Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.164

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.164.1

तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः ।
अविदूरे वनात्तस्माच्छालवृक्षं समाश्रितः ॥ १.१६४.१ ॥

当他们在那里睡着时,一个名叫希迪姆巴的罗刹,就在离那片森林不远处,依靠着一棵娑罗树。

1.164.2

क्रूरो मानुषमांसादो महावीर्यपराक्रमः ।
प्रावृड्जलधरश्यामः पिङ्गाक्षो दारुणाकृतिः ॥ १.१६४.२ ॥

他残忍,以人肉为食,有着巨大的力量与勇武;像雨季的乌云一样黝黑,黄色的眼睛,形貌可怕。

1.164.3

दष्ट्राकरालवदनः करालो भीमदर्शनः ।
लम्बस्फिग्लम्बजठरो रक्तश्मश्रुशिरोरुहः ॥ १.१६४.३ ॥

面孔因獠牙而狰狞可怖,形象凶恶,见之令人恐惧;臀部与肚腹下垂,胡须与头发皆为红色。

1.164.4

महावृक्षगलस्कन्धः शङ्कर्णो विभीषणः ।
यदृच्छया तानपश्यत्पाण्डुपुत्रान्महारथान् ॥ १.१६४.४ ॥

脖颈与双肩如大树,耳朵如螺壳,令人畏惧;他偶然看见了般度的那些大车战士之子。

1.164.5

विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः ।
पिशितेप्सुः क्षुधार्तश्च जिघ्रन्गन्धं यदृच्छया ॥ १.१६४.५ ॥

形貌丑陋,黄眼,狰狞可怖;渴望血肉,被饥饿折磨,偶然嗅到了那股气味。

1.164.6

ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान् ।
जृम्भमाणो महावक्त्रः पुनःपुनरवेक्ष्य च ॥ १.१६४.६ ॥

他竖起手指搔抓,抖动头上粗硬的头发,张开大口打哈欠,一次又一次地望着他们。

1.164.7

हृष्टो मानुषमांसस्य महाकायो महाबलः ।
आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत् ॥ १.१६४.७ ॥

他以人肉为乐,身躯庞大,力量强盛,嗅到人的气味后,对他的妹妹说了这番话。

1.164.8

उपपन्नं चिरस्याद्य भक्ष्यं मम मनःप्रियम् ।
जिघ्रतः प्रस्रुता स्नेहाज्जिह्वा पर्येति मे मुखात् ॥ १.१६४.८ ॥

时隔许久,今天我得到了合我心意的食物;一闻到它,我的舌头便因渴望而从口中伸出。

1.164.9

अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः ।
देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च ॥ १.१६४.९ ॥

我那八颗尖端极利的獠牙,久未用过,一经刺入便难以忍受;我要把它们深深刺进柔软的身体和血肉之中。

1.164.10

आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि ।
उष्णं नवं प्रपास्यामि फेनलिं रुधिरं बहु ॥ १.१६४.१० ॥

我将扼住那人的咽喉,也割断他的动脉,痛饮大量温热、新鲜、带着泡沫的血。

1.164.11

गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः ।
मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे ॥ १.१६४.११ ॥

去查明这些在森林中寻求庇护而睡卧的人是谁;人的强烈气味仿佛让我的鼻子得到满足。

1.164.12

हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम् ।
अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते ॥ १.१६४.१२ ॥

把这些人全部杀掉,带到我面前来;在我们的领地上酣睡的这些人,你没有什么可怕的。

1.164.13

एषामुत्कृत्य मांसानि मानुषाणां यथेष्टतः ।
भक्षयिष्याव सहितौ कुरु पूर्णं वचो मम ॥ १.१६४.१३ ॥

我们两人将切下这些人的肉,想吃多少就吃多少。请完全照我的话去做。

1.164.14

भक्षयित्वा च मांसानि मानुषाणां प्रकामतः ।
नृत्याव सहितावावां दत्ततालावनेकशः ॥ १.१६४.१४ ॥

我们两人饱食人肉之后,将一同跳舞,多次拍掌击节。

1.164.15

एवमुक्ता हिडिम्बा तु हिडिम्बेन महावने ।
भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी ॥ १.१६४.१५ ॥

大森林中,希丁巴如此吩咐之后,罗刹女希丁芭领会了哥哥的话,急忙动身而去。

1.164.16

आप्लुत्याप्लुत्य च तरूनगच्छत्पाण्डवान्प्रति ।
जगाम तत्र यत्र स्म शेरते पाण्डवा वने ॥ १.१६४.१६ ॥

她一棵树接一棵树地跳跃,向般度之子们走去,到达了般度五子在林中睡觉的地方。

1.164.17

ददर्श तत्र सा गत्वा पाण्डवान्पृथया सह ।
शयानान्भीमसेनं च जाग्रतं त्वपराजितम् ॥ १.१६४.१७ ॥

她到了那里,看见般度五子与普利塔一同沉睡,也看见不败的毗摩塞那醒着。

1.164.18

उपास्यमानान्भीमेन रूपयौवनशालिनः ।
सुकुमारांश्च पार्थान्सा व्यायामेन च कर्शितान् ॥ १.१६४.१८ ॥

她看见普利塔之子们,柔美而具有容貌与青春,由毗摩照料,又因操练而疲惫。

1.164.19

दुःखेन संप्रयुक्तांश्च सहज्येष्ठान्प्रमाथिनः ।
रौद्री सती राजपुत्रं दर्शनीयप्रदर्शनम् ॥ १.१६४.१९ ॥

与因悲痛而受折磨的长兄们在一起的那位王子,external外貌可观,凶猛的罗刹女看见了他。

1.164.20

दृष्ट्वैव भीमसेनं सा सालस्कन्धमिवोद्यतम् ।
राक्षसी कामयामास रूपेणाप्रतिमं भुवि ॥ १.१६४.२० ॥

罗刹女一见到肩膀如娑罗树干般挺拔的毗摩娑那,便爱慕上了这位在世间容貌无双的人。

1.164.21

अन्तर्गतेन मनसा चिन्तयामास राक्षसी ।
अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः ॥ १.१६४.२१ ॥

罗刹女在心中思忖道:“此人肤色黝黑,臂膀雄壮,肩如狮子,光辉极盛。”

1.164.22

कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम ।
नाहं भ्रातृवचो जातु कुर्यां क्रूरमसांप्रतम् ॥ १.१६४.२२ ॥

此人颈如海螺,目如莲花,正适合做我的夫君。哥哥的话,我绝不会以残忍而不当的方式去执行。

1.164.23

पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम् ।
मुहूर्तमिव तृप्तिश्च भवेद्धातुर्ममैव च ॥ १.१६४.२३ ॥

对丈夫的爱远比对兄长的情谊强烈。我的满足,以及那个养育者的满足,也只会如同片刻。

1.164.24

हतैरेतैरहत्वा तु मोदिष्ये शाश्वतीः समाः ।
निश्चित्येत्थं हिडिम्बा सा भीमं दृष्ट्वा महाभुजं ॥ १.१६४.२४ ॥

“若不杀他们,我如何能永久欢喜?”罗刹女这样决定后,凝视着大臂的毗摩。

1.164.25

उत्सृज्य राक्षसं रूपं मानुषं रूपमास्थिता ।
सा कामरूपिणी रूपं कृत्वा मदनमोहिता ॥ १.१६४.२५ ॥

她舍弃罗刹的形体,化为人形;这位能随意变化形体的女子,被欲望迷惑,变成了美丽的模样。

1.164.26

उपतस्थे महात्मानं भीमसेनमनिन्दिता ।
इङ्गिताकारकुशला सोपासर्पच्छनैः शनैः ॥ १.१६४.२६ ॥

这位无可指摘的女子走近伟大的Bhīmasena;她精通暗示与姿态,缓缓地、缓缓地靠近了他。

1.164.27

विनम्यमानेव लता दिव्याभरणभूषिता ।
शनैः शनैश्च तां भीमः समीपमुपसर्पतीम् ॥ १.१६४.२७ ॥

她如同弯曲的藤蔓,身着天界的饰物,缓缓走来;而怖军看着她缓缓地走近自己。

1.164.28

हर्षमाणां तदा पश्यत्तन्वीं पीनपयोधराम् ।
चन्द्राननां पद्मनेत्रां नीलकुञ्चितमूर्धजाम् ॥ १.१६४.२८ ॥

那时他看见她满心欢喜:腰肢纤细,胸脯丰满,面如明月,眼如莲花,黑色的卷发。

1.164.29

कृष्णां सुपाण्डुरैर्दन्तैर्बिम्बोष्ठीं चारुदर्शनाम् ।
दृष्ट्वा तां रूपसंपन्नां भीमो विस्मयमागतः ॥ १.१६४.२९ ॥

她肤色微黑,牙齿洁白,唇如红果,容貌可爱。怖军见到这位容貌出众的女子,不禁惊叹。

1.164.30

उपचारगुणैर्युक्तां ललितैर्हाससंमितैः ।
समीपमुपसंप्राप्य भीमं साथ वरानता ॥ १.१६४.३० ॥

她具备礼仪的种种美德,满面优雅的笑容。她走近前来,那位出众的女子轻盈地俯身行礼,站在怖军面前。

1.164.31

वचो वचनवेलायां भीमं प्रोवाच भामिनी ।
लज्जया नम्यमानेव सर्वाभरणभूषिता ॥ १.१६४.३१ ॥

在将要说话之时,这位美丽的女子对毗摩说道,仿佛因羞怯而低首,身上佩戴着全部饰物。

1.164.32

स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत् ।
कुतस्त्वमसि संप्राप्तः कश्चासि पुरुषर्षभ ॥ १.१६४.३२ ॥

她先微笑,然后对婆罗西那说道:“人中之牛,你从何处而来?你是谁?”

1.164.33

क इमे शेरते चेह पुरुषा देवरूपिणः ।
केयं वै बृहती श्यामा सुकुमारी तवानघ ॥ १.१६४.३३ ॥

这些躺在此处、具有神相的人是谁?无瑕者啊,你的这位高挑、黑皮肤、娇嫩的女子又是谁?

1.164.34

शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा ।
नेदं जानीथ गहनं वनं राक्षससेवितम् ॥ १.१६४.३४ ॥

她来到此林,便如在自家一般安心入睡。你们不知道这片茂密的森林是罗刹所居之地。

1.164.35

वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः ॥ १.१६४.३५ ॥

此处住着一位心存恶念、名为希丁巴的罗刹。

1.164.36

तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा ।
बिभक्षयिषता मांसं युष्माकममरोपमाः ॥ १.१६४.३६ ॥

我是被那心怀恶意的罗刹兄长派来的,他想吃你们这些如神之人的肉。

1.164.37

साऽहं त्वमभिसंप्रेक्ष्य देवगर्भसमप्रभम् ।
नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते ॥ १.१६४.३७ ॥

我看到你光彩如神子,便不愿再求别的丈夫;这是我对你说的实话。

1.164.38

एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर ।
कामोपहतचित्तां हि भजमानां भजस्व माम् ॥ १.१६४.३८ ॥

知晓此事,精通法者啊,请对我行合宜之事;我心为欲所迷,前来依附你,请接纳我。

1.164.39

त्रास्यामि त्वां महाबाहो राक्षसात्पुरुषादकात् ।
वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ ॥ १.१६४.३९ ॥

大臂者啊,我将从那食人罗刹手中保护你;我们将住在山中堡垒里。无瑕者啊,请做我的丈夫。

1.164.40

इच्छामि वीर भद्रं ते मा मे प्राणान्विहासिषः ।
त्वया ह्यहं परित्यक्ता न जीवेयमरिन्दम ॥ १.१६४.४० ॥

英雄啊,愿你安好;请不要舍弃我的生命。降伏敌人者啊,若被你抛弃,我便不能活下去。

1.164.41

अन्तरिक्षचरी ह्यस्मि कामतो विचरामि च ।
अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह ॥ १.१६४.४१ ॥

我能在空中飞行,随意游历;与我同行,到处都能获得无比的喜悦。

1.164.42

एष ज्येष्ठो मम भ्राता मान्यः परमको गुरुः ।
अनिविष्टो हि तन्नाहं परिविद्यां कथंचन ॥ १.१६४.४२ ॥

这是我的长兄,值得尊敬,是至高的师长;在他成婚之前,我绝不会娶亲。

1.164.43

मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानपि ।
परित्यजेत कोन्वद्य प्रभवन्निह राक्षसि ॥ १.१६४.४३ ॥

母亲、长兄、幼弟以及其他人——罗刹女啊,有能力的人今日谁会抛弃他们?

1.164.44

को हि सुप्तानिमान्भ्रातॄन्दत्त्वा राक्षसभोजनम् ।
मातरं च नरो गच्छेत्कामार्त इव मद्विधः ॥ १.१६४.४४ ॥

像我这样的人,若将这些熟睡的兄弟和母亲献作罗刹的食物,岂会像被欲望折磨的人那样离去?

1.164.45

एकं त्वां मोक्षयिष्यामि सह मात्रा परन्तप ।
सोदरानुत्सृजैनांस्त्वमारोह जघनं मम ॥ १.१६४.४५ ॥

啊,灼烧敌人的人,我只会与你的母亲一同放你离开;抛下这些兄弟,爬上我的膝上吧。

1.164.46

नाहं जीवितुमाशंसे भ्रातॄनुत्सृज्य राक्षसि ।
यथाश्रद्धं व्रजैका हि विप्रियं मे प्रभाषसे ॥ १.१६४.४६ ॥

罗刹女啊,我不愿舍弃兄弟而求生。你随意独自离去吧,你对我说的都是不悦耳的话。

1.164.47

यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय ।
मोक्षयिष्याम्यहं कामं राक्षसात्पुरुषादकात् ॥ १.१६४.४७ ॥

你所珍爱的,我必定为你做到;把他们全都唤醒吧。我将按你的心意,把你从那吃人的罗刹手中解救出来。

1.164.48

सुखसुप्तान्वने भ्रातॄन्मातरं चैव राक्षसि ।
न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः ॥ १.१६४.४८ ॥

罗刹女啊,我不会因为恐惧而唤醒在林中安睡的兄弟和母亲——也不会因你那恶心的兄长而惧怕。

1.164.49

न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम् ।
न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने ॥ १.१६४.४९ ॥

胆怯的美目女子啊,罗刹不能承受我的威力,人类、乾闼婆、夜叉也不能。

1.164.50

गच्छ वा तिष्ठ वा भद्रे यद्वा पीच्छसि तत्कुरु ।
तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम् ॥ १.१६४.५० ॥

善良的女子啊,去或留,随你所愿;纤细的女子啊,把那个食人的兄长派来吧。