摩诃婆罗多 · 章 1.185
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.185.1
गते भगवति व्यासे पाण्डवा हृष्टमानसाः ।
ते प्रयाता नरव्याघ्रा मात्रा सह परन्तपाः ॥ १.१८५.१ ॥
尊者毗耶娑离去后,心怀喜悦的般度五子与母亲一同启程。他们是人中之虎,焚烧敌人的英雄。
1.185.2
ब्राह्मणान्गच्छतो पश्यन्पाञ्चालान्सगणान्पथि ।
अथ ते ब्राह्मणा ऊचुः पाण्डवान्ब्रह्मचारिणः ॥ १.१८५.२ ॥
他们在路上看见婆罗门与般遮罗人及其随从同行,于是那些婆罗门对身为梵行学徒的般度五子说道。
1.185.3
क्व भवन्तो गमिष्यन्ति कुतो वाऽऽगच्छथेति ह ।
प्रयातानेकचक्रायाः सोदर्यान्देवदर्शिनः ॥ १.१८५.३ ॥
“你们将往何处去,又从何处来?”他们问道。从多轮之城出发的同胞兄弟,容貌如天神。
1.185.4
भवन्तो नोऽभिजानन्तु सहितान्ब्रह्मचारिणः ।
गच्छतो नस्तु पाञ्चालान्द्रुपदस्य पुरं प्रति ॥ १.१८५.४ ॥
愿你们认识我们:我们是同行的梵行学徒,正前往般遮罗人的德鲁帕达之城。
1.185.5
इच्छामो भवतो ज्ञातुं परं कौतूहलं हि नः ॥ १.१८५.५ ॥
我们希望从你们那里得知;我们的好奇心很强。
1.185.6
एते सार्धं प्रयाताः स्मो वयमप्यत्र गामिनः ।
तत्राप्यद्भुतसङ्काश उत्सवो भविता महान् ॥ १.१८५.६ ॥
这些人与我们一同启程,我们也从此地前往。那里也将举行一场宏大而令人惊叹的盛会。
1.185.7
ततस्तु यज्ञसेनस्य द्रुपदस्य महात्मनः ।
यासावयोनिजा कन्या स्थास्यते सा स्वयंवरे ॥ १.१८५.७ ॥
随后,大心的般遮罗王德鲁帕达(祠主之子)那位非胎生的女儿,将站立于自选夫婿的仪式上。
1.185.8
दर्शनीयाऽनवद्याङ्गी सुकुमारी यशस्विनी ।
धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः ॥ १.१८५.८ ॥
她容貌可爱,肢体无瑕,柔美而光荣;她是威猛的德罗纳之敌德里什塔笃姆那的妹妹。
1.185.9
जातो यः पावकाच्छूरः सशरः सशरासनः ।
सुसमिद्धान्महाभागः सोमकानां महारथः ॥ १.१८५.९ ॥
他是从火中诞生的勇士,持箭执弓,大福泽者,是苏摩迦人的大车战士。
1.185.10
यस्मिन्संजायमाने हि वागुवाचाशरीरिणी ।
एष मृत्युश्च शिष्यश्च भारद्वाजस्य जायते ॥ १.१८५.१० ॥
他出生时,有无形之声说道:“此人将为婆罗堕遮之死,又为其弟子而生。”
1.185.11
स्वसा तस्य तु वेद्याश्च जाता तस्मिन्महामखे ।
स्त्रीरत्नमसितापाङ्गी श्यामा नीलोत्पलद्युतिः ॥ १.१८५.११ ॥
在那场大祭中,他的妹妹从祭坛诞生:女子中的珍宝,黑眼,黝黑,有青莲般的光彩。
1.185.12
तां यज्ञसेनस्य सुतां द्रौपदीं परमां स्त्रियम् ।
गच्छामस्तत्र वै द्रष्टुं तं चैवास्याः स्वयंवरम् ॥ १.१८५.१२ ॥
我们去那里看望德罗波蒂,那位祠主之女、至上之女子,也去观看她的自选夫婿仪式。
1.185.13
राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः ।
स्वाध्यायवन्तः शुचयो महात्मानो धृतव्रताः ॥ १.१८५.१३ ॥
国王与王子,行祭祀者,施予丰厚祭礼者,专注诵读吠陀者,清净、大德并持守誓愿者,
1.185.14
तरुणा दर्शनीयाश्च बलवन्तो दुरासदाः ।
महारथाः कृतास्त्राश्च समेष्यन्तीह भूमिपाः ॥ १.१८५.१४ ॥
年轻、英俊、强大、难以抗拒、伟大的车战勇士并精通武艺的国王将在此齐聚。
1.185.15
ते तत्र विविधं दानं विजयार्थं नरेश्वराः ।
प्रदास्यन्ति धनं गाश्च भक्ष्यभोज्यानि सर्वशः ॥ १.१८५.१५ ॥
那些人主为求胜利,将在那里施予各种布施:财富、牛只,以及各式饮食。
1.185.16
प्रतिलप्स्यामहे सर्वं दृष्ट्वा कृष्णां स्वयंवरे ।
यं च सा क्षत्रियं रङ्गे कुमारी वरयिष्यति ॥ १.१८५.१६ ॥
在自选夫婿的仪式上见到克利希那,我们将得到一切回报;也将看到那位少女在场上选中的刹帝利。
1.185.17
तदा वैतालिकाश्चैव नर्तकाः सूतमागधाः ।
निबोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः ॥ १.१८५.१७ ॥
届时,吟唱晨曲的吠泰利迦、舞者、御者歌者与赞者,以及来自各国的大力宣告者也将齐聚。
1.185.18
एतत्कौतूहलं तत्र दृष्ट्वा वै प्रतिगृह्य च ।
सहास्माभिर्महात्मानो मात्रा सह निवत्स्यथ ॥ १.१८५.१८ ॥
诸位大德,在那里见到这场盛况并领受布施之后,你们将与我们以及你们的母亲一同居住。
1.185.19
दर्शनीयांश्च वः सर्वानेकरूपानवस्थितान् ।
समीक्ष्य कृष्मा वरयेत्संगत्यान्यतमं पतिम् ॥ १.१८५.१९ ॥
你们都俊美,容貌相同地站立;克利须那(黑公主)看过之后,应当走近其中一人,选他为夫。
1.185.20
अयमेकश्च वो भ्राता दर्शनीयो महाभुजः ।
नियुध्यमानो विजयेत्संगत्य द्रविणं महत् ॥ १.१८५.२० ॥
你们中的这位兄弟,英俊而臂力强大,角力获胜,在比试中赢得巨大的财富。
1.185.21
परमं भो गमिष्यामो द्रष्टुं तत्र स्वयंवरम् ।
द्रौपदीं यज्ञसेनस्य कन्यां तस्यास्तथोत्सवम् ॥ १.१८५.२१ ॥
诸位,我们一定要去那里观看自选夫婿的大会,看望耶祈那塞那(Yajñasena)的女儿德罗波蒂及她的盛会。