摩诃婆罗多 · 章 1.179
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.179.1
ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम् ।
अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः ॥ १.१७९.१ ॥
那些人中猛虎般的般度之子杀死罗刹巴卡之后,接下来做了什么,婆罗门啊?
1.179.2
तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम् ।
अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने ॥ १.१७९.२ ॥
大王啊,他们杀死罗刹巴卡后,就住在一位婆罗门的家中,研习至高的吠陀。
1.179.3
ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः ।
प्रतिश्रयार्थी तद्वेश्म ब्राह्मणस्याजगाम ह ॥ १.१७९.३ ॥
过了几天,一位持守坚定誓愿的婆罗门为寻求住处,来到了那位婆罗门的家中。
1.179.4
स म्यक् पूजयित्वा तं विप्रं विप्रर्षभस्तदा ।
ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रतः ॥ १.१७९.४ ॥
于是这位婆罗门中的俊杰恭敬地款待了那位婆罗门,并为他提供住处;他的誓愿始终是款待一切宾客。
1.179.5
ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः ।
उपासाञ्चक्रिरे विप्रं कथयन्तं कथाः शुभाः ॥ १.१७९.५ ॥
然后,所有那些人中之牛般的般度之子,与贡蒂一起,侍奉那位向他们讲述吉祥故事的婆罗门。
1.179.6
कथयामास देशांश्च तीर्थानि सरितस्तथा ।
राज्ञश्च विविधाश्चर्यान्देशांश्चैव पुराणि च ॥ १.१७९.६ ॥
他叙述了各地、圣渡口与河流,以及诸王的种种奇迹,还有各地与城市。
1.179.7
स तत्राकथयद्विप्रः कथान्ते जनमेजय ।
पञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम् ॥ १.१७९.७ ॥
嗟乎,阇那密阇耶,故事终了时,那位婆罗门讲述了般遮罗人中耶阇娑娜尼(德劳帕迪)奇异的自选夫婿大会。
1.179.8
धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः ।
अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे ॥ १.१७९.८ ॥
叙述了持国(达湿吒笃摩那)的出生、尸红丁的出生,以及俱卢在德鲁波陀的大祭典中,黑天女(德劳帕迪)非胎生的缘由。
1.179.9
तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः ।
विस्तरेणैव पप्रच्छुः कथां ते पुरुषर्षभाः ॥ १.१७९.९ ॥
在世间听闻那位大德最为奇异的事迹后,那些人中之雄便详细地询问了这段故事。
1.179.10
कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात् ।
वेदीमध्याच्च कृष्णायाः संभवः कथमद्भुतः ॥ १.१७९.१० ॥
德鲁波陀之子持国(达湿吒笃摩那)如何从火中诞生,黑天女又如何奇异地从祭坛中央诞生?
1.179.11
कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत ।
धृष्टद्युम्नो महेष्वासः कथं द्रोणस्य मृत्युदः।
कथं विप्र सखायौ तौ भिन्नौ कस्य कृतेन वा ॥ १.१७९.११ ॥
持国如何从大弓箭手德罗纳那里学会了所有兵器?那位大弓箭手持国又如何成为了德罗纳的死因?婆罗门啊,那两位朋友又因谁的行为或如何而分离?
1.179.12
एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः ।
कथयामास तत्सर्वं द्रौपदीसंभवं तदा ॥ १.१७९.१२ ॥
大王啊,那婆罗门被那些人中之雄这样催请,便讲述了德劳帕迪出生的全部经过。