Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 1.173

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

1.173.1

तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तु ।
ततो दुःखपरीताङ्गी कन्या तावभ्यभाषत ॥ १.१७३.१ ॥

その二人の極度に悲しむ言葉を聞いて、悲嘆に体を覆われた少女は彼らに語りかけた。

1.173.2

किमेवं भृशदुःखार्तौ रोरूयेतामनाथवत् ।
ममापि श्रूयतां वाक्यं श्रुत्वा च क्रियतां क्षमम् ॥ १.१७३.२ ॥

二人ともなぜそのように深い悲しみに打ちひしがれ、庇護者のない者のように泣くのか。私の言葉も聞きなさい。聞いて、ふさわしいことをしなさい。

1.173.3

धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः ।
त्यक्तव्यां मां परित्यज्य त्राहि सर्वं मयैकया ॥ १.१७३.३ ॥

法に従えば、あなたたち二人は私を捨てるべきだ。これに疑いはない。私を捨て、私一人によってすべてを救いなさい。

1.173.4

इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति ।
अस्मिन्नुपस्थिते काले तरध्वं प्लववन्मया ॥ १.१७३.४ ॥

「この目的のために子孫が望まれる、彼が私を渡らせてくれるように」と。この時が来たら、私を筏のようにして渡りなさい。

1.173.5

इह वा तारयेद्दुर्गादुत वा प्रेत्य भारत ।
सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः ॥ १.१७३.५ ॥

バラタの末裔よ、この世でも来世でも、困難から救うのは息子である。あらゆる意味で息子こそが救う——賢者はそう言う。

1.173.6

आकाङ्क्षन्ते च दौहित्रान्मयि नित्यं पितामहाः ।
तत्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः ॥ १.१७३.६ ॥

祖先たちは常に私を通して外孫を望んでいる。ゆえに私自身が父の命を守りながら、必ず彼らを救うだろう。

1.173.7

भ्राता च मम बालोऽयं गते लोकममुं त्वयि ।
अचिरेणैव कालेन विनश्येत न संशयः ॥ १.१७३.७ ॥

あなたがあの世界へ行ってしまえば、私の幼い弟も間もなく時の流れによって滅びるでしょう。疑いはありません。

1.173.8

तातेपि हि गते स्वर्गं विनष्टे च ममानुजे ।
पिण्डः पितॄणां व्युच्छिद्येत्तत्तेषां विप्रियं भवेत् ॥ १.१७३.८ ॥

父が天へ去り、私の弟が滅びたならば、祖霊への供物(ピンダ)は途絶えるでしょう。それは祖霊にとって好ましくないことです。

1.173.9

पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम् ।
दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिताम् ॥ १.१७३.९ ॥

父にも母にも兄にも見捨てられた私は、疑いなく悲しみからさらに大きな悲しみに至り、ふさわしくない死に方をするでしょう。

1.173.10

त्वयि त्वरोगे निर्मुक्तो माता भ्राता च मे शिशुः ।
सन्तानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम् ॥ १.१७३.१० ॥

あなたが病から解放されていれば、私の母も弟も幼子も解放され、血統と供物は必ず保たれるでしょう。

1.173.11

आत्मा पुत्रः सखी भार्या कृच्छ्रं तु दुहिता किल ।
स कृच्छ्रान्मोचयात्मानं मां च धर्मे नियोजया ॥ १.१७३.११ ॥

自身、息子、友、妻は愛しいものですが、娘はまことに苦しみの種です。彼女は自ら苦しみから解かれ、私をもダルマに導いてください。

1.173.12

अनाथा कृपणा बाला यत्र क्वचन गामिनी ।
भविष्यामि त्वया तात विहीना कृपणा सदा ॥ १.१७३.१२ ॥

ああ父上!あなたを失えば、私は庇護者もなく哀れな少女として、あちこちをさまよい、いつまでも孤独で頼る者もなく過ごすでしょう。

1.173.13

अथवाहं करिष्यामि कुलस्यास्य विमोचनम् ।
फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम् ॥ १.१७३.१३ ॥

あるいは私はこの一族を救いましょう。極めて困難な行いをして、その果報を得るのです。

1.173.14

अथवा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम ।
पीडिताऽहं भविष्यामि तदवेक्षस्व मामपि ॥ १.१७३.१४ ॥

あるいは、最良の再生者よ、あなたが私を捨てて彼方へ行かれるなら、私は苦しむでしょう。どうか私をも顧みてください。

1.173.15

तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम ।
आत्मानं परिरक्षस्व त्यक्तव्यां मां च संत्यज ॥ १.१७३.१५ ॥

それゆえ、最良の人よ、私たちのため、ダルマのため、子孫のために、どうかご自身をお守りください。そして捨てられるべき私を捨ててください。

1.173.16

अवश्यकरणीये च मा त्वां कालोत्यगादयम् ।
किं त्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि ॥ १.१७३.१६ ॥

必ずなすべきことにおいて、この時があなたを過ぎ去らぬように。あなたが天界へ去り、私たちが残されること以上の大きな苦しみがあるでしょうか。

1.173.17

याचमानाः परादन्नं परिधावेमहि श्ववत् ।
त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे।
अमृतेव सती लोके भविष्यामि सुखान्विता ॥ १.१७३.१७ ॥

他人に食を乞うて、私たちは犬のように彷徨うでしょう。もしあなたが親族とともにこの苦しみから、病なく解放されるなら、私は世間で甘露のように幸せに生きるでしょう。

1.173.18

इतः प्रदाने देवाश्च पितरश्चेति नः श्रुतम् ।
त्वया दत्तेन तोयेन भविष्यति हिताय वै ॥ १.१७३.१८ ॥

ここからの布施によって神々と祖霊が満たされると、私たちは聞いています。あなたが捧げる水によって、それは私たちの利益となるでしょう。

1.173.19

इत्येतदुभयं तात निशाम्य तव यद्धितम् ।
तद्व्यवस्य तथाम्बाया हितं स्वस्य सुतस्य च ॥ १.१७३.१९ ॥

愛しい息子よ、この二つのことを聞いて、お前にとって利となることを決めなさい。それは母と、お前自身の息子にとっても益となる。

1.173.20

मातापित्रोश्च पुत्रास्तु भवितारो गुणान्विताः ।
न तु पुत्रस्य पितरो पुनर्जातु भविष्यतः ॥ १.१७३.२० ॥

母と父には徳を備えた息子たちが生まれるであろう。しかし息子にとっては、その同じ父母が再び生まれることは決してない。

1.173.21

एवं बहुविधं तस्या निशम्य परिदेवितम् ।
पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः ॥ १.१७३.२१ ॥

彼女がこのように様々に嘆くのを聞いて、父と母と娘の三人は声をあげて泣き叫んだ。

1.173.22

ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तदा ।
उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत् ॥ १.१७३.२२ ॥

皆が声をあげて泣くのを見て、そのとき目を大きく見開いた幼子は、甘いがはっきりしない声で語った。

1.173.23

मा पिता रुद मा मातर्मा स्वसस्त्विति चाब्रवीत् ।
प्रहसन्निव सर्वांस्तानेकैकमनुसर्पति ॥ १.१७३.२३ ॥

「父上、泣かないで。母上、泣かないで。姉上、泣かないで」と言いながら、まるで笑うかのように、彼は一人一人のもとへ這って近づいていった。

1.173.24

ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत् ।
अनेनाहं हनिष्यामि राक्षसं पुरुषादकम् ॥ १.१७३.२४ ॥

すると彼は喜び、草の葉を一本取って再び言った。「これで私は人食いのラークシャサを打ち殺してやる。」

1.173.25

तथापि तेषां दुःखेन परीतानां निशम्य तत् ।
बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान् ॥ १.१७३.२५ ॥

それでも悲しみに囲まれた彼らは、その子の不明瞭な言葉を聞いて大いに喜んだ。

1.173.26

अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान् ।
गतासूनमृतेनेव जीवयन्तीदमब्रवीत् ॥ १.१७३.२६ ॥

今がその時だと悟ったクンティーは彼らに近づき、死者を甘露で蘇らせるかのように、このように語った。