Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 1.171

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

1.171.1

एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः ।
अत ऊर्ध्वं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः ॥ १.१७१.१ ॥

一輪城へ赴いた、クンティーの息子である大戦士たちは、ああ、バラモンの中の最良の者よ、その後パーンダヴァたちは何をしたのか。

1.171.2

एकचक्रां गतास्ते तु कन्तीपुत्रा महारथाः ।
ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने ॥ १.१७१.२ ॥

一輪城へ赴いた、クンティーの息子である大戦士たちは、バラモンの家に長くは留まらなかった。

1.171.3

रमणीयानि पश्यन्तो वनानि विविधानि च ।
पार्थिवानपि चोद्देशान्सरितश्च सरांसि च ॥ १.१७१.३ ॥

美しく多様な森、大地の各地、川や湖を眺めながら、彼らは進んだ。

1.171.4

चेरुर्भैश्रं तदा ते तु सर्व एव विशांपते ।
युधिष्ठिरं च कुन्तीं च चिन्तयन्त उपासते ॥ १.१७१.४ ॥

その時、彼らは皆托鉢に出かけた、民の主よ。ユディシュティラとクンティーを思いながら、彼らに仕えた。

1.171.5

भैक्षं चरन्तस्तु तदा जटिला ब्रह्मचारिणः ।
बभूवुर्नागराणां च गुणैः संप्रियदर्शनाः ॥ १.१७१.५ ॥

その時、托鉢に歩く髪を束ねた梵行者たちは、その徳によって市民にとって非常に好ましい姿となった。

1.171.6

दर्शनीया द्विजाः शुभ्रा देवगर्भोपमाः शुभाः ।
भैक्षानर्हाश्च राज्यार्हाः सुकुमारास्तपस्विनः ॥ १.१७१.६ ॥

この再生族の人々は見る価値があり、輝き、神々の子のように吉祥である。托鉢には相応しくなく、王国に相応しい。繊細で苦行者である。

1.171.7

नैते यथार्थतो विप्राः सुकुमारास्तपस्विनः ।
चरन्ति भूमौ प्रच्छन्नाः कस्माच्चित्कारणादिह ॥ १.१७१.७ ॥

この者たちは real にはバラモンではなく、繊細な苦行者が何らかの理由で身を隠して、この地を歩き回っているのだ。

1.171.8

सर्वलक्षणसंपन्ना भैक्षं नार्हन्ति नित्यशः ।
कार्यार्थिनश्चरन्तीति तर्कयन्त इति ब्रुवन् ॥ १.१७१.८ ॥

すべての吉相を備えたこの者たちは、毎日施しを受けるにふさわしくない。何か目的があって歩いているのだろう、と推測して彼らは言った。

1.171.9

बन्धूनामागमान्नित्यमुपचारैस्तु नागराः ।
भाजनानि च पूर्णानि भक्ष्यभोज्यैरकारयन् ॥ १.१७१.९ ॥

親族が来ると、市民たちは常に丁重にもてなし、食べ物や美味で満たした器を用意させた。

1.171.10

मौनव्रतेन संयुक्ता भैश्रं गृह्णन्ति पाण्डवाः ।
माता चिरगतान्ज्ञात्वा शोचन्ती पाण्डवान्प्रति ॥ १.१७१.१० ॥

沈黙の誓いを守るパーンダヴァたちは施しを受ける。母は彼らが長く去っていたことを知り、パーンダヴァたちのために嘆き悲しむ。

1.171.11

दुःखाश्रुपूर्णनयना लिखन्त्यास्ते महीतलम् ।
भिक्षित्वा द्विजगेहेषु चिन्तयन्तश्च मातरम् ॥ १.१७१.११ ॥

悲しみの涙に満ちた目で、彼らは地面を掻きながら、バラモンの家々で施しを乞い、母を思う。

1.171.12

त्वरमाणा निवर्तन्ते मातृगौरवयन्त्रिताः ।
मात्रे निवेदयन्ति स्म कुन्त्यै भैक्षं दिवानिशम् ॥ १.१७१.१२ ॥

母への敬愛に縛られ、彼らは急いで戻り、昼も夜も施しのことをクンティーに報告した。

1.171.13

सर्वं संपूर्णभैक्षान्नं मातृदत्तं पृथक्पृथक् ।
विभज्याभुञ्जतेष्टं ते यथाभागं पृथक्पृथक् ॥ १.१७१.१३ ॥

母が与えた乞食の食物を全部、それぞれの取り分に従って分けて、望むままに各自別々に食べた。

1.171.14

अर्धं स्म भुञ्जते पञ्च सह मात्रा परन्तपाः ।
अर्धं सर्वस्य भैक्षस्य भीमो भुङ्क्ते महाबलः ॥ १.१७१.१४ ॥

敵を焼く五人は母とともに半分を食べ、大力のビーマは乞食の食物全体の半分を食べた。

1.171.15

स नाशितश्च भवति कल्याणान्नभुजिः पुरा ।
स वैवर्ण्यं च कार्श्यं च जगामातृप्तिकारितम् ॥ १.१७१.१५ ॥

以前は良い食べ物を食べていた彼は、今は衰弱した。満たされないために顔色は青白くなり、痩せ衰えた。

1.171.16

आज्यबिन्दुर्यथा वह्नौ महति ज्वलिते भवेत् ।
तथार्धभागं भीमस्य भिक्षान्नस्य नरोत्तम ॥ १.१७१.१६ ॥

大きく燃え盛る火に落ちた酥油一滴のように、人中の最良者よ、ビーマにとっての乞食の半分もそのようであった。

1.171.17

तथैव वसतां तत्र तेषां राजन्महात्मनाम् ।
अतिचक्राम सुमहान्कालोऽथ भरतर्षभ ॥ १.१७१.१७ ॥

こうして、そこに住んでいたその偉大な人々の、非常に長い時が過ぎた。王よ、バラタの牡牛よ。

1.171.18

भीमोऽपि क्रीडयित्वाथ मिथो ब्राह्मणबन्धुषु ।
कुम्भकारेण संबन्धाल्लेभे पात्रं महत्तरम् ॥ १.१७१.१८ ॥

ビーマもまた、バラモンの親族の間で遊んだ後、陶工との縁によって、より大きな器を手に入れた。

1.171.19

कुम्भकारोऽददात्पात्रं महत्कृत्वातिमात्रकम् ।
प्रहसन्भीमसेनाय विस्मितस्तस्य कर्मणा ॥ १.१७१.१९ ॥

陶工はビーマセーナを見て笑い、その行為に驚きながら、作った非常に大きな器を与えた。

1.171.20

तस्याद्भुतं कर्म कुर्वन्मृद्भारं महदाददे ।
मृद्भारैः शतसाहस्रैः कुम्भकारमतोषयत् ॥ १.१७१.२० ॥

驚くべき行いをしながら、彼は大量の粘土の荷を担ぎ、数十万の粘土の荷で陶工を喜ばせた。

1.171.21

चक्रे चक्रे च मृद्भाण्डान्सततं भैक्षमाचरन् ।
तदादायागतं दृष्ट्वा हसन्ति प्रहसन्ति च ॥ १.१७१.२१ ॥

どの陶工の轆轤でも絶えず土器を乞い求め、それを持って帰ってくるのを見て、人々は笑い、大声で笑った。

1.171.22

भक्ष्यभोज्यानि विविधान्यादाय प्रक्षिपन्ति च ।
एवमेव सदा भुक्त्वा मात्रे वदति वै रहः।
न चाशितोऽस्मि भवति कल्याणान्नभृतः पुरा ॥ १.१७१.२२ ॥

人々は様々な食べ物を持ってきて、それに入れた。このように常に食べて、彼は母にこっそり言った。「以前、良い食べ物を持ってきた人がいても、私は満足しなかった。」

1.171.23

ततः कदाचिद्भैक्षाय गतास्ते पुरषर्षभाः ।
संगत्य भीमसेनस्तु तत्रास्ते पृथया सह ॥ १.१७१.२३ ॥

その後のある日、人中の雄牛たちは施しを求めて出かけ、ビーマセーナはプリターと共にそこに留まった。

1.171.24

अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने ।
भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत ॥ १.१७१.२४ ॥

その時、バラモンの家で苦痛から生じた大きく恐ろしい叫び声が激しく上がった。バーラタよ、それをクンティーが聞いた。

1.171.25

रोरुयमाणांस्तान्दृष्ट्वा परिदेवयतश्च सा ।
कारुण्यात्साधुभावाच्च कुन्ती राजन्न चक्षमे ॥ १.१७१.२५ ॥

彼らが泣き嘆くのを見て、クンティーは、王よ、憐れみと善き心ゆえにそれに耐えられなかった。

1.171.26

मथ्यमानेव दुःखेन हृदयेन पृथा तदा ।
उवाच भीमं कल्याणी कृपान्वितमिदं वचः ॥ १.१७१.२६ ॥

悲しみに心を掻き乱されるかのように、吉祥なるプリターはそのとき憐れみに満ちたこの言葉をビーマに告げた。

1.171.27

वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने ।
अज्ञाता धार्तराष्ट्रस्य सत्कृतां वीतमन्यवः ॥ १.१७१.२७ ॥

息子よ、我々はバラモンの家で非常に安楽に暮らしている。ドリタラーシュトラの息子に知られず、敬われ、怒りを離れて。

1.171.28

सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् ।
कदा प्रियं करिष्यामि यत्कुर्युरुषिताः सुखम् ॥ १.१७१.२८ ॥

息子よ、私はいつもこのバラモンのために何をしたらよいかを考えている。いつ彼の喜ぶことをしてあげられるか、ここで安楽に暮らす我々のために、彼も何かしてくれるように。

1.171.29

एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति ।
यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः ॥ १.१७१.२९ ॥

愛しい息子よ、人の務めはただこれだけだ。すなわち、自分のためになされたことを失わせないこと。他人が彼のために為す分だけ、彼はさらにそれ以上を返すべきである。

1.171.30

तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् ।
न तत्र यदि साहाय्यं कुर्याम सुकृतं भवेत् ॥ १.१७१.३० ॥

ゆえに、この災いは確かにこのバラモンに降りかかったのだ。そこで我々が助けなければ、それは善行とはならないだろう。

1.171.31

ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम् ।
विदित्वा व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् ॥ १.१७१.३१ ॥

彼の苦しみが何であり、どこから生じたのかを知らしめよ。知った上で、たとえ極めて困難であっても、私はそれに取りかかろう。

1.171.32

एवं तौ कथयन्तौ च भूयः सुश्रुवतुः स्वनम् ।
आर्तिजं तस्य विप्रस्य सभार्यस्य विशांपते ॥ १.१७१.३२ ॥

二人がそのように語っていると、民の主よ、妻と共にいるその婆羅門の苦悩から生じた声が再び聞こえた。

1.171.33

अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः ।
विवेश त्वरिता कुन्ती बद्धवत्सेव सौरभी ॥ १.१७१.३३ ॥

そこでクンティーは急いで、あの大徳の婆羅門の奥の間に入った。繋がれた子牛の母牛のように。

1.171.34

ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च ।
दुहित्रा चैव सहितं ददर्श विकृताननम् ॥ १.१७१.३४ ॥

そこで彼女は、妻、息子、娘と共にいるその婆羅門を見た。その顔は歪んでいた。

1.171.35

धिगिदं जीवितं लोके गतसारमनर्थकम् ।
दुःखमूलं पराधीनं भृशमप्रियभागि च ॥ १.१७१.३५ ॥

世にあるこの命こそ呪わしい。本質がなく、無益で、苦しみの根であり、他に依存し、ひどく不快な物事に与るものだ。

1.171.36

जीविते परमं दुःखं जीविते परमो ज्वरः ।
जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः ॥ १.१७१.३६ ॥

命にはこの上ない苦しみがあり、命にはこの上ない熱病がある。命の中に在る者には、対立する二つのものの到来が必ず訪れる。

1.171.37

आत्मा ह्येको हि धर्मार्थौ कामं चैव निषेवते ।
एतैश्च विप्रयोगोऽपि दुःखं परमनन्तकम् ॥ १.१७१.३७ ॥

ただ自己のみが法・利・欲を享受する。それらからの離別もまた、至上で果てしない苦しみである。

1.171.38

आहुः केचित्परं मोक्षं स च नास्ति कथंचन ।
अर्थप्राप्तौ तु नरकः कृत्स्न एवोपपद्यते ॥ १.१७१.३८ ॥

至高の解脱を語る者もいるが、それはどのようにも存在しない。富を得れば、まさに全き地獄が生じるのだ。

1.171.39

अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् ।
जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् ॥ १.१७१.३९ ॥

富を求めることは至上の苦しみであり、得てさらに大きい。富に愛着を生じた者にとって、それとの離別はなおさら大きな苦しみである。

1.171.40

यावन्तो यस्य संयोगा द्रव्यैरिष्टैर्भवन्त्युत ।
तावन्तोऽस्य निख्यन्ते हृदये शोकशङ्कवः ॥ १.१७१.४० ॥

愛する財物との結びつきが多いほど、その者の心には悲しみの矢が深く刺さる。

1.171.41

तदिदं जीवितं प्राप्य अल्पकालं महाभयम् ।
त्यागो हि न मया प्राप्तो भार्यया सहितेन च ॥ १.१७१.४१ ॥

それゆえ、短い間しか続かず大きな危険に満ちたこの生を得ても、私は妻とともにいても、捨離を得てはいない。

1.171.42

न हि योगं प्रपश्यामि येन मुच्येयमापदः ।
पुत्रदारेण वा सार्धं प्राद्रवेयमनामयम् ॥ १.१७१.४२ ॥

これらの災いから私が解放される方法を私は見出せない。息子と妻とともに、病なく逃れ去る道もまた見えない。

1.171.43

यतितं वै मया पूर्वं वेत्थ ब्राह्मणि तत्तथा ।
क्षेमं यतस्ततो गन्तुं त्वया तु मम न श्रुतम् ॥ १.१७१.४३ ॥

ブラーフマニーよ、私は以前から努めてきた、それはお前も知っている。しかし、ここから安全な所へ行こうという私の言葉を、お前は聞かなかった。

1.171.44

इह जाता विवृद्धाऽस्मि पिता माता ममेति वै ।
उक्तवत्यसि दुर्मेधे याच्यमाना मयाऽसकृत् ॥ १.१७१.४४ ॥

「ここに生まれ育った、ここに私の父と母がいる」とお前は言い続けた。愚かな者よ、私が何度懇願しても、

1.171.45

स्वर्गतोऽपि पिता वृद्धस्तथा माता चिरं तव ।
बन्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः ॥ १.१७१.४५ ॥

お前の年老いた父と母はとうに天へ行き、親族もまた先に去った。そこに住んで何の喜びがあろうか。

1.171.46

न भोजनं विरुद्धं स्यान्न स्त्रीदेशो निबन्धनः ।
सुदूरमपि तं देशं व्रजेद्गरुडहंसवत् ॥ १.१७१.४६ ॥

食べ物が合わないということはなく、妻の国も縛りではない。ガルダや白鳥のように、はるか遠い国へも行くべきである。

1.171.47

सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम ।
बन्धुप्रणाशः संप्राप्तो भृशं दुःखकरो मम ॥ १.१७१.४७ ॥

親族を望みながら、私の言葉を聞かなかったお前のせいで、親族の滅びが訪れた。それは私をひどく苦しめる。

1.171.48

अथवा मद्विनाशो यं न हि शक्ष्यामि कंचन ।
परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् ॥ १.१७१.४८ ॥

あるいは私自身が滅びようとも、どの親族をも捨てることはできない。生きている限り、残忍な者のように親族を自ら見捨てることはしない。

1.171.49

सहधर्मचरीं दान्तां नित्यं मातृसमां मम ।
सखायं विहितां देवैर्नित्यं परमिकां गतिम् ॥ १.१७१.४९ ॥

わが法の伴侶、自制し、常にわれにとって母のごとく、友であり、神々によって定められ、常に最上の帰依処である。

1.171.50

पित्रा मात्रा च विहितां सदा गार्हस्थ्यभागिनीम् ।
वरयित्वा यथान्यायं मन्त्रवत्परिणीय च ॥ १.१७१.५० ॥

父と母が常に授けた、家住期の生活を分かつ妻。わたしは律法に従って選び、マントラと共に娶った。

1.171.51

कुलीनां शीलसंपन्नामपत्यजननीमपि ।
त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् ॥ १.१७१.५१ ॥

高貴な家に生まれ、品行が備わり、子を産んだ、貞淑で害をなさない汝を、我が命のためにさえ。

1.171.52

परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् ।
कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम् ॥ १.१७१.५२ ॥

常に従順な妻すら私は捨てられない。ましてや、どうして自ら娘を捨てられようか。

1.171.53

बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् ।
भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना ॥ १.१७१.५३ ॥

まだ年若く、女性の徴の現れていない少女。夫のために大いなる造物主が預けた寄託物である。

1.171.54

यया दौहित्रजाँल्लोकानाशंसे पितृभिः सह ।
स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे ॥ १.१७१.५४ ॥

その娘によって、祖霊とともに外孫によって得られる世界を私は望んでいる。自ら生んだその少女を、どうして捨てる気になれようか。

1.171.55

मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः ।
कन्यायां केचिदपरे मम तुल्यावुभौ स्मृतौ ॥ १.१७१.५५ ॥

父の愛は息子に大きいと考える人もあれば、娘に大きいと考える人もいる。私にとっては二人は等しいとされる。

1.171.56

यस्यां लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् ।
अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे ॥ १.१७१.५६ ॥

世界と子孫と幸福が常にそこに宿る、あの罪なき少女をどうして私は捨てられようか。

1.171.57

कुत एव परित्यक्तुं सुतं शक्ष्याम्यहं स्वयम् ।
प्रार्थयेयं परां प्रीतिं यस्मिन्स्वर्गफलानि च ॥ १.१७१.५७ ॥

どうして私自身が息子を捨てられようか。私が最高の愛を願い、天の果報も宿るその子を。

1.171.58

यस्य जातस्य पितरो मुखं दृष्ट्वा दिवं गताः ।
अहं मुक्तः पितृऋणाद्यस्य जातस्य तेजसा ॥ १.१७१.५८ ॥

生まれたその顔を見て先祖たちは天へ昇り、その輝きによって私は祖霊への負債から解放された。

1.171.59

दयितं मे कथं बालमहं त्यक्तुमिहोत्सहे ।
तमहं ज्येष्ठपुत्रं मे कुलनिर्हारकं विभुम् ॥ १.१७१.५९ ॥

ここで愛しい我が子を私はどうして捨てられようか。家を救う力ある我が長子を、どうして……

1.171.60

मम पिण्डोदकनिधिं कथं त्यक्ष्यामि पुत्रकम् ।
त्यागोऽयं मम संप्राप्तो ममन्वा मे सुतस्य वा ॥ १.१७१.६० ॥

私の供養の飲食の宝である幼い息子を、どうして捨てられようか。この放棄は私に、あるいは我が子に降りかかったのだ。

1.171.61

तव वा तव पुत्र्या वा अत्र वासस्य तत्फलम् ।
न शृणोषि वचो मह्यं तत्फलं भुङ्क्ष्व भामिनि ॥ १.१७१.६१ ॥

ここに留まる果報はあなたかあなたの娘のものだ。あなたは私の言葉を聞かない。ではその果報を味わいなさい、バーミニーよ。

1.171.62

अथवाहं न शक्ष्यामि स्वयं मर्तुं सुतं मम ।
एकं त्यक्तुं न शक्नोति भवतीं च सुतामपि ॥ १.१७१.६२ ॥

あるいは、私自身も死ぬことができず、息子もそうだ。一人でも見捨てることはできない、あなたも娘も。

1.171.63

अथ मद्रक्षणार्थं वा न हि शक्ष्यामि कंचन ।
परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् ॥ १.१७१.६३ ॥

あるいは、自分を守るためでさえ、私は誰も見捨てることはできない。生きている間、残酷な者のように親族を見捨てることはできない。

1.171.64

आत्मानमपि चोत्सृज्य गते प्रेतवशं मयि ।
त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् ॥ १.१७१.६४ ॥

私自身も捨てて死の支配下に行けば、これらの者は明らかに私に見捨てられることになり、ここで生き延びることはできないだろう。

1.171.65

एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः ।
आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना ॥ १.१७१.६५ ॥

このうちの誰か一人を捨てることも残酷であり、賢者たちはそれを非難する。私が自分を捨てれば、これらの者は私なしに死ぬだろう。

1.171.66

स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् ।
अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः।
सर्वैः सह मृतं श्रेयो न च मे जीवितुं क्षमम् ॥ १.१७१.६६ ॥

私はこの苦難に陥り、この災厄を乗り越えることができない。ああ、恥辱だ!今日、親族とともに私はどんな道を行くのか!皆と共に死ぬのが善い。生きることは私にふさわしくない。