摩诃婆罗多 · 章 1.169
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.169.1
गते भगवति व्यासे पाण्डवा विगतज्वराः ।
ऊषुस्तत्र च षण्मासान्वटवृक्षे यथासुखम् ॥ १.१६९.१ ॥
尊者毗耶娑离去之后,已无忧愁的般度五子在那棵榕树下安然居住了六个月。
1.169.2
शाकमूलफलाहारास्तपः कुर्वन्ति पाण्डवाः ।
अनुज्ञाता महाराज ततः कमलपालिका ॥ १.१६९.२ ॥
般度五子以菜蔬、根茎和果实为食,修行苦行。大王啊,此后,得到允许的莲花守护女(来到那里)。
1.169.3
रमयन्ती सदा भीमं तत्रतत्र मनोजवा ।
दिव्याभरणवस्त्रा हि दिव्यस्रगनुलेपना ॥ १.१६९.३ ॥
她快如意念,总是在各处使毗摩欢娱;身披天界的饰物与衣裳,佩戴天界的花鬘,涂抹天界的香膏。
1.169.4
एवं भ्रातॄन्सप्त मासान्हिडिम्बाऽवासयद्वने ।
पाण्डवान्भीमसेनार्थे राक्षसी कामरूपिणी ॥ १.१६९.४ ॥
如此,能随意变化形相的罗刹女希迪姆巴,为了毗摩森那,使般度五子及其兄弟在森林中居住了七个月。
1.169.5
सुखं स विहरन्भीमस्तत्कालं पर्यणामयत् ।
ततोऽलभत सा गर्भं राक्षसी कामरूपिणी ॥ १.१६९.५ ॥
毗摩快乐地度过了那段时光;此后,能随意变化形相的罗刹女有了身孕。
1.169.6
अतृप्ता भीमसेनेन सप्तमासोपसंगता ।
प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलात् ॥ १.१६९.६ ॥
罗刹女对毗摩森那仍未满足,满七个月后,从大力的毗摩森那生下了一子。
1.169.7
विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् ।
भीमरूपं सुताम्राक्षं तीक्ष्णदंष्ट्रं महारथम् ॥ १.१६९.७ ॥
眼睛丑陋,口巨大,耳如尖桩,可怖,形貌骇人,双眼通红,獠牙锐利,大战车武士。
1.169.8
महेष्वासं महावीर्यं महासत्वं महाजवम् ।
महाकायं महाकालं महाग्रीवं महाभुजम् ॥ १.१६९.८ ॥
大弓箭手,大勇猛,大勇气,大速度,身躯巨大,大时(大黑天)之相,脖颈粗大,双臂强壮。
1.169.9
अमानुषं मानुषजं भीमवेगमरिन्दमम् ।
पिशाचकानतीत्यान्यान्बभूवाति स मानुषान् ॥ १.१६९.९ ॥
非人,却生于人;速度骇人,能降伏敌人。他超越了毕舍遮等诸物,也超过了人类。
1.169.10
बालोऽपि विक्रमं प्राप्तो मानुषेषु विशांपते ।
सर्वास्त्रेषु वरो वीरः प्रकाममभवद्बली ॥ १.१६९.१० ॥
王啊,他虽是孩童,却在人间获得了勇力;在一切兵器中为最优秀的英雄,随心所欲地变得强大。
1.169.11
सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च ।
कामरूपधराश्चैव भवन्ति बहुरूपिकाः ॥ १.१६९.११ ॥
罗刹女即刻受孕并分娩;她们能随意变化形貌,成为多形之者。
1.169.12
प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा ।
मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ॥ १.१६९.१२ ॥
于是毗迦查顶礼,抓住父亲的双脚;那位至上的弓箭手也抓住母亲的双脚。二人为他取了名字。
1.169.13
घटोहास्योत्कच इति माता तं प्रत्यभाषत ।
अभवत्तेन नामास्य घटोत्कच इति स्म ह ॥ १.१६९.१३ ॥
母亲对他说:“Ghaṭohāsya、Utkaca”,于是他的名字就叫作Ghaṭotkaca(迦托迦恰)。
1.169.14
अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः ।
तेषां च दयितो नित्यमात्मनित्यो बभूव ह ॥ १.१६९.१४ ॥
迦托迦恰深爱般度五子,始终为他们所珍爱,永远是他们的亲人。
1.169.15
घटोत्कचो महाकायः पाण्डवान्पृथया सह ।
अभिवाद्य यथान्यायमब्रवीच्च प्रभाष्य तान् ॥ १.१६९.१५ ॥
身躯庞大的迦托迦恰与普利塔一起,依礼向般度五子致敬,并与他们交谈后说道:
1.169.16
किं करोम्यहमार्याणां निःशङ्कं वदतानघाः ।
तं ब्रुवन्तं भैमसेनिं कुन्ती वचनमब्रवीत् ॥ १.१६९.१६ ॥
“无罪者啊,我为尊长该做什么?请毫不犹豫地说。”对说这话的毗摩之子,贡蒂说了这番话。
1.169.17
त्वं कुरूणां कुले जातः साक्षाद्भीमसमो ह्यसि ।
ज्येष्ठः पुत्रोसि पञ्चानां साहाय्यं कुरु पुत्रक ॥ १.१६९.१७ ॥
“你生于俱卢家族,实与毗摩相等。你是五子中的长子;孩子,请助他们一臂之力。”
1.169.18
पृथयाप्येवमुक्तस्तु प्रणम्यैव वचोऽब्रवीत् ।
यथा हि रावणो लोके इन्द्रजिच्च महाबलः।
वर्ष्मवीर्यसमो लोके विशिष्टश्चाभवं नृषु ॥ १.१६९.१८ ॥
普利塔如此说后,迦托迦恰行礼说道:“正如世上的罗波那与大力的因陀罗耆特在体力上相当,愿我也与他们相等,在人中成为卓越者。”
1.169.19
कृत्यकाल उपस्थास्ये पितॄनिति घटोत्कचः ।
आमन्त्र्य रक्षसां श्रेष्ठः प्रतस्थे चोत्तरां दिशम् ॥ १.१६९.१९ ॥
“我会在适当的时候侍奉祖先。”说罢,罗刹中的最优者迦陀迦阇告别,向北方启程。
1.169.20
स हि सृष्टो भगवता शक्तिहेतोर्महात्मना ।
वर्णस्याप्रतिवीर्यस्य प्रतियोद्धा महारथः ॥ १.१६९.२० ॥
他是伟大的世尊为了夏克提而创造的;他是能与无双勇力的伐那相抗的大战车武士。
1.169.21
सह वासो मया जीर्णस्त्वया कमलपालिके ।
पुनर्द्रक्ष्यसि राज्यस्थानित्यभाषत तां तदा ॥ १.१६९.२१ ॥
“你与我共同生活了很久,手持莲花花环的人啊!你将再见到住在王国中的我。”当时怖军对她这样说。
1.169.22
पदा मां संस्मरेः कान्त रिरंसू रहसि प्रभो ।
तदा तव वशं भूय आगन्तास्म्याशु भारत ॥ १.१६९.२२ ॥
“夫君,我的主啊!当你想在私下里欢娱时,请用脚来想起我;那时,婆罗多后裔啊,我很快就会再次归你所有。”
1.169.23
इत्युक्त्वा सा जगामाशु भावमासज्य पाण्डवे ।
हिडिम्बा समयं स्मृत्वा स्वां गतिं प्रत्यपद्यत ॥ १.१६९.२३ ॥
说完这些,她迅速离去;将爱意系于般度之子,记起约定,希迪姆巴走上了她自己的路。