摩诃婆罗多 · 章 1.198
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.198.1
पुनश्चैव महातेजा विश्वामित्रजिघांसया ।
अग्निं संभृतवान्घोरं शाक्तेयः सुमहातपाः ॥ १.१९८.१ ॥
大光明且大苦行的沙克提之子,又因想杀死毗首密多罗而生起了一团可怕的火。
1.198.2
वासिष्ठसंभृतश्चाग्निर्विश्वामित्रहितैषिणा ।
तेजसा वह्नितुल्येन ग्रस्तः स्कन्देन धीमता ॥ १.१९८.२ ॥
那由伐悉吒之子所生起的火,被希望毗首密多罗安好的智者塞建陀以等同于火的光辉吞没了。
1.198.3
राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे ।
कारणं किं पुरस्कृत्य भार्या वै सन्नियोजिता ॥ १.१९८.३ ॥
国王羯摩沙波陀以何种缘由,将妻子派遣给梵知者中最优秀的导师?
1.198.4
जानता वै परं धर्मं वसिष्ठेन महात्मना ।
अगम्यागमनं कस्मात्कृतं तेन महर्षिणा ॥ १.१९८.४ ॥
既知至上法的大德仙人伐悉吒,为何做出这种不可行的结合?
1.198.5
अधर्मिष्ठं वसिष्ठेन कृतं चापि पुरा सखे ।
एतन्मे संशयं सर्वं छेत्तुमर्हसि पृच्छतः ॥ १.१९८.५ ॥
朋友,伐悉吒往昔也曾做过极不正义之事;我既然问你,你应当为我断除这一切疑惑。
1.198.6
धनञ्जय निबोधेयं यन्मां त्वं परिपृच्छसि ।
वसिष्ठं प्रति दुर्धर्ष तथा मित्रसहं नृपम् ॥ १.१९८.६ ॥
财富的征服者啊,你所问的我将为你解说:关于伐悉吒,哦难以战胜者,也关于国王弥陀罗萨诃。
1.198.7
कथितं ते मया सर्वं यथा शप्तः स पार्थिवः ।
शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना ॥ १.१९८.७ ॥
婆罗多族中最优秀的人啊,我已将那位国王如何被伟大的婆私吒之子夏克提诅咒之事全部告诉你了。
1.198.8
स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः ।
निर्जगाम पुराद्राजा सहदारः परन्तपः ॥ १.१९८.८ ॥
被诅咒所控制的那位国王,双眼因愤怒而焦灼,焚烧敌人者,与妻子一同离开了城市。
1.198.9
अरण्यं निर्जनं गत्वा सदारः परिचक्रमे ।
नानामृगगणाकीर्णं नानासत्वसमाकुलम् ॥ १.१९८.९ ॥
他走入人迹罕至的森林,与妻子一同四处漫游;那森林里聚集着各种鹿群,充满了各样的生灵。
1.198.10
नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम् ।
अरण्यं घोरसन्नादं शापग्रस्तः परिभ्रमन् ॥ १.१९८.१० ॥
在那片覆盖着许多灌木和藤蔓、环绕着许多树木、充满可怕吼声的森林里,被诅咒抓住的国王四处徘徊。
1.198.11
स कदाचित्क्षुधाविष्टो मृगयन्भक्ष्यमात्मनः ।
ददर्श सुपरिक्लिष्टः कस्मिंश्चिन्निर्जने वने ॥ १.१९८.११ ॥
有一次,他饥饿难耐,为自己寻找食物,极为困苦,在某片人迹罕至的森林中看见了——
1.198.12
ब्राह्मणं ब्राह्मणीं चैव मिथुनायोपसंगतौ ।
तौ तं वीक्ष्य सुवित्रस्तावकृतार्थौ प्रधावितौ ॥ १.१९८.१२ ॥
一位婆罗门和一位婆罗门妇人,以夫妻之姿相聚,看见他之后极为惊恐,未能达成所愿便逃走了。
1.198.13
तयोः प्रद्रवतोर्विप्रं जग्राह नृपतिर्बलात् ।
दृष्ट्वा गृहीतं भर्तारमथ ब्राह्मण्यभाषत ॥ १.१९८.१३ ॥
二人奔逃之时,国王强行抓住了婆罗门。见丈夫被擒,婆罗门之妻便说道。
1.198.14
शृणु राजन्मम वचो यत्त्वां वक्ष्यामि सुव्रत ।
आदित्यवंशप्रभवस्त्वं हि लोके परिश्रुतः ॥ १.१९८.१४ ॥
国王啊,善守誓愿者,请听我要对你说的话。你生于日种之家,在世间享有盛名。
1.198.15
अप्रमत्तः स्थि धर्मे गुरुशुश्रूषणे रतः ।
शापोपहत दुर्धर्ष न पापं कर्तुमर्हसि ॥ १.१९८.१५ ॥
你在法中谨慎,专心侍奉师长。被诅咒所伤的不可战胜者啊,你不应作恶。
1.198.16
ऋतुकाले तु संप्राप्ते भर्तृव्यसनकर्शिता ।
अकृतार्था ह्यहं भर्त्रा प्रसवार्थं समागता ॥ १.१९८.१६ ॥
然而月经之期到来时,我因丈夫的灾难而憔悴,前来与丈夫交合以求子嗣;至今我的心愿尚未达成。
1.198.17
प्रसीद नृपतिश्रेष्ठ भर्ताऽयं मे विसृज्यताम् ।
एवं विक्रोशमानायास्तस्यास्तु न नृशंसवत् ॥ १.१९८.१७ ॥
最优秀的国王啊,请发慈悲,释放我的这位丈夫。然而对于如此哀哭的她,他并未像残忍之人那样对待。
1.198.18
भर्तारं भक्षयामास व्याघ्रो मृगमिवेप्सितम् ।
तस्याः क्रोधाभिभूताया यान्यश्रूण्यपतन्भुवि ॥ १.१९८.१८ ॥
如同老虎吞食它所渴望的鹿,他吞噬了她的丈夫。而她因愤怒而涕泪落于地上,
1.198.19
सोऽग्निः समभवद्दीप्तस्तं च देशं व्यदीपयत् ।
ततः सा शोकसंतप्ता भर्तृव्यसनकर्शिता ॥ १.१९८.१९ ॥
那火焰燃烧起来,也点燃了那个地方。此时她被悲痛煎熬,因丈夫的灾难而憔悴,
1.198.20
कल्माषपादं राजर्षिमशपद्ब्राह्मणी रुषा ।
यस्मान्ममाकृतार्थायास्त्वया क्षुद्र नृशंसवत् ॥ १.१९८.२० ॥
婆罗门妇人怒而诅咒王仙迦尔玛沙波陀道:"卑贱之人,因为你对我——愿望未遂的我——像残酷之人那样行事,
1.198.21
प्रेक्षन्त्या भक्षितो मेऽद्य प्रियो भर्ता महायशाः ।
तस्मात्त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः ॥ १.१९८.२१ ॥
今日我眼睁睁看着我心爱的、大名鼎鼎的丈夫被吞食。因此,恶毒之人,你也将被我的诅咒所刺穿……
1.198.22
पत्नीमृतावनुप्राप्य सद्यस्त्यक्ष्यसि जीवितम् ।
तेन प्रसाद्यमाना सा प्रसादमकरोत्तदा।
यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः ॥ १.१९८.२२ ॥
"在月经之期,你一接近妻子,便会立即失去性命。" 当他恳求时,她便息怒了。至于那位仙人婆私瑟吒,你所杀害的他的诸子……
1.198.23
तेन संगम्य ते भार्या तनयं जनयिष्यति ।
सते वंशकरः पुत्रो भविष्यति नृपाधम ॥ १.१९८.२३ ॥
"与他交合后,你的妻子将生下一个儿子;那将是延续家族的儿子,卑劣的国王啊。"
1.198.24
एवं शप्त्वा तु राजानं सा तमाङ्गिरसी शुभा ।
तस्यैव सन्निधौ दीप्तं प्रविवेश हुताशनम् ॥ १.१९८.२४ ॥
这样诅咒了国王之后,那位吉祥的安吉罗娑之女就在他面前走进了熊熊烈火。
1.198.25
वसिष्ठश्च महाभागः सर्वमेतदवैक्षत ।
ज्ञानयोगेन महता तपसा च परन्तप ॥ १.१९८.२५ ॥
福德广大的婆悉吒以大智慧瑜伽与苦行,洞察了这一切。啊,敌人的焚烧者!
1.198.26
मुक्तशापश्च राजर्षिः कालेन महता ततः ।
ऋतुकालेऽभिपतितो मदयन्त्या निवारितः ॥ १.१९८.२६ ॥
王仙摆脱了诅咒。过了很久,在受孕之时,他扑向摩陀衍蒂,但摩陀衍蒂阻止了他。
1.198.27
न हि सस्मार स नृपस्तं शापं काममोहितः ।
देव्याः सोऽथ वचः श्रुत्वा संभ्रान्तो नृपसत्तमः ॥ १.१९८.२७ ॥
被欲望迷惑的国王不记得那诅咒。随后听到王后的话语,这位最优秀的国王心神慌乱。
1.198.28
तं शापमनुसंस्मृत्य पर्यतप्यद्भृशं तदा ।
एतस्मात्कारणाद्राजा वसिष्ठं सन्ययोजयत्।
स्वदारेषु नरश्रेष्ठ शापदोषसमन्वितः ॥ १.१९८.२८ ॥
他想起那诅咒,便极度悲伤。因此,国王委派了婆悉吒;啊,人中之最,他背负着诅咒之罪。