摩诃婆罗多 · 章 1.167
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.167.1
सा तानेवापतत्तूर्णं भगिनी तस्य रक्षसः ।
अब्रुवाणा हिडिम्बा तु राक्षसी पाण्डवान्प्रति ॥ १.१६७.१ ॥
那罗刹的妹妹迅速朝他们奔来,罗刹女希丁芭对般度五子说道。
1.167.2
अभिवाद्य ततः कुन्तीं धर्मराजं च पाण्डवम् ।
अभिपूज्य ततः सर्वान्भीमसेनमभाषत ॥ १.१६७.२ ॥
她先恭敬地向贡蒂、法王和般度之子致礼,又尊敬了所有人,然后对毗摩赛那说道。
1.167.3
अहं ते दर्शादेव मन्मथस्य वशं गता ।
क्रूरं भ्रातृवचो हित्वा सा त्वामेवानिरुन्धती ॥ १.१६७.३ ॥
一见到你,我便落入爱神的掌控;舍弃兄长残酷的话语,我已不受约束,只属于你。
1.167.4
राक्षसे रौद्रसङ्काशे तवापश्यं विचेष्टितम् ।
अहं शुश्रूषुरिच्छेयं तव गात्रं निषेवितुम् ॥ १.१६७.४ ॥
我曾见你以凶猛罗刹的模样施展身手;我愿侍奉你,照料你的身体。
1.167.5
स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् ।
हिडिम्बे व्रज पन्थानं त्वमिमं भ्रातृसेवितम् ॥ १.१६७.५ ॥
罗刹记得仇怨,并借助迷惑人的幻术。希丁芭啊,你走这条你兄长走过的路吧。
1.167.6
क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः ।
शरीरगुप्त्यभ्यधिकं धर्मं गोपाय पाण्डव ॥ १.१६७.६ ॥
毗摩啊,人中之虎,即使愤怒,也不要杀死女人。般度之子啊,守护法比保护身体更重要。
1.167.7
वधाभिप्रायमायान्तमवधीस्त्वं महाबलम् ।
रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति ॥ १.१६७.७ ॥
你杀了那位怀着杀意前来的大力者。他的妹妹愤怒之下会对我们做什么呢?
1.167.8
हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः ।
युधिष्ठिरं तु कौन्तेयमिदं वचनमब्रवीत् ॥ १.१६७.८ ॥
于是希迪芭向贡蒂行礼,合掌,对贡蒂之子坚战说了这些话。
1.167.9
आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम् ।
तदिदं मामनुप्राप्तं भीमसेनकृते शुभे ॥ १.१६७.९ ॥
尊贵的夫人,你知道女子因欲望而生的痛苦。吉祥的人啊,为了毗摩修那,这痛苦如今降临到了我身上。
1.167.10
सोढं तत्परमं दुःखं मया कालप्रतीक्षया ।
सोऽयमभ्यागतः कालो भविता मे सुखोदयः ॥ १.१६७.१० ॥
我等待时机,忍受了那极大的痛苦。那时机如今已到,它将成为我幸福的开端。
1.167.11
मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा ।
वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे ॥ १.१६७.११ ॥
吉祥的人啊,我舍弃了朋友、自己的本分和亲族,选择了这位人中的虎;他是你的儿子,也是我的丈夫。
1.167.12
वीरेणाऽहं तथाऽनेन त्वया चापि यशस्विनी ।
प्रत्याख्याता न जीवामि सत्यमेतद्ब्रवीमि ते ॥ १.१६७.१२ ॥
若我这位有名望的女子被这位英雄和你拒绝,我将不再活下去;这是我对你说的真话。
1.167.13
यदर्हसि कृपां कर्तुं मयि त्वं वरवर्णिनि ।
मत्वा मूढेति तन्मां त्वं भक्ता वाऽनुगतेति वा ॥ १.१६७.१३ ॥
美丽的女子啊,你应当怜悯我,无论你认为我是愚人、虔诚者还是顺从者。
1.167.14
भर्त्राऽनेन महाभागे संयोजय सुतेन ह ।
समुपादाय गच्छेयं यथेष्टं देवरूपिणम्।
पुनश्चैवानयिष्यामि विस्रम्भं कुरु मे शुभे ॥ १.१६७.१४ ॥
伟大幸运的女子啊,请让这个儿子与你的丈夫团聚。我会随意带走这位神形之人,然后,吉祥的女子啊,我会再把他带回来;请信任我。
1.167.15
अहं हि समये लप्स्ये प्राग्भ्रातुरपर्वजनात् ।
ततः सोऽभ्यपतद्रात्रौ भीमसेनजिघांसया ॥ १.१६७.१५ ॥
我会在适当的时候,先于哥哥,得到他们。于是他在夜里扑向他,想要杀死婆罗门,即毗摩那(Bhīmasena)。
1.167.16
यथायथा विक्रमते यथारिमधितिष्ठति ।
तथातथा समासाद्य पाण्डवं काममोहिता ॥ १.१६७.१६ ॥
正如他勇猛前进、迎击敌人,她也因欲望而迷惑,靠近了般度之子。
1.167.17
न यातुधान्यहं त्वार्ये न चास्मि रजनीचरी ।
ईशा रक्षस्स्वसा ह्यस्मि राज्ञि सालकटङ्कटी ॥ १.१६७.१७ ॥
高贵的女士啊,我不是夜叉女,也不是夜间游荡之人。王后啊,我是罗刹的妹妹伊莎,名为萨拉卡坦卡蒂。
1.167.18
पुत्रेण तव संयुक्ता युवतिर्देववर्णिनी ।
सर्वान्वोऽहमुपस्थास्ये पुरस्कृत्य वृकोदरम् ॥ १.१६७.१८ ॥
我与你的儿子结合,身为有神一般容貌的年轻女子,我将以狼腹(Vṛkodara)为先,侍奉你们所有人。
1.167.19
अप्रमत्ता प्रमत्तेषु शुश्रूषुरसकृत्त्वहम् ।
वृजिने तारयिष्यामि दासीवच्च नरर्षभाः ॥ १.१६७.१९ ॥
在疏忽者之中,我将保持警觉,像婢女一样反复侍奉你们,帮你们脱离困境,人中之牛啊。
1.167.20
पृष्ठेन वो वहिष्यामि विमानं सुकृतानिव ।
यूयं प्रसादं कुरुत भीमसेनो भजेत माम् ॥ १.१६७.२० ॥
我将把你们背在背上,如同善人的天车。愿你们施恩,愿怖军接纳我。
1.167.21
एवं ब्रुवन्ती ह तथा प्रत्याख्याता क्रियां प्रति ।
भूम्यां दुष्कृतिनो लोकान्गमिष्येऽहं न संशयः ॥ १.१६७.२१ ॥
她如此说着,在欢好之事上被拒绝后说道:'毫无疑问,我将前往大地上作恶者的世界。'
1.167.22
अहं हि मनसा ध्यात्वा सर्वं वेत्स्यामि सर्वदा ।
आपन्निस्तरणे प्राणान्धारयिष्ये न केनचित् ॥ १.१६७.२२ ॥
我以心默思,将永远知晓一切;度过危难时,我将保全自己的性命,不让任何人夺去。
1.167.23
सर्वमावृत्य कर्तव्यं धर्मं समनुपश्यता ।
आपत्सु यो धारयति स वै धर्मविदुत्तमः ॥ १.१६७.२३ ॥
若能顾念法义、统筹一切而履行当行之事,并在困厄中持守法,他便是知法者中最卓越的人。
1.167.24
व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते ।
पुम्यात्प्राणान्धारयति पुण्यं वै प्राणधारणम् ॥ १.१६७.२४ ॥
对于义人而言,灾难本身被称为法的考验;凭借功德得以存活,而保全性命本身就是功德。
1.167.25
येन केनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते ।
महतोऽत्र स्त्रियं कामाद्वाधितां त्राहि मामपि ॥ १.१६७.२५ ॥
无论以何种方式奉行法,其中都无可非议。伟大者啊,请救救这位被欲望所困扰的女子,也救救我。
1.167.26
धर्मार्थकाममोक्षेषु दयां कुर्वन्ति साधवः ।
तत्तु धर्ममिति प्राहुर्मुनयो धर्मवत्सलाः ॥ १.१६७.२६ ॥
在法、利、欲、解脱之中,善人施以慈悲;这便是法,热爱法的仙人们如此说。
1.167.27
दिव्यज्ञानेन जानामि व्यतीतानागतानहम् ।
तस्माद्वक्ष्यामि वः श्रेय आसन्नं सर उत्तमम् ॥ १.१६७.२७ ॥
我以天眼之智知晓过去与未来,因此我要告诉你们有益之事:近处的一片殊胜湖泊。
1.167.28
अद्यासाद्य सरः स्नात्वा विश्रम्य च वनस्पतौ ।
श्वः प्रभाते महद्भूतं प्रादुर्भूतं जगत्पतिम् ॥ १.१६७.२८ ॥
今日到达湖边,沐浴后在树下休息;明日黎明,伟大的存在、世界之主将会显现。
1.167.29
व्यासं कमलपत्राक्षं दृष्ट्वा शोकं विहास्यथ ।
धार्तराष्ट्राद्विवासं च दहनं वारणावते ॥ १.१६७.२९ ॥
见到莲花眼的毗耶娑,你们将舍弃悲伤;(你们也会想起)因持国之子而遭的流放,以及在婆罗那伐多的焚烧。
1.167.30
त्राणं च विदुरात्तुभ्यं विदितं ज्ञानचक्षुषा ।
आवासे शालिहोत्रस्य स वो वासं विधास्यति ॥ १.१६७.३० ॥
我以智慧之眼得知,你们将从毗杜罗得到庇护;在沙利霍特罗的住所中,他会为你们安排住处。
1.167.31
वर्षवातातपसहो ह्ययं पुण्यो वनस्पतिः ।
पीतमात्रे तु पानीये क्षुत्पिपासे विनश्यतः ॥ १.१६७.३१ ॥
这棵神圣的树能承受雨、风和日晒;一旦饮用了水,饥渴便会消失。
1.167.32
तपसा शालिहोत्रेण सरो वृक्षश्च निर्मितः ।
कादम्बाः सारसा हंसाः कुरर्यः कुररैः सह ॥ १.१६७.३२ ॥
舍利霍特罗凭苦行之力造出一池与一棵树;卡丹巴鸭、萨拉萨鹤、天鹅和鹗,与鹗一同栖息于此。
1.167.33
रुवन्ति मधुरं गीतं गान्धर्वस्वनमिश्रितम् ।
तस्यास्तद्वचनं श्रुत्वा कुन्ती वचनमब्रवीत् ॥ १.१६७.३३ ॥
它们唱着与乾闼婆之音交织的甜美歌曲。听到她的话后,贡蒂说了这番话。
1.167.34
युधिष्ठिरं महाप्राज्ञं सर्वधर्मविशारदम् ।
त्वं हि धर्मभृतां श्रेष्ठो मयोक्तं शृणु भारत ॥ १.१६७.३४ ॥
尤提希提拉啊,你大智慧,精通一切达摩,是持守达摩者中最优秀的。婆罗多之子,请听我所说。
1.167.35
राक्षस्येषा हि वाक्येन धर्मं वदति साधु वै ।
भावेन दुष्टा भीमं वै किं करिष्यति राक्षसी ॥ १.१६७.३५ ॥
这个罗刹女言语中讲说达摩颇为妥当,然而心意邪恶。这罗刹女能对毗摩做什么呢?
1.167.36
भजतां पाण्डवं वीरमपत्यार्थं यदीच्छसि ।
एवमेतद्यथाऽऽत्थ त्वं हिडिम्बे नात्र संशयः ॥ १.१६७.३६ ॥
若你想要子嗣,就去侍奉这位英勇的般度子毗摩。希丁芭啊,正如你所说,此事毫无疑问。
1.167.37
स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे ।
नित्यं कृताह्निका स्नाता कृतशौचा सुरूपिणी ॥ १.१६७.३७ ॥
美腰的女子啊,你应当如我所说,安住于法:常行日课,沐浴,清净,容貌端庄。
1.167.38
स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् ।
भीमसेनं भजेथास्त्वमुदिते वै दिवाकरे ॥ १.१६७.३८ ॥
吉祥的女子啊,沐浴后,完成日课,佩戴吉祥的饰物,太阳升起时,你应侍奉毗摩色那。
1.167.39
अहस्सु विहरानेन यथाकामं मनोजवा ।
अयं त्वानयितव्यस्ते भीमसेनः सदा निशि ॥ १.१६७.३९ ॥
意念般迅捷的女子啊,白天你可随意与他同游;这位毗摩色那,夜里将永远被带到你身边。
1.167.40
प्राक्सन्ध्यातो विमोक्तव्यो रक्षितव्यश्च नित्यशः ।
एवं रमस्व भीमेन यावद्गर्भस्य वेदनम् ॥ १.१६७.४० ॥
黄昏之前应放他离去,且应时时守护。如此与毗摩同乐,直到胎儿分娩的阵痛来临。
1.167.41
एष ते समयो भद्रे शुश्रूषा चाप्रमत्तया ।
नित्यानुकूलया भूत्वा कर्तव्यं शोभनं त्वया ॥ १.१६७.४१ ॥
吉祥的女子啊,这是你的条件:以不懈的侍奉,常常顺从,你应当做好该做的事。