些征兆?这样,普利塔的儿子们在世上将会寿命短促吗?
1.162.51
संशप्ता इति कैर्यूयं वत्सान्दर्शय मे पृथे ।
ममैव नाथा मन्नाथा मम नेत्राणि पाण्डवाः ॥ १.१६२.५१ ॥
“你们被谁诅咒了?”哦,普利塔,把我的儿子们给我看看!我的依靠,以我为依靠的人,我的眼睛,哦,般度之子们!
1.162.52
हा पाण्डवा मे हे वत्सा हा सिंहशिशवो मम ।
मातङ्गा हा ममोत्तुङ्गा हा ममानन्दवर्धनाः ॥ १.१६२.५२ ॥
哎,般度之子们,我的孩儿们!哎,我的狮子幼崽们!哎,我的象群!哎,我的高贵者们!哎,增添我欢乐的人们!
1.162.53
मम हीनस्य युष्माभिः सर्वलोकास्तमोवृताः ।
कदा द्रष्टाऽस्मि कौन्तेयांस्तरुणादित्यवर्चसः ॥ १.१६२.५३ ॥
对我这失去你们的人来说,一切世界都被黑暗笼罩。我何时才能见到如初升太阳般光辉的昆提之子们?
1.162.54
अदृष्ट्वा वो महाबाहून्पुत्रवन्मम नन्दनाः ।
क्व गतिर्मे क्व गच्छामि कुतो द्रक्ष्यामि मे शिशून् ॥ १.१६२.५४ ॥
我见不到你们这些大臂者,我的欢乐,如同我的儿子们,我的归宿在何处?我该去哪里?我从何处能见到我的孩子们?
1.162.55
हा युधिष्ठिर हा भीम हा हा फल्गुन हा यमौ ।
मा गच्छत निवर्तध्वं मयि कोपं विमुञ्चत ॥ १.१६२.५५ ॥
哎呀,坚战!哎呀,怖军!哎呀哎呀,阿周那!哎呀,双生子!莫去,回来吧,别再对我发怒。
1.162.56
श्रुत्वा तत्क्रन्दितं तस्य तिलोदं च प्रसिञ्चतः ।
देशं कालं समाज्ञाय विदुरः प्रत्यभाषत ॥ १.१६२.५६ ॥
听到他的哀号,见他洒下掺有芝麻的水,明白了此地与此时,维杜罗便回答道。
1.162.57
मा शोचीस्त्वं नरव्याघ्र जहि शोकं महाधृते ।
न तेषां विद्यते मृत्युः प्राप्तकालं कृतं मया ॥ १.१६२.५७ ॥
人中之虎啊,莫要悲伤;大坚定者啊,舍弃忧愁吧。他们不会死去;此事是我在恰当的时候所做。
1.162.58
एतच्च तेभ्य उदकं विप्रसिञ्च न भारत ।
क्षत्तेदमब्रवीद्भीष्मं कौरवाणामशृण्वताम् ॥ १.१६२.५८ ॥
婆罗多啊,不要为他们洒下这水。维杜罗在俱卢子孙听闻之时,对毗湿摩说了这番话。
1.162.59
क्षत्तारमुपसंगम्य बाष्पोत्पीडकलस्वरः ।
मन्दंमन्दमुवाचेदं विदुरं संगमे नृप ॥ १.१६२.५९ ॥
国王啊,他哽咽着声音,慢慢走近维杜罗,在相会处对维杜罗说了这些话。
1.162.60
कथं ते तात जीवन्ति पाण्डोः पुत्रा महाबलाः ।
कथमस्मत्कृते पक्षः पाण्डोर्न हि निपातितः ॥ १.१६२.६० ॥
孩子,般度那强大的儿子们怎么还活着?为何因我们之故,般度一方竟未被击倒?
1.162.61
कथं मत्प्रमुखाः सर्वे प्रमुक्ता महतो भयात् ।
जननी गरुडेनेव कुरवस्ते समुद्धृताः ॥ १.१६२.६१ ॥
我为首的所有俱卢人,如何从那大难中脱身?你们被救起,正如迦楼罗救起其母。
1.162.62
एवमुक्तस्तु कौरव्य कौरवाणामशृण्वताम् ।
आचचक्षे स धर्मात्मा भीष्मायाद्भुतकर्मणे ॥ १.१६२.६२ ॥
如此被问之后,啊,俱卢后裔,在俱卢族人聆听之际,那位心存正法的人对行奇迹之业的毗湿摩说道。
1.162.63
धृतराष्ट्रस्य शकुने राज्ञो दुर्योधनस्य च ।
विनाशे पाण्डुपुत्राणां कृतो मतिविनिश्चयः ॥ १.१६२.६३ ॥
关于毁灭般度之子,持国王与国王难敌已经坚定了决心。
1.162.64
तत्राहमपि च ज्ञात्वा तस्य पापस्य निश्चयम् ।
तं जिघांसुरहं चापि तेषामनुमते स्थितः ॥ १.१६२.६४ ॥
我在那里也知道那恶人的坚定意图,虽然想杀他,却在他们的同意下留了下来。
1.162.65
ततो जतुगृहं गत्वा दहनेऽस्मिन्नियोजिते ।
पृथायाश्च सपुत्राया धार्तराष्ट्रस्य शासनात् ॥ १.१६२.६५ ॥
随后,前往漆宫,当此火被点燃时,依持国之子的命令,针对普利塔及其诸子。
1.162.66
ततः खनकमाहूय सुरङ्गं वै बिलं तदा ।
सुगूढं कारयित्वा ते कुन्त्या पाण्डुसुतास्तदा ॥ १.१६२.६६ ॥
随后,召来挖掘者,秘密挖出一条地道,般度之子与贡蒂便由此逃出。
1.162.67
निष्क्रामिता मया पूर्वं मा स्म शोके मनः कृथाः ।
ततस्तु नावमारोप्य सहपुत्रां पृथामहम् ॥ १.१६२.६७ ॥
我先前已将他们送出。不要让心沉溺于悲伤。随后我把普利塔与其子一同扶上小船,亲自将他们带走。
1.162.68
दत्त्वाऽभयं सपुत्रायै कुन्त्यै गृहमदाहयम् ।
तस्मात्ते मा स्म भूद्दुःखं मुक्ताः पापात्तु पाण्डवाः ॥ १.१६२.६८ ॥
我向有子的贡蒂许下庇护,于是下令焚烧了那座房子。因此你不必悲伤;般度之子已从那罪恶中解脱。
1.162.69
निर्गताः पाण्डवा राजन्मात्रा सह परन्तपाः ।
अग्निहादान्महाघोरान्मया तस्मादुपायतः ॥ १.१६२.६९ ॥
陛下,般度之子与母亲一同,这些敌人的灼烧者,借我设计的办法,从那可怕的大火中脱身而出。
1.162.70
मा स्म शोकमिमं कार्षीर्जीवन्त्येव च पाण्डवाः ।
प्रच्छन्ना विचिरिष्यन्ति यावत्कालस्य पर्ययः ॥ १.१६२.७० ॥
不要为此悲伤;般度之子确实还活着。他们将隐匿行走,直到时间之轮完成一个周期。
1.162.71
तस्मिन्युधिष्ठिरं काले द्रक्ष्यन्ति भुवि मानवाः ।
विमलं कृष्णपक्षान्ते जगच्चन्द्रमिवोदितम् ॥ १.१६२.७१ ॥
到那时,大地上的人们将看见坚战,犹如黑半月末升起的清澈明月。
1.162.72
न तस्य नाशं पश्यामि यस्य भ्राता धनञ्जयः ।
भीमसेनश्च दुर्धर्षौ माद्रीपुत्रौ च तौ यमौ ॥ १.१६२.७२ ॥
我看不到那样的人会毁灭:他的兄弟是财富征服者,还有不可战胜的怖军,以及摩德利的那对孪生之子。
1.162.73
ततः संहृष्टसर्वाङ्गो भीष्मो विदुरमब्रवीत् ।
दिष्ट्यादिष्ट्येति संहृष्टः पूजयानो महामतिम् ॥ १.१६२.७३ ॥
于是毗湿摩全身因欢喜而颤动,对维杜罗说:「幸甚,幸甚!」一面欢喜地赞美这位大智者。
1.162.74
युक्तं चैवानुरूपं च कृतं तात शुभं त्वया ।
वयं विमोक्षिता दुःखात्पाण्डुपक्षो न नाशितः ॥ १.१६२.७४ ॥
「亲爱的,你所做的既合宜又恰当,且甚吉祥。我们已从苦难中解脱,般度一方并未被消灭。」
1.162.75
एवमुक्त्वा विवेशाथ पुरं जनशताकुलम् ।
कुरुभिः सहितो राजन्नागरैश्च पितामहः ॥ १.१६२.७५ ॥
说完这话,大王,祖父毗湿摩与俱卢族人和城中居民一道,进入了这座挤满了成百上千人的城市。
1.162.76
अथाम्बिकेयः सामात्यः सकर्णः सहसौबलः ।
सात्मजः पार्थनाशस्य स्मरंस्तथ्यं जर्ष च ॥ १.१६२.७६ ॥
于是安比迦之子与大臣们、迦尔纳、苏跋罗之子沙恭尼以及他的儿子一同,想起了普利塔之子被毁灭的真实之事,心中欢喜。
1.162.77
भीष्मश्च राजन्दुर्धर्षो विदुरश्च महामतिः ।
जहृषाते स्मरन्तौ तौ जातुषाग्नेर्विमोचनम् ॥ १.१६२.७७ ॥
大王,不可战胜的毗湿摩与大智的维杜罗二人,回想起从蜡宫大火中获救之事,都欢喜不已。
1.162.78
सत्यशीलगुणाचारै रागैर्जानपदोद्भवैः ।
द्रोणादयश्च धर्मैस्तु तेषां तान्मोचितान्विदुः ॥ १.१६२.७८ ॥
凭借他们诚实的品行、德行与操守,凭借本地民众的爱戴,凭借德罗纳等人的法度,他们知道那些(般度五子)已被解救。
1.162.79
शौर्यलावण्यमाहात्म्यै रूपैः प्राणबलैरपि ।
स्वस्थान्पार्थानमन्यन्त पौरजानपदास्तथा ॥ १.१६२.७९ ॥
城中与乡间的百姓也因其勇武、风度、威严、容貌与生命之力,而认为普利塔之子安然无恙。
1.162.80
अन्ये जनाः प्राकृताश्च स्त्रियश्च बहुलास्तदा ।
शङ्कमाना वदन्ति स्म दग्धा जीवन्ति वा न वा ॥ १.१६२.८० ॥
当时其他普通百姓和许多妇女心存疑虑,说道:“他们是被烧死了,还是还活着,还是没有?”