Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.175

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.175.1

न विषादस्त्वया कार्यो भयादस्मात्कथंचन ।
उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः ॥ १.१७५.१ ॥

你不要因这恐惧而有丝毫沮丧;这里已见到一个办法,因此要为摆脱那罗刹而努力。

1.175.2

नैव स्वयं सपुत्रस्य गमनं तत्र रोचये ।
एकस्तव सुतो बालः कन्या चैका तपस्विनी।
न चैतयोस्तथा पत्न्या गमनं तव रोचये ॥ १.१७५.२ ॥

我不赞同自己与儿子一同前往那里。你只有一个年幼的儿子和一个虔诚的女儿;我也不赞同这两人与你的妻子一同前往。

1.175.3

मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति ।
त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः ॥ १.१७५.३ ॥

婆罗门啊,我有五个儿子;其中一个将为你前去,带着祭品送给那个邪恶的罗刹。

1.175.4

नाहमेतत्करिष्यामि जीवितार्थी कथंचन ।
ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणान्वियोजयन् ॥ १.१७५.४ ॥

我绝不会因贪生而这样做;为了自己的利益而舍弃生命,却要以婆罗门与客人的名义,我不会这样做。

1.175.5

न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते ।
यद्ब्राह्ममार्थं विसृजेदात्मानमपि चात्मजम् ॥ १.१७५.५ ॥

然而,这样的牺牲不会出现在出身低贱、不守法度的女子身上;她们不会为了婆罗门而舍弃自己甚至自己的儿子。

1.175.6

आत्मनस्तु वधः श्रेयो बोद्धव्यमिति रोचते ।
ब्रहम्वध्याऽऽत्मवध्या वा श्रेयानात्मवधो मम ॥ १.१७५.६ ॥

应当明白,牺牲自己更好,我也认同此理。杀害婆罗门与自杀之间,对我而言,自杀更好。

1.175.7

ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते ।
अबुद्धिपूर्वं कृत्वापि प्रत्यवायो हि विद्यते ॥ १.१७५.७ ॥

杀害婆罗门是最大的罪过,此处没有赎罪之法。即使无心而为,也确实会招致过失。

1.175.8

न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे ।
परैः कृते वधे पापं न किंचिन्मयि विद्यते ॥ १.१७५.८ ॥

但是,吉祥的人啊,我自己并不希望自己被杀。若由他人所为,我身上并无任何罪过。

1.175.9

अभिसंधौ कृते तस्मिन्ब्राह्मणस्य वधे मया ।
निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च ॥ १.१७५.९ ॥

若我有意杀害那位婆罗门,我看不到任何赎罪之法。那是残忍而卑劣的行为。

1.175.10

आगतस्य गृहं त्यागस्तथैव शरणार्थिनः ।
याचमानस्य च वधो नृशंसो गर्हितो बुधैः ॥ १.१७५.१० ॥

抛弃来到家中的人,同样抛弃寻求庇护的人,杀害乞求的人,这些都是残忍的行为,为智者所谴责。

1.175.11

कुर्यान्न निन्दितं कर्म न नृशंसं कथंचन ।
इति पूर्वे महात्मान आपद्धर्मविदो विदुः ॥ १.१७५.११ ॥

无论如何都不可做可耻或残忍的行为——知晓应急法则的古代大德们便是这样understand的。

1.175.12

श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम् ।
ब्राह्मणस्य वधं नाहमनुमंस्ये कदाचन ॥ १.१७५.१२ ॥

对我来说,今日与妻子一同毁灭自己反而更好;我绝不会同意杀害婆罗门。

1.175.13

ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा ।
न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत् ॥ १.१७५.१३ ॥

婆罗门啊,我的决心也很坚定:应当保护婆罗门。即使我有一百个儿子,也没有一个会让我不喜欢。

1.175.14

न चासौ राक्षसः शक्तो मम पुत्रविनाशने ।
वीर्यमन्मन्त्रसिद्धश्च तेजस्वी च सुतो मम ॥ १.१७५.१४ ॥

那罗刹无力毁灭我的儿子。我的儿子勇猛、精通咒语,且光彩照人。

1.175.15

राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम् ।
मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः ॥ १.१७५.१५ ॥

他会把所有食物送给罗刹,也会救出自己——这是我坚定的信念。

1.175.16

समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः ।
बलवन्तो महाकाया निहताश्चाप्यनेकशः ॥ १.१७५.१६ ॥

曾与英雄相遇、先前见过的强壮巨身罗刹,已被多次杀死。

1.175.17

न त्विदं केषुचिद्ब्रह्मान्व्याहर्तव्यं कथंचन ।
विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात् ॥ १.१७५.१७ ॥

但是婆罗门啊,此事绝不可对任何人说;因为我那求学的儿子们可能出于好奇而伤害婆罗门。

1.175.18

गुरुणा चाननुज्ञातो ग्राहयेद्यः सुतो मम ।
न स कुर्यात्तथा कार्यं विद्ययेति सतां मतम् ॥ १.१७५.१८ ॥

我的儿子中,若有人未经老师允许便把学问传授他人,他不应如此——这是善人的看法。

1.175.19

एवमुक्तस्तु पृथया स विप्रो भार्यया सह ।
हृष्टः संपूजयामास तद्वाक्यममृतोपमम् ॥ १.१७५.१९ ॥

普利塔如此说完,那婆罗门与妻子一同欢喜,尊敬她那如甘露般的话语。

1.175.20

ततः कुन्ती च विप्रश्च सहितावनिलात्मजम् ।
तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ ॥ १.१७५.२० ॥

于是昆提与那婆罗门一同对风之子说:“照此去做。”他便回答二人说:“好吧。”