Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.180

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.180.1

गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाः ।
भरद्वाजो महाप्राज्ञः सततं संशितव्रतः ॥ १.१८०.१ ॥

在恒河之门附近,有一位大苦行者、大智者婆罗堕遮,他始终持守严格的誓愿。

1.180.2

सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम् ।
ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः ॥ १.१८०.२ ॥

他前往恒河沐浴,在那里看到先到并正在沐浴的天女ghṛtācī。

1.180.3

तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा ।
अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे तदा ॥ १.१८०.३ ॥

此时,河岸上风吹走了她的衣裳;见她衣衫滑落,仙人便生起了欲念。

1.180.4

तस्यां संसक्तमनसः कौमारब्रह्मचारिणः ।
चिरस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥ १.१८०.४ ॥

他心已系于她,自幼便守梵行,过了许久,精液竟泄出;仙人便将其置于一个器皿之中。

1.180.5

ततः समभवद्द्रोणः कुमारस्तस्य धीमतः ।
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥ १.१८०.५ ॥

于是那位智者生下一子,名为德罗纳;他全面学习了吠陀与吠陀支分。

1.180.6

भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः ।
तस्यापि द्रुपदो नाम तदा समभवत्सुतः ॥ १.१८०.६ ॥

婆罗堕遮有一位朋友,名叫普利沙塔的国王;那时他也生了一子,名叫德鲁帕达。

1.180.7

स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः ।
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥ १.१८०.७ ॥

他每日与德罗纳一同前往修行林,嬉戏并学习;刹帝利中的俊杰般色塔也是如此。

1.180.8

ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत् ।
द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः ॥ १.१८०.८ ॥

此后,般色塔去世,那位国王成为德鲁帕达。德罗纳也听说罗摩(持斧罗摩)打算将所有财富布施出去。

1.180.9

वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत् ।
आगतं वित्तकामं मां विद्धि द्रोणं द्विजोत्तम ॥ १.१८०.९ ॥

将往森林去的罗摩,婆罗堕遮之子对他说:“最优秀的再生者啊,请知道我是德罗纳,为求财富而来。”

1.180.10

शरीरमात्रमेवाद्य मया समवशेषितम् ।
अस्त्राणि वा शरीरं वा ब्रह्मन्नेकतमं वृणु ॥ १.१८०.१० ॥

如今我所余者,唯有此身。婆罗门啊,请在二者中选择一样:或是兵器,或是此身。

1.180.11

अस्त्राणि चैव सर्वाणि तेषां संहारमेव च ।
प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान् ॥ १.१८०.११ ॥

一切兵器、收回之法,以及一切兵器的施用,您都配得上传授给我。

1.180.12

तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः ।
प्रतिगृह्य तदा द्रोणः कृतकृत्योऽभवत्तदा ॥ १.१८०.१२ ॥

婆利古之裔说:“就这样吧。”便将其传授给他。德罗纳接受之后,当即心愿已成。

1.180.13

संप्रहृष्टमना द्रोणो रामात्परमसम्मतम् ।
ब्रह्मास्त्रं समनुज्ञाप्य नरेष्वभ्यधिकोऽभवत् ॥ १.१८०.१३ ॥

德罗纳心中欢喜,从罗摩处获得备受尊崇的梵天箭的许可,于是成为人中之最。

1.180.14

ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् ।
अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि मामिति ॥ १.१८०.१४ ॥

于是威猛的婆罗堕遮走近人中猛虎般的德鲁波蒂,说道:"请视我为你的朋友。"

1.180.15

नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा ।
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥ १.१८०.१५ ॥

非学者不与学者为友,非车士不与车士为友,非王者不与王者为友;那么,先前的友谊又怎能被期望呢?

1.180.16

स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान् ।
जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ॥ १.१८०.१६ ॥

这位智者在心中决定之后,就前往以般遮罗王为念的、诸位俱卢首领之城,名为那伽赛婆耶(象城,即大象城)。

1.180.17

तस्मै पौत्रान्समादाय वसूनि विविधानि च ।
प्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते ॥ १.१८०.१७ ॥

毗湿摩将孙辈及各种财物交给到来的那位智者德罗纳,并把学生托付给他。

1.180.18

द्रोणः शिष्यांस्ततः पार्थानिदं वचनमब्रवीत् ।
समानीय तु ताञ्शिष्यान्द्रुपदस्यासुखाय वै ॥ १.१८०.१८ ॥

随后德罗纳将普利塔之子这些学生召集在一起,说了这番话——实为要给般遮罗王德鲁波蒂带来痛苦。

1.180.19

आचार्यवेतनं किंचिद्धृदि यद्वर्तते मम ।
कृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः।
सोऽर्जुनप्रमुखैरुक्तस्तथाऽस्त्विति गुरुस्तदा ॥ १.१८०.१९ ॥

“我心中所想的师傅酬金,你们这些已精通武器的人应当给予;无罪者啊,请说实话。”阿周那等人如此问后,师尊当时说:“就这样吧。”

1.180.20

यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्चयाः ।
ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः ॥ १.१८०.२० ॥

当所有般度之子都精通武器、意志坚定时,德罗纳便再次就酬金说了这些话。

1.180.21

पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः ।
तस्मादाकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम् ॥ १.१८०.२१ ॥

在恒伐底城有一位名叫德鲁帕达的人王,是普利沙塔之子。请从他那里夺取那个王国,迅速交给我。

1.180.22

धार्तराष्ट्राश्च ते भीताः पाञ्चालान्पाण्डवादयः ।
धार्तराष्ट्रैश्च सहिताः पुनर्द्रोणेन चोदिताः ॥ १.१८०.२२ ॥

持国之子们感到恐惧,般度之子等人也畏惧般遮罗人;随后,他们与持国之子联合,受德罗纳催促,再次……

1.180.23

यज्ञसेनेन संगम्य कर्णदुर्योधनादयः ।
निर्जिताः संन्यवर्तन्त तथा ते क्षत्रियर्षभाः ॥ १.१८०.२३ ॥

与药茄色那(德鲁帕达)交战后,迦尔纳、难敌等人战败,那些刹帝利中的雄牛便退了回去。

1.180.24

ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि ।
द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा ॥ १.१८०.२४ ॥

于是般度的五个儿子在战斗中击败德鲁帕达,将他与其大臣一同捆绑,展示给德罗纳看。

1.180.25

महेन्द्र इव दुर्धर्षो महेन्द्र इव दानवम् ।
महेन्द्रपुत्रः पाञ्चालं जितवानर्जुनस्तदा ॥ १.१८०.२५ ॥

如因陀罗般不可战胜,如因陀罗战胜檀那婆,因陀罗之子阿周那当时征服了般遮罗。

1.180.26

तद्दृष्ट्वा तु महावीर्यं फल्गुनस्य महौजसः ।
व्यस्मयन्त जनाः सर्वे यज्ञसेनस्य बान्धवाः। ॥ १.१८०.२६ ॥

众人见到大力的般尼亚(阿周那)那般伟大的勇力,尊那色纳的所有亲族都惊讶不已。

1.180.27

प्रार्थयामि त्वया सख्यं पुनरेव नराधिप ।
अराजा किल नो राज्ञः सखा भवितुमर्हति ॥ १.१८०.२७ ॥

人主啊,我再次请求与你结交。不是国王的人,不配做我们这样国王的朋友。

1.180.28

अतः प्रयतितं राज्ये यज्ञसेन त्वया सह ।
राजाऽसि दक्षिणे कूले भागीरथ्याहमुत्तरे ॥ १.१८०.२८ ॥

因此,尊那色纳啊,让我们共同在国土上努力吧:你是婆吉罗提河南岸的国王,而我在北岸。

1.180.29

एवमुक्तो हि पाञ्चाल्यो भारद्वाजेन धीमता ।
उवाचास्त्रविदां श्रेष्ठं द्रोणं ब्राह्मणसत्तमम् ॥ १.१८०.२९ ॥

智慧的婆罗堕遮如此说后,般遮罗王对德高于众、精通武器的德罗纳(最优婆罗门)说道。

1.180.30

एवं भवतु भद्रं ते भारद्वाज महामते ।
सख्यं तदेव भवतु शश्वद्यदभिमन्यसे ॥ १.१८०.३० ॥

就这样吧。愿你吉祥,大智的婆罗堕遮啊。你所愿意的友谊,愿它永远如你所愿。

1.180.31

एवमन्योन्यमुक्त्वा तौ कृत्वा सख्यमनुत्तमम् ।
जग्मतुर्द्रोणपाञ्चाल्यौ यथागतमरिन्दमौ ॥ १.१८०.३१ ॥

二人如此互相言语,结下无上的友谊之后,这两位降伏敌人的英雄——德罗纳与般遮罗王——便沿来路返回了。

1.180.32

असत्कारः स तु महान्मुहूर्तमपि तस्य तु ।
नापैति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत् ॥ १.१८०.३२ ॥

那份巨大的羞辱连片刻也未从国王心中消去;他心情沉郁,日渐消瘦。