Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.191

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.191.1

किंनिमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः ।
वसतोराश्रमे दिव्ये शंस नः सर्वमेव तत् ॥ १.१९१.१ ॥

维首米特拉与伐悉吒在神圣的修行林中居住时,因何缘故结下了仇怨?请把这一切都告诉我们。

1.191.2

इदं वासिष्ठमाख्यानं पुराणं परिचक्षते ।
पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे ॥ १.१९१.२ ॥

般度之子啊,这则关于伐悉吒的古老传说在所有世界中都有讲述。请照原样从我这里听来。

1.191.3

कान्यकुब्जे महानासीत्पार्थिवो भरतर्षभ ।
गाधीति विश्रुतो लोके कुशिकस्यात्मसंभवः ॥ १.१९१.३ ॥

婆罗多族中的雄牛啊,在羯若鞠阇有一位名叫伽陀的大王,闻名于世,是拘尸迦自生之子。

1.191.4

तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः ।
विश्वामित्र इति ख्यतो बभूव रिपुमर्दनः ॥ १.१९१.४ ॥

这位正法之人的儿子名叫毗首密多罗,闻名于世。他拥有强大的军队与车乘,是摧伏敌人的勇士。

1.191.5

स चचार सहामात्यो मृगयां गहने वने ।
मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु ॥ १.१९१.५ ॥

他与大臣们一同在茂密的森林中打猎。在美丽的沙漠平原上,他用箭射穿鹿与野猪。

1.191.6

व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः ।
आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति ॥ १.१९१.६ ॥

人中之雄啊,他因劳累而疲惫、口渴,又在寻找猎物,便朝伐悉吒的修行林走去。

1.191.7

तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः ।
विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया ॥ १.१९१.७ ॥

仙人中最尊贵的婆悉吒见他到来,便以敬意接待了人中最优秀者毗首密多罗。

1.191.8

पाद्यार्घ्याचमनीचैस्तं स्वागतेन च भारत ।
तथैव परिजग्राह वन्येन हविषा तदा ॥ १.१९१.८ ॥

婆罗多之子啊,他以洗足水、供养水、漱口水和欢迎之语款待他;同样,他那时也以野生的供品招待了他。

1.191.9

तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः ।
उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः ॥ १.१९१.९ ॥

随后,有人对大度的婆悉吒的如意牛说:“赐予所愿吧”,她便挤出了所愿之物。

1.191.10

बाष्पाढ्यस्योदनस्यैव राशयः पर्वतोपमाः ।
निष्ठानानि च सूपांश्च दधिकुल्यास्तथैव च ॥ १.१९१.१० ॥

蒸腾的米饭堆积如山,同样,烹制好的菜肴、羹汤,以及凝乳之河也是如此。

1.191.11

कूपांश्च घृतसंपूर्णान्गौड्यान्नानि सहस्रशः ।
इक्षून्मधूनि लाजांश्च मैरेयांश्च वरासवान् ॥ १.१९१.११ ॥

盛满酥油的井,成千上万的红糖制食物,甘蔗,蜂蜜,炒米,美酒麦雷耶,以及上等的烈酒。

1.191.12

ग्राम्यारण्याश्चौषधीश्च दुदुहे पय एव च ।
षड्रसं चामृतनिभं रसायनमनुत्तमम् ॥ १.१९१.१२ ॥

她还挤出了村野和森林中的草药与乳汁,以及如甘露般的六味妙药——无与伦比的长生药。

1.191.13

भोजनीयानि पेयानि भक्ष्याणि विविधानि च ।
लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुना ॥ १.१९१.१३ ॥

可食之物、可饮之物、种种可嚼之食,如甘露般可舔之物,以及可啜之物,阿周那啊。

1.191.14

रत्नानि च महार्हाणि वासांसि विविधानि च ।
तैः कामैः सर्वसंपूर्णैः पूजितश्च महिपतिः ॥ १.१९१.१४ ॥

还有极其珍贵的宝石和种种衣服。以那些应有尽有的所欲之物,国王受到了款待。

1.191.15

सामात्यः सबलश्चैव तुतोष स भृशं तदा ।
षडुन्नतां सुपार्श्वोरुं पृथुपञ्चसमावृताम् ॥ १.१९१.१५ ॥

国王与大臣及军队一同,当时大为欣喜。她有六个隆起之处,两侧和大腿都很美好,被五个宽大之处所环绕。

1.191.16

मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम् ।
सुवालघिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम् ॥ १.१९१.१६ ॥

眼如蛙目,形态优美,乳房饱满,无可指摘,尾巴优美,耳朵尖尖,角很美丽,令人心醉。

1.191.17

पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्यताम् ।
अभिनन्द्य स तां राजा नन्दिनीं गाधिनन्दनः ॥ १.१९१.१७ ॥

看着她那头颈俱长而匀称的模样,伽地之子国王惊讶不已。他赞美了难陀尼,

1.191.18

अब्रवीच्च भृशं तुष्टः स राजा तमृषिं तदा ।
अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः ॥ १.१९१.१८ ॥

于是国王非常欣喜,对那位仙人说:"婆罗门啊,用一亿头牛来换,或者用我的王国来换,请把她给我。"

1.191.19

नन्दिनीं संप्रयच्छस्व भुङ्क्ष्व राज्यं महामुने ।
देवतातिथिपित्रर्थं याज्यार्थं च पयस्विनी ॥ १.१९१.१९ ॥

大仙啊,请把难田尼给我,并享受王国吧。这头产奶的母牛是供奉给诸神、宾客、祖先和祭祀之用的。

1.191.20

अदेया नन्दिनीयं वै राज्येनापि तवानघ ।
रत्नं हि भगवन्नेतद्रत्नहारी च पार्थिवः।
क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः ॥ १.१९१.२० ॥

无罪的人啊,难田尼即使用你的王国也不能交换。尊贵的大仙,这是宝物,而国王是夺取宝物的人。我是刹帝利,而你是以苦行和诵读为修行之道的婆罗门。

1.191.21

ब्राह्णेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु ।
अर्बुदेन गवां यस्त्वं न ददासि ममेप्सितम् ॥ १.१९१.२१ ॥

平静自持的婆罗门哪里会有力量?即使以一亿头牛相换,你也不给我所求之物。

1.191.22

स्वधर्मं न प्रहास्यामि नेष्यामि च बलेन गाम् ।
बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः ॥ १.१९१.२२ ॥

我不会舍弃自己的本分,我将以武力带走这头牛。你是掌握权力的国王,是臂力强大的刹帝利。

1.191.23

यथेच्छसि तथा क्षिप्रं कुरु मा त्वं विचारय ।
एवमुक्तस्तथा पार्थ विश्वामित्रो बलादिव ॥ १.१९१.२३ ॥

你想怎样就快快做,不要犹豫。帕尔塔啊,听到这话,毗奢密多罗便仿佛要以武力夺牛而去。

1.191.24

हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम् ।
सा तदा ह्रियमाणा च विश्वामित्रबलैर्बलात्।
कशादण्डप्रणुदिता काल्यमाना इतस्ततः ॥ १.१९१.२४ ॥

他用武力夺走了那头如天鹅或月亮般光彩照人的难田尼。那时,她被毗奢密多罗的军队强行带走,被鞭子和棍棒驱赶着,被拖来拖去。

1.191.25

हंभायमाना कल्याणी वसिष्ठस्याथ नन्दिनी ।
आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी ॥ १.१९१.२५ ॥

难陀尼(婆悉吒之)吉祥的母牛哞叫着来到他面前,面向这位尊贵的仙人而立,哦,贝尔塔。

1.191.26

भृशं च ताड्यमाना वै न जगामाश्रमात्ततः ।
शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः ॥ १.१९१.२६ ॥

虽被猛烈鞭打,她仍未离开修行所。哦,善良的女子,我一次又一次听到你的哀鸣。

1.191.27

ह्रियसे त्वं बलाद्भद्रे विश्वामित्रेण नन्दिनि ।
किं कर्तव्यं मया तत्र क्षमावान्ब्राह्मणो ह्यहम्। ॥ १.१९१.२७ ॥

哦,善良的难陀尼,毗首弥多罗正用强力带走你。我在那里能做什么?我是一个能忍耐的婆罗门。

1.191.28

सा भयान्नन्दिनी तेषां बलानां भरतर्षभ ।
विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत् ॥ १.१९१.२८ ॥

哦,婆罗多族的雄牛,难陀尼因惧怕那些军队,因惧怕毗首弥多罗而惊惶,来到婆悉吒身边。

1.191.29

कशाग्रदण्डाभिहतां क्रोशन्तीं मामनाथवत् ।
विश्वामित्रबलैर्घोरैर्भगवन् किमुपेक्षसे ॥ १.१९१.२९ ॥

我被鞭梢抽打,像无人庇护一样哀叫,毗首弥多罗那凶猛的军队正在殴打我。哦,尊贵者,您为何置之不理?

1.191.30

एवं तस्यां तदा पार्थ धर्षितायां महामुनिः ।
न चुक्षुभे तदा धैर्यान्न चचाल धृतव्रतः ॥ १.१९१.३० ॥

哦,贝尔塔,当她这样遭受侵犯时,大仙并未惊动;他因忍耐与誓愿坚定,并不动摇。

1.191.31

क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम् ।
क्षमा मां भजते यस्माद्गम्यतां यदि रोचते ॥ १.१९१.३१ ॥

刹帝利的力量是光焰,婆罗门的力量是忍耐。因为忍耐与我同在,如果你愿意,便可以离去。

1.191.32

किं नु त्यक्ताऽस्मि भगवन्यदेवं त्वं प्रभाषसे ।
अत्यक्ताऽहं त्वया ब्रह्मन्नेतुं शक्या न वै बलात् ॥ १.१९१.३२ ॥

尊者啊,你这样说,难道我已被抛弃了吗?婆罗门啊,你并没有抛弃我,我不能被强行带走。

1.191.33

न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते ।
दृढेन दाम्ना बद्ध्वैष वत्सस्ते हियते बलात् ॥ १.१९१.३३ ॥

吉祥的人啊,我不抛弃你;如果可以,就留下吧。你的小牛被结实的绳子捆绑,正被强行带走。

1.191.34

स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी ।
ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ रौद्रदर्शना ॥ १.१९१.३४ ॥

乳牛听到婆罗门仙人“留下”的话,便昂起头颈,光辉闪耀,形貌可怖。

1.191.35

क्रोधरक्तेक्षणा सा गौर्हंभारवघनस्वना ।
विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः ॥ १.१९१.३५ ॥

那头怒目通红的母牛,以雷鸣般的哞叫声,把毗奢蜜多罗的军队驱散四方。

1.191.36

कशाग्रदण्डाभिहता काल्यमाना ततस्ततः ।
क्रोधरक्तेक्षणा क्रोधं भूय एव समाददे ॥ १.१९१.३६ ॥

她被鞭梢和棍棒击打,四处驱赶,怒目通红,那母牛于是又一次激起了更大的愤怒。

1.191.37

आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ ।
अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत् ॥ १.१९१.३७ ॥

她的身躯因愤怒而燃烧,如同正午的太阳般闪耀,不断从尾巴上喷洒出大量的火炭之雨。

1.191.38

असृजत्पह्लवान्पुच्छात्प्रस्रवाद्द्राविडाञ्छकान् ।
योनिदेशाच्च यवानाञ्शकृतः शबरान्बहून् ॥ १.१९१.३८ ॥

她从尾巴中创造了帕拉瓦人,从乳房中创造了德拉维达人和塞人,从阴部创造了希腊人,从粪便中创造了许多沙巴拉人。

1.191.39

मूत्रतश्चासृजत्कांश्चिच्छबरांश्चैव पार्श्वतः ।
पौण्ड्रान्किरातान्यवनान्सिंहलान्बर्बरान्खसान् ॥ १.१९१.३९ ॥

她从尿中创造了一些沙巴拉人,从两胁创造了宾陀人、基拉塔人、希腊人、僧伽罗人、野蛮人和卡萨人。

1.191.40

चिबुकांश्च पुलिन्दांश्च चीनान्हूणान्सकेरलान् ।
ससर्ज फेनतः सा गौर्म्लेच्छान्बहुविधानपि ॥ १.१९१.४० ॥

还有奇布卡人、补林达人、中国人、匈人和喀拉拉人;那头牛又从泡沫中创造了多种不同的蛮族(mleccha)。

1.191.41

तैर्विसृष्टैर्महासैन्यैर्नानाम्लेच्छगणैस्तदा ।
नानावरणसंछन्नैर्नानायुधधरैस्तथा ॥ १.१९१.४१ ॥

那时,由它们所释放的庞大军队、各种蛮族部众,身披各式铠甲、手持各式兵器,(战场被填满了)。

1.191.42

अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः ।
एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः ॥ १.१९१.४२ ॥

在毗湿伏罗弥多罗注视之下,愤怒的战士们将(大地)铺满;那时每一名战士都被五人或七人所包围。

1.191.43

अस्त्रवर्षेण महता वध्यमानं बलं तदा ।
प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः ॥ १.१९१.४३ ॥

那时,大军遭大箭雨所击,在毗首弥多罗眼前四散溃败,四面惊恐。

1.191.44

तस्य तच्चतुरङ्गं वै बलं परमदुःसहम् ।
प्रभग्नं सर्वतो घोरं पयस्विन्या विनिर्जितम् ॥ १.१९१.४४ ॥

他的四军,极难抵挡,四面被可怕地击溃,被乳牛彻底战胜。

1.191.45

न च प्राणैर्वियुज्यन्ते केचित्तत्रास्य सैनिकाः ।
विश्वामित्रस्य संक्रुद्धैर्वासिष्ठैर्भरतर्षभ ॥ १.१९१.४५ ॥

然而他的士兵中无一人丧命,婆罗多族的雄牛啊,那是被愤怒的伐悉色吒之徒所击。

1.191.46

सा गौस्तत्सकलं सैन्यं कालयामास दूरतः ।
विश्वामित्रस्य तत्सैन्यं काल्यमानं त्रियोजनम् ॥ १.१९१.४६ ॥

那头牛从远处驱散了全部大军;毗首弥多罗的军队被驱逐,追赶达三由旬。

1.191.47

क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत ।
विश्वामित्रस्ततो दृष्ट्वा क्रोधाविष्टः स रोदसी ॥ १.१९१.४७ ॥

他们哭喊着,惊惧不安,却找不到任何保护者;毗首弥多罗见此,被愤怒充满,震动天地。

1.191.48

ववर्ष शरवर्षाणि वसिष्ठे मुनिसत्तमे ।
घोररूपांश्च नाराचान्क्षुरान्भल्लान्महामुनिः ॥ १.१९१.४८ ॥

这位大仙向圣者中最优秀的伐悉色吒降下箭雨:形状可怖的那罗遮箭、刃如剃刀的刀箭,以及带倒钩的婆罗箭。

1.191.49

विश्वामित्रप्रयुक्तांस्तान्वैणवेन व्यमोचयत् ।
वसिष्ठस्य तदा दृष्ट्वा कर्मकौशलमाहवे ॥ १.१९१.४९ ॥

毗首彌多羅所發之箭,婆西什塔以竹杖將其化解;見婆西什塔在戰中的這般技藝

1.191.50

विश्वामित्रोऽपि कोपेन भूयः शत्रुनिपातनः ।
दिव्यास्त्रवर्षं तस्मै स प्राहिणोन्मुनये रुषा ॥ १.१९१.५० ॥

毗首彌多羅亦怒氣衝天,身為摧敵者,再次向那位仙人震怒地傾下一陣神兵之雨

1.191.51

आग्नेयं वारुणं चैन्द्रं याम्यं वायव्यमेव च ।
विससर्ज महाभागे वसिष्ठे ब्रह्मणः सुते ॥ १.१९१.५१ ॥

火神、水神、因陀羅、閻摩與風神之兵器,大幸者啊,他也射向梵天之子婆西什塔

1.191.52

अस्त्राणि सर्वतो ज्वालां विसृजन्ति प्रपेदिरे ।
युगान्तसमये घोराः पतङ्गस्येव रश्मयः ॥ १.१९१.५२ ॥

兵器四面噴射火焰,疾速湧出,如同劫末之時太陽的可怖光芒

1.191.53

वसिष्ठोऽपि महातेजा ब्रह्मशक्तिप्रयुक्तया ।
यष्ट्या निवारयामास सर्वाण्यस्त्राणि स स्मयन् ॥ १.१९१.५३ ॥

大光明的婆西什塔也以梵力驅動的仗杖,含笑化解了所有兵器

1.191.54

ततस्ते भस्मसाद्भूताः पतन्ति स्म महीतले ।
अपोह्य दिव्यान्यस्त्राणि वसिष्ठो वाक्यमब्रवीत् ॥ १.१९१.५४ ॥

於是那些兵器化為灰燼,墜落於地上;婆西什塔摒除了神兵,說出了這些話

1.191.55

निर्जितोऽसि महाराज दुरात्मन्गाधिनन्दन ।
यदि तेऽस्ति परं शौर्यं तद्दर्शय मयि स्थिते ॥ १.१९१.५५ ॥

大王,邪恶的伽提之子,你已被击败。若你尚有至高的勇力,就在我站立于此时展示出来吧。

1.191.56

विश्वामित्रस्तथा चोक्तो वसिष्ठेन नराधिपः ।
नोवाच किंचिद्व्रीडाढ्यो विद्रावितमहाबलः ॥ १.१९१.५६ ॥

尽管伐悉吒如此说,人主毗首弥多罗充满羞惭,其大力已被击溃,什么也没有说。

1.191.57

दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवं तदा ।
विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत्।
धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् ॥ १.१९१.५७ ॥

毗首弥多罗见到那由梵德光辉所生的大奇迹,因刹帝利的本性而懊丧,于是说道:可耻啊,刹帝利之力!唯有梵德光辉之力才是真正的力量。

1.191.58

बलाबले विनिश्चित्य तप एव परं बलम् ।
स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम् ॥ १.१९१.५८ ॥

权衡强弱之后,他断定苦行才是至高的力量;于是他舍弃了兴盛的王国和那光辉的王者之荣。

1.191.59

भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे ।
स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा ॥ १.१९१.५९ ॥

他将享乐抛在身后,一心专注于苦行;通过苦行获得成就,以自身光辉支撑诸界,

1.191.60

तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप्तवान् ।
अपिबच्च ततः सोममिन्द्रेण सह कौशिकः ॥ १.१९१.६० ॥

他以炽热的能量烤炙一切,获得了婆罗门的地位;随后憍尸迦与因陀罗一同饮下了苏摩。

1.191.61

एवंवीर्यस्तु राजर्षिर्विप्रर्षिः संबभूव ह ॥ १.१९१.६१ ॥

如此具有威力的王仙,成为了婆罗门仙人。