Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.177

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.177.1

उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम् ।
आर्तस्य ब्राह्मणस्यैतदनुक्रोशादिदं कृतम् ॥ १.१७७.१ ॥

母亲,你有意而为之的事是恰当的;这是出于对受苦婆罗门的怜悯而做的。

1.177.2

ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम् ।
सर्वथा ब्राह्मणस्यार्थे यदनुक्रोशवत्यसि ॥ १.१७७.२ ॥

这位毗摩必定会在杀死那吃人的罗刹之后归来;为了婆罗门,你处处充满慈悲。

1.177.3

यथा त्विदं न विन्देयुर्नरा नगरवासिनः ।
तथाऽयं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः ॥ १.१७७.३ ॥

为了使城中的人不知道此事,应当这样告诉这位婆罗门,并小心地收留他。

1.177.4

युधिष्ठिरेण संमन्त्र्य ब्राह्मणार्थमरिन्दम ।
कुन्ती प्रविश्य तान्सर्वान्मन्त्रयामास भारत ॥ १.१७७.४ ॥

降敌者啊,婆罗摩的利益,昆提与坚战商议后,走进去与他们所有人商议,婆罗多啊。

1.177.5

अथ रात्र्यां व्यतीतायां भीमसेनो महाबलः ।
ब्राह्मणं समुपागम्य वचश्चेदमुवाच ह ॥ १.१७७.५ ॥

夜晚过去后,大力的毗摩森那走近婆罗门,说了这些话。

1.177.6

आपदस्त्वां विमोक्ष्येऽहं सपुत्रं ब्राह्मण प्रियम् ।
मा भैषी राक्षसात्तस्मान्मां ददातु बलिं भवान् ॥ १.१७७.६ ॥

婆罗门啊,我将把你和你心爱的儿子从这场灾难中解救出来。不要害怕那罗刹;请把我交给他作为祭品。

1.177.7

इद मामशितं कर्तुं प्रयतस्व सकृद्गृहे ।
आथात्मानं प्रादास्यामि तस्मै घोराय रक्षसे ॥ १.१७७.७ ॥

你在家中试着把我当作食物吧。然后我便将自己献给那可怕的罗刹。

1.177.8

त्वरध्वं किं विलम्बध्वे मा चिरं कुरुतानघाः ।
व्यवस्येयं मनः प्राणैर्युष्मान्रक्षितुमद्य वै ॥ १.१७७.८ ॥

快些吧,为何迟疑?诸位无罪之人,不要耽搁太久。今日我已在心中决定,即便舍弃性命也要保护你们。

1.177.9

एवमुक्तः स भीमेन ब्राह्मणो भरतर्षभ ।
सुहृदां तत्समाख्याय ददावन्नं सुसंस्कृतम् ॥ १.१७७.९ ॥

婆罗多族的雄牛啊,婆罗门听了毕摩的这番话,告知了朋友们,便将精心烹制的食物交给了他。

1.177.10

पिशितोदनमाजह्रुरथास्मै पुरवासिनः ।
सघृतं सोपदंशं च सूपैर्नानाविधैः सह ॥ १.१७७.१० ॥

随后城中居民为他带来了肉饭、酥油、配菜以及各种汤羹。

1.177.11

तदाऽशित्वा भीमसेनो मांसानि विविधानि च ।
मोदकानि च मुख्यानि चित्रोदनचयान्बहून् ॥ १.१७७.११ ॥

于是毗摩森那吃了各种肉、上好的糕点,以及许多堆各式调味的饭。

1.177.12

ततोऽपिबद्दधिघटान्सुबहून्द्रोणसंमितान् ।
तस्य भुक्तवतः पौरा यथावत्समुपार्जितान् ॥ १.१७७.१२ ॥

随后他喝下许多罐凝乳,每罐都有一德罗纳之量。他吃完后,城中居民把依礼搜集的东西拿来给他。

1.177.13

उपजह्रुर्भृतं भागं समृद्धमनसस्तदा ।
ततो रात्र्यां व्यतीतायां सव्यञ्जनदधिप्लुतम् ॥ १.१७७.१३ ॥

于是心情欢喜的人们送来了他的份额。夜晚过去之后,送来了浸透着菜肴和凝乳的食物。

1.177.14

समारुह्यान्नसंपूर्णं शकटं स वृकोदरः ।
प्रययौ तूर्यनिर्घोषैः पौरैश्च परिवारितः ॥ १.१७७.१४ ॥

狼腹(Vṛkodara)登上装满食物的车,在乐器的轰鸣声中,被市民们簇拥着出发了。

1.177.15

आत्मानमेषोऽन्नभूतो राक्षसाय प्रदास्यति ।
तरुणोऽप्रतिरूपश्च दृढ औदरिको युवा ॥ १.१७७.१५ ॥

此人化为食物,将自己献给罗刹。他年轻、无与伦比、强壮,而且是大食之人。

1.177.16

वाग्भिरेवंप्रकाराभिः स्तूयमानो वृकोदरः ।
चुचोद स बलीवर्दौ युक्तौ सर्वाङ्गकालकौ ॥ १.१७७.१६ ॥

狼腹在这样的赞词中,驱赶着那两头全身漆黑、已套好轭的公牛。

1.177.17

वादित्राणां प्रवादेन ततस्तं पुरुषादकम् ।
अभ्यगच्छत्सुसंहृष्टः सर्वत्र मनुजैर्वृतः ॥ १.१७७.१७ ॥

伴着乐器之声,他十分欢喜地走向那食人的罗刹,四周都被众人围绕。

1.177.18

संप्राप्य स च तं देशमेकाकी समुपाययौ ।
पुरुषादभयाद्भीतस्तत्रैवासीज्जनव्रजः ॥ १.१७७.१८ ॥

他到达那个地方,独自前行;那群被食人罗刹吓坏的人,就留在了那里。

1.177.19

स गत्वा दूरमध्वानं दक्षिणामभितो दिशम् ।
यतोपदिष्टमुद्देशे ददर्श विपुलं द्रुमम् ॥ १.१७७.१९ ॥

他朝南方走了很远,在所指示的地方看见一棵巨大的树。

1.177.20

केशमज्जास्थिमेदोभिर्बाहूरुचरणैरपि ।
आर्द्रैः शुष्कैश्च संकीर्णमभितोऽथ वनस्पतिम् ॥ १.१७७.२० ॥

那棵树四周散落着头发、骨髓、骨头和脂肪,还有手臂、大腿和脚,有湿的也有干的。

1.177.21

गृध्रकङ्कबलच्छन्नं गोमायुगणसेवितम् ।
उग्रगन्धमचक्षुष्यं श्मशानमिव दारुणम् ॥ १.१७७.२१ ॥

被秃鹫、鹭鸟和鸢覆盖,有成群的豺狼出没,气味恶臭,刺痛眼睛,如同火葬场般可怖。

1.177.22

तं प्रविश्य महावृक्षं चिन्तयामास वीर्यवान् ।
यावन्न पश्यते रक्षो बकाभिख्यं बलोत्तरम् ॥ १.१७७.२२ ॥

这位勇士进入大树后思忖:在见到名为巴卡、力大无比的罗刹之前……

1.177.23

आचितं विविधैर्भोज्यैरन्नैरुच्चावचैरिदम् ।
शकटं सूपसंपूर्णं यावद्द्रक्ष्यति राक्षसः ॥ १.१७७.२३ ॥

这辆车堆满了各式食物和各种菜肴,满是汤羹,直到罗刹看见它为止。

1.177.24

तावदेवेह भोक्ष्येऽहं दुर्लभं हि पुनर्भवेत् ।
विप्रकीर्येत सर्वं हि प्रयुद्धे मयि रक्षसा ॥ १.१७७.२४ ॥

在那之前我就在这里吃吧,因为这样的机会以后难得;而当罗刹与我交战时,这一切必定会被打散。

1.177.25

अभोज्यं हि शवस्पर्शे निगृहीते बके भवेत् ।
स त्वेवं भीमकर्मा तु भीमसेनोऽभिलक्ष्य च ॥ १.१७७.२५ ॥

因为若巴卡因触摸尸体而被捉住,食物便不可食用。然而行可怕之事的毗摩塞那观察之后(明白了这一点)。

1.177.26

उपविश्य विविक्तेऽन्नं भुङ्क्ते स्म परमं परः ।
तं ततः सर्वतोऽपश्यन्द्रुमानारुह्य नागराः ॥ १.१७७.२६ ॥

他在僻静之处坐下,吃着食物,那位至尊者。于是城中居民爬上树木,从四面八方看见了他。

1.177.27

नारक्षो बलिमश्नीयादेवं बहु च मानवाः ।
भुङ्क्ते ब्राह्मणरूपेण बकोऽयमिति चाब्रुवन् ॥ १.१७७.२७ ॥

罗刹不应吃供物,许多人这样说;“他以婆罗门的形象进食,这就是巴卡!”他们开始这样说。

1.177.28

स तं हसति तेजस्वी तदन्नमुपभुज्य च ।
आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली।
आजुहाव ततो नाम्ना तदन्नमुपपादयन् ॥ १.१७७.२८ ॥

那光辉者嘲笑他们;吃完那食物后,他来到那罗刹的森林,强大的般度之子呼唤他的名字,并把那食物带去给他。

1.177.29

ततः स राक्षसः क्रुद्धो भीमस्य वचनात्तदा ।
आजगाम सुसंक्रुद्धो यत्र भीमो व्यवस्थितः ॥ १.१७७.२९ ॥

于是那罗刹听了毗摩的话,极为愤怒,来到毗摩站立之处。

1.177.30

महाकायो महावेगो दारयन्निव मेदिनीम् ।
लोहिताक्षः करालश्च लोहितश्मश्रुमूर्धजः ॥ १.१७७.३० ॥

身躯巨大,速度极快,仿佛要撕裂大地;红眼而可怖,红色的胡须与头发。

1.177.31

आकर्णाद्भिन्नवक्त्रश्च शङ्कुकर्णो विभीषणः ।
त्रिशिखां भ्रुकुटिं कृत्वा संदश्य दशनच्छदम् ॥ १.१७७.३१ ॥

这个嘴裂至耳、耳朵如钉的可怖罗刹,把眉头皱成三座山峰,用牙齿紧紧咬住嘴唇。

1.177.32

भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः ।
विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत् ॥ १.१७७.३२ ॥

罗刹看到毗摩设那正在进食,怒目圆睁,说出了这番话。

1.177.33

कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम् ।
पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम् ॥ १.१७७.३३ ॥

"这是谁,在我眼前吃着为我准备的食物?愚蠢的家伙,你是想去阎摩的居所吗?"

1.177.34

भीमसेनस्ततः श्रुत्वा प्रहसन्निव भारत ।
राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः ॥ १.१७७.३४ ॥

婆罗多之后啊,毗摩设那听后,仿佛在笑,不理会那罗刹,背过脸去继续吃饭。

1.177.35

रवं स भैरवं कृत्वा समुद्यम्य करावुभौ ।
अभ्यद्रवद्भीमसेनं जिङांसुः पुरुषादकः ॥ १.१७७.३५ ॥

发出可怖的吼声,双臂高举,这食人罗刹想要杀死毗摩设那,向他猛扑过去。

1.177.36

तथापि परिभूयैनं प्रेक्षमाणो वृकोदरः ।
राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा ॥ १.१७७.३६ ॥

然而,灭敌英雄的般度之子狼腹,蔑视他,一边看着他,一边继续吃饭。

1.177.37

अमर्षेण तु संपूर्णः कुन्तीपुत्रं वृकोदरम् ।
जघान पृष्ठे पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः ॥ १.१७७.३७ ॥

然而,怒气填胸的罗刹站在后面,用双手击打了贡提之子狼腹(毗摩)的背部。

1.177.38

तथा बलवता भीमः पाणिभ्यां भृशमाहतः ।
नैवावलोकयामास राक्षसं भुङ्क्त एव सः ॥ १.१७७.३८ ॥

被这位大力者用双手重重击打,毗摩竟连看都不看罗刹一眼,仍旧继续进食。

1.177.39

ततः स भूयः संक्रुद्धो वृक्षमादाय राक्षसः ।
ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली ॥ १.१७७.३९ ॥

于是这强大的罗刹再次大怒,拿起一棵树,再次向毗摩冲去,准备击打他。

1.177.40

क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान् ।
सव्येन पाणिना भीमो दक्षिणेनाप्यभुङ्क्त ह ॥ १.१७७.४० ॥

勇猛的毗摩用左手接住了那个愤怒者投来的树,右手则继续进食。

1.177.41

शकटान्नं ततो भुक्त्वा रक्षसः पाणिना सह ।
गृह्णन्नेव तदा वृक्षं निःशेषं पर्वतोपमम् ॥ १.१७७.४१ ॥

然后,他吃掉一车食物,同时紧紧抓住罗刹的手和那棵如山一般的整棵大树。

1.177.42

भीमसेनो हसन्नेव भुक्त्वा त्यक्त्वा च राक्षसम् ।
पीत्वा दधिघटान्पूर्णान्घृतकुम्भाञ्शतं शतम् ॥ १.१७७.४२ ॥

毗摩那一边笑着进食,然后放开了罗刹;他又喝下了一百罐装满的凝乳和一百罐酥油。

1.177.43

वार्युपस्पृश्य संहृष्टस्तस्थौ गिरिरिवापरः ।
भ्रामयन्तं महावृक्षमायान्तं भीमदर्शनम् ॥ १.१७७.४३ ॥

他以水净身,心中欢喜,像另一座山一样屹立;面对那挥舞着大树、可怖地走来的敌人。

1.177.44

दृष्ट्वोत्थायाहवे वीरः सिंहनादं व्यनादयत् ।
भुजवेगं तथाऽऽस्फोटं क्ष्वेलितं च महास्वनम् ॥ १.१७७.४४ ॥

英雄见到他,便站起身来,在战场上发出狮子般的吼声;他挥动臂膀、拍击作响,并发出凶猛的呼啸,声震四方。

1.177.45

कृत्वाऽऽह्वयत संक्रुद्धो भीमसेनोऽथ राक्षसम् ।
उवाचाशनिशब्देन ध्वनिना भीषयन्निव ॥ १.१७७.४५ ॥

愤怒的怖军向罗刹发出挑战,以雷霆般的声音震慑他,说道:

1.177.46

बहुकालं सुपुष्टं ते शरीरं राक्षसाधम ।
द्विपच्चतुष्पन्मांसैश्च बहुभिश्चौदनैरपि ॥ १.१७७.४६ ॥

卑劣的罗刹啊!你的身体长久以来,靠吃两足、四足生物的肉和许多米饭,已经养得十分肥壮。

1.177.47

मद्बाहुबलमाश्रित्य न त्वं भूयस्त्वशिष्यसि ।
अद्य मद्बाहुनिष्पिष्टो गमिष्यसि यमालयम् ॥ १.१७७.४७ ॥

你仗恃我手臂的力量,不会再存活了。今日你将被我的手臂碾碎,前往阎摩的居所。

1.177.48

अद्यप्रभृति स्वप्स्यन्ति वेत्रकीयनिवासिनः ।
निरुद्विग्नाः पुरस्यास्य कण्टके सूद्धृते मया ॥ १.१७७.४८ ॥

从今日起,韦特拉卡城的居民将无忧安眠,因为我已拔除了这座城的荆棘。

1.177.49

अद्य युद्धे शरीरं ते कङ्कगोमायुवायसाः ।
मया हतस्य खादन्तु विकर्षन्तु च भूतले ॥ १.१७७.४९ ॥

今日于战场上,愿白鹭、豺狼与乌鸦食你之身,即我所杀之你的身体,并拖拽于地面之上。

1.177.50

एवमुक्त्वा सुसंक्रुद्धः पार्थो बकजिघांसया ।
उपाधावद्बकश्चापि पार्थं पार्थिवसत्तम ॥ १.१७७.५० ॥

如此说罢,极为愤怒的般度之子(Pārtha)欲杀巴卡(Baka),向其冲去;而巴卡亦朝般度之子奔来,哦,最好的君王。

1.177.51

महाकायो महावेगो दारयन्निव मेदिनीम् ।
पिशङ्गरूपः पिङ्गाक्षो भीमसेनमभिद्रवत् ॥ १.१७७.५१ ॥

身躯庞大,速度极快,仿佛要撕裂大地,形貌黄褐,双目黄赤,向婆摩森那(Bhīmasena)猛扑而来。

1.177.52

त्रिशिखां भ्रुकुटीं कृत्वा संदश्य दशनच्छदम् ।
भृशं स भूयः संक्रुद्धो वृक्षमादाय राक्षसः ॥ १.१७७.५२ ॥

皱起三峰般的眉头,咬住嘴唇,极为愤怒的罗刹又拿起一棵树。

1.177.53

ताडयिष्यंस्तदा भीमं तरसाऽभ्यद्रवद्बली ।
क्रुद्धेनाभिहतं वृक्षं प्रतिजग्राह लीलया ॥ १.१७७.५३ ॥

于是那强壮者迅速冲向婆摩(Bhīma),意欲击打他;婆摩轻松地接住了那愤怒者掷来的树。

1.177.54

सव्येन पाणिना भीमः प्रहसन्निव भारत ।
ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली ॥ १.१७७.५४ ॥

哦,婆罗多之子,婆摩以左手接住它,仿佛含笑。然后那强大者又举起各种各样的树木,……

1.177.55

प्राहिणोद्भीमसेनाय बकोऽपि बलवान्रणे ।
सर्वानपोहयद्वृक्षान्स्वस्य हस्तस्य शाखया ॥ १.१७७.५५ ॥

强大的巴卡也在战斗中向婆摩森那投掷树木,并用自己手中的树枝把所有树木打开。

1.177.56

तद्वृक्षयुद्धमभवद्वृक्षषण्डविनाशनम् ।
महत्सुघोरं राजेन्द्र बकपाण्डवयोस्तदा ॥ १.१७७.५६ ॥

帝王之主啊,那时巴卡与般度之子之间发生了那场树木之战,摧毁了成片的树林,极其巨大而可怖。

1.177.57

नाम विश्राव्य स बकः समभिद्रुत्य पाण्डवम् ।
समयुध्यत तीव्रेण वेगेन पुरुषादकः ॥ १.१७७.५७ ॥

那巴卡报出自己的名字,冲向般度之子,以猛烈的速度战斗——那吃人的魔怪。

1.177.58

तयोर्वेगेन महता पृथिवी समकम्पत ।
पादपांश्च महामात्रांश्चूर्णयामासतुः क्षणात् ॥ १.१७७.५८ ॥

两人的巨大力量使大地震动,转瞬之间他们便把树木和巨大的树干砸成了粉末。

1.177.59

द्रुतमागत्य पाणिभ्यां गृहीत्वा चैनमाक्षिपत् ।
आक्षिप्तो भीमसेनश्च पुनरेवोत्थितो हसन् ॥ १.१७७.५९ ॥

他迅速冲来,用双手抓住他并把他摔倒;婆摩森那被摔倒后,又笑着站了起来。

1.177.60

आलिङ्ग्यापि बकं भीमो न्यहनद्वसुधातले ।
भीमो विसर्जयित्वैनं समाश्वसिहि राक्षस ॥ १.१७७.६० ॥

婆摩森那虽拥抱着巴卡,仍将他击倒在地;随后婆摩森那放开他,说道:“放宽心吧,罗刹。”

1.177.61

इत्युक्त्वा पुनरास्फोट्य उत्तिष्ठेति च सोऽब्रवीत् ।
समुत्पत्य ततः क्रुद्धो रूपं कृत्वा महत्तरम् ॥ १.१७७.६१ ॥

说完这话,他再次拍打双臂,喊道:“起来!”随即愤怒地跃起,把自己的身形变得更加庞大。

1.177.62

विरूपः सहसा तस्थौ तर्जयित्वा वृकोदरम् ।
अहसद्भीमसेनोऽपि राक्षसं भीमदर्शनम् ॥ १.१७७.६२ ॥

那丑陋的罗刹突然站起,恐吓狼腹(Vṛkodara)。看到这个令人恐惧的罗刹,毗摩森那也笑了起来。

1.177.63

असौ गृहीत्वा पाणिभ्यां पृष्ठतश्च व्यवस्थितः ।
जानुभ्यां पीडयित्वाथ पातयामास भूतले ॥ १.१७७.६३ ॥

他用双手抓住他,从背后站定;随后用膝盖压住他,将他摔倒在地。

1.177.64

पुनः क्रुद्धो विसृज्यैनं राक्षसं क्रोधजीवितम् ।
स्वां कटीमीषदुन्नम्य बाहू तस्य परामृशत् ॥ १.१७७.६४ ॥

他再次愤怒,松开了那个以愤怒为生命的罗刹。他稍稍挺起腰身,抓住了对方的双臂。

1.177.65

तस्य बाहू समादाय त्वरमाणो वृकोदरः ।
उत्क्षिप्य चावधूयैनं पातयन्बलवान्भुवि ॥ १.१७७.६५ ॥

狼腹抓住他的双臂,迅速将他举起、猛摇,力大的毗摩将他摔落在地。

1.177.66

तं तु वामेन पादेन क्रुद्धो भीमपराक्रमः ।
उरस्येनं समाजघ्ने भीमस्तु पतितं भुवि ॥ १.१७७.६६ ॥

于是勇猛无比的毗摩愤怒地用左脚踢向倒在地上的他的胸膛。

1.177.67

व्यात्ताननेन घोरेण लम्बजिह्वेन रक्षसा ।
तेनाभिद्रुत्य भीमेन भीमो मूर्ध्नि समाहतः ॥ १.१७७.६७ ॥

那个张着可怖大口、长舌的罗刹冲上前来,击中了毗摩的头部。

1.177.68

एवं निहन्यमानः स राक्षसेन बलीयसा ।
रोषेण महताऽऽविष्टो भीमो भीमपराक्रमः ॥ १.१७७.६८ ॥

毗摩被强大的罗刹如此击打,这位勇猛可畏的毗摩充满了巨大的愤怒。

1.177.69

गृहीत्वा मध्यमुत्क्षिप्य बली जग्राह राक्षसम् ।
तावन्योन्यं पीडयन्तौ पुरुषादवृकोदरौ ॥ १.१७७.६९ ॥

勇猛的毗摩抓住罗刹的腰将他举起,那两个食人、狼腹的人彼此挤压。

1.177.70

मत्ताविव महानागावन्योन्यं विचकर्षतुः ॥ १.१७७.७० ॥

如同两头发狂的大象,他们互相拉扯。

1.177.71

बाहुविक्षेपशब्दैश्च भीमराक्षसयोस्तदा ।
वेत्रकीयपुरी सर्वा वित्रस्ता समपद्यत ॥ १.१७७.७१ ॥

那时,毗摩与罗刹挥臂的声响使整个吠陀克利耶城都充满恐惧。

1.177.72

तयोर्वेगेन महता तत्र भूमिरकम्पत ।
पादपान्वीरुधश्चैव चूर्णयामासतू रयात् ॥ १.१७७.७२ ॥

二人以巨大的力量,使那里的大地震动;他们迅速地将树木和藤蔓都碾碎了。

1.177.73

समागतौ च तौ वीरावन्योन्यवधकाङ्क्षिणौ ।
गिरिभिर्गिरिशृह्गैश्च पाषाणैः पर्वतच्युतैः ॥ १.१७७.७३ ॥

那两位英雄彼此渴望对方死亡,相遇了,他们用山岳、山峰和从山上滚落的巨石相搏。

1.177.74

अन्योन्यं ताडयन्तौ तौ चूर्णयामासतुस्तदा ।
आयामविस्तराभ्यां च परितो योजनद्वयम् ॥ १.१७७.७४ ॥

二人互相击打,那时便将长宽周围两由旬之地都碾碎了。

1.177.75

निर्महीरुहपाषाणतृणकुञ्जलतावलिम् ।
चक्रतुर्युद्धदुर्मत्तौ कूर्मपृष्ठोपमां महीम् ॥ १.१७७.७५ ॥

二人在战斗中狂怒,拔起树木、岩石、草丛、灌木和藤蔓,使大地如同龟背。

1.177.76

मुहूर्तमेवं संयुध्य समं रक्षःकुरूद्वहौ ।
ततो रक्षोविनाशाय मतिं कृत्वा कुरूत्तमः ॥ १.१७७.७६ ॥

二人如此势均力敌地搏斗了片刻后,那位库鲁族之最便决意要消灭这罗刹。

1.177.77

दन्तान्कटकटीकृत्य दष्ट्वा च दशनच्छदम् ।
नेत्रे संवृत्य विकटं तिर्यक्प्रैक्षत राक्षसम् ॥ १.१७७.७७ ॥

他咬牙切齿,咬着嘴唇,凶狠地眯起双眼,斜眼瞪着罗刹。

1.177.78

अथ तं लोलयित्वा तु भीमसेनो महाबलः ।
अगृह्णात्परिरभ्यैनं बाहुभ्यां परिरभ्य च ॥ १.१७७.७८ ॥

于是大力的婆罗门般的比马塞纳猛然摇晃他,抓住他,用双臂紧紧拥抱住他。

1.177.79

जानुभ्यां पार्श्वयोः कुक्षौ पृष्ठे वक्षसि जघ्निवान् ।
भग्नोरुबाहुहृच्चैव विस्रंसद्देहबन्धनः ॥ १.१७७.७९ ॥

他以膝撞击其两侧、腹部、背部与胸部;大腿、双臂与心脏皆被折断,身体的束缚松弛了。

1.177.80

प्रस्वेददीर्घनिश्वासो निर्यञ्जीवाक्षितारकः ।
अजाण्डास्फोटनं कुर्वन्नाक्रोशंश्च श्वसञ्छनैः ॥ १.१७७.८० ॥

他大汗淋漓,长叹不止,生命渐逝,眼珠外凸,发出如蛋壳破裂般的声音,呼喊着,缓慢地喘息。

1.177.81

भूमौ निपत्य विलुठन्दण्डाहत इवोरगः ।
विस्फुरन्तं महाकायं परितो विचकर्ष ह ॥ १.१७७.८१ ॥

倒在地上,像被棍棒击打的蛇一样翻滚挣扎,他把那剧烈抽搐的庞大身躯拖向四面八方。

1.177.82

विकृष्यमाणो वेगेन पाण्डवेन बलीयसा ।
समयुज्यत तीव्रेण श्रमेण पुरुषादकः ॥ १.१७७.८२ ॥

被强大的般度之子急速拖曳,这食人者以猛烈的气力投入了搏斗。

1.177.83

हीयमानबलं रक्षः समीक्ष्य पुरुषर्षभः ।
निष्पिष्य भूमौ जानुभ्यां समाजघ्ने वृकोदरः ॥ १.१७७.८३ ॥

见罗刹力气渐衰,人中雄牛狼腹将他按倒在地,以膝猛击。

1.177.84

ततो।ञस्य जानुना पृष्ठमवपीड्य बलादिव ।
बाहुना परिजग्राह दक्षिणेन शिरोधराम् ॥ १.१७७.८४ ॥

随后以膝用力压住他的背,以右臂扼住他的颈项。

1.177.85

सव्येन च कटीदेशे गृह्य वाससि पाण्डवः ।
जानुन्यारोप्य तत्पृष्ठं महाशब्दं बभञ्ज ह ॥ १.१७७.८५ ॥

般檀婆以左手抓住他腰间的衣服,将他举到膝上,发出巨大声响,折断了他的脊背。

1.177.86

ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशांपते ।
भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः ॥ १.१७७.८६ ॥

于是,人民之主啊,当那恐怖的罗刹被毗摩折断之时,血从他的口中涌出。