Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.205

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.205.1

अजिनानि विधुन्वन्तः करकाश्च द्विजर्षभाः ।
ऊचुस्ते भीर्न कर्तव्या वयं योत्स्यामहे परान् ॥ १.२०५.१ ॥

那些二生者中的雄牛摇动着鹿皮,手持水瓶,说道:“不应恐惧,我们将与敌人作战。”

1.205.2

तानेवं वदतो विप्रानर्जुनः प्रहसन्निव ।
उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः ॥ १.२०५.२ ॥

阿周那见那些婆罗门如此说话,仿佛笑着说道:“你们站在一旁,做个旁观者吧。”

1.205.3

अहमेनानजिह्माग्रैः शतशो विकिरञ्छरैः ।
वारयिष्यामि संक्रुद्धान्मन्त्रैराशीविषानिव ॥ १.२०५.३ ॥

我将以数百支直锋之箭射散并阻挡这些愤怒的人,如同以咒语制服毒蛇。

1.205.4

इति तद्धनुरानम्य शुल्कावाप्तं महाबलः ।
भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः ॥ १.२०५.४ ॥

说完,他拉开作为奖赏赢得的那张弓,这位大力者与兄弟毗摩并肩而立,如山岳般不动。

1.205.5

ततः कर्णमुखान्दृष्ट्वा क्षत्रियान्युद्धदुर्मदान् ।
संपेततुरभीतौ तौ गजौ प्रतिगजानिव ॥ १.२०५.५ ॥

于是,他们看见以迦尔纳为首、因战斗的傲慢而狂热的刹帝利,二人无所畏惧,扑向他们,如同象群冲向敌象。

1.205.6

ऊचुश्च वाचः परुषास्ते राजानो युयुत्सवः ।
आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः ॥ १.२०५.६ ॥

那些渴望战斗的国王说出了粗暴的话:“在战场上,即便是参战的婆罗门,也有被杀死的情形。”

1.205.7

इत्येवमुक्त्वा राजानः सहसा दुद्रुवुर्द्विजान् ।
ततः कर्णो महातेजा जिष्णुं प्रति ययौ रणे ॥ १.२०५.७ ॥

众王如此说罢,突然扑向婆罗门。于是光辉赫赫的迦尔纳在战场上朝胜者(阿周那)冲去。

1.205.8

युद्धार्थी वासिताहेतोर्गजः प्रतिगजं यथा ।
भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली ॥ १.२०५.८ ॥

如同求战的象为争一只发情的母象而冲向另一头象,强大的摩德罗王沙利亚冲向了毗摩娑那。

1.205.9

दुर्योधनादयः सर्वे ब्राह्मणैः सह संगताः ।
मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाऽऽहवे ॥ १.२०५.९ ॥

难敌等众人与婆罗门交锋;起初他们温和而毫不费力地在战场上与之相搏。

1.205.10

ततोऽर्जुनः प्रत्यविध्यदापतन्तं शितैः शरैः ।
कर्णं वैकर्तनं श्रीमान्विकृष्य बलवद्धनुः ॥ १.२०५.१० ॥

于是光荣的阿周那拉满强弓,以利箭还击冲向他的毗迦尔登之子迦尔纳。

1.205.11

तेषां शराणां वेगेन शितानां तिग्मतेजसाम् ।
विमुह्यमानो राधेयो यत्नात्तमनुधावति ॥ १.२०५.११ ॥

被那些锐利、烈光的箭势所迷惑,拉陀之子迦尔纳费力地紧追着他(阿周那)。

1.205.12

तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ ।
अयुध्येतां सुसंरब्धावन्योन्यविजिगीषिणौ ॥ १.२०५.१२ ॥

这两位胜者中的佼佼者,以技艺而论不分高下;他们极为愤怒,互相渴望战胜对方,便交战起来。

1.205.13

कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे ।
इति शूरार्थवचनैरभाषेतां परस्परम् ॥ १.२०५.१३ ॥

“看那以牙还牙的报复,也看我臂膀的力量。”他们以配得上英雄的言辞彼此相向。

1.205.14

ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि ।
ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत् ॥ १.२०५.१४ ॥

于是,维迦尔坦之子迦尔纳得知阿周那双臂在世上无与伦比的威力,愤怒地与之交战。

1.205.15

अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा ।
प्रतिहत्य ननादोच्चैः सैन्यानि तदपूजयन् ॥ १.२०५.१५ ॥

此时他挡下阿周那射来的那些迅疾之箭,高声怒吼,军队为之喝彩。

1.205.16

तुष्यामि ते विप्रमुख्य भुजवीयर्स्य संयुगे ।
अविषादस्य चैवास्य शस्त्रास्त्रविजयस्य च ॥ १.२०५.१६ ॥

婆罗门中最优秀的人啊!我欣喜于你在战斗中的臂力,欣喜于这位无畏者的勇气,也欣喜于他在兵器与箭术上的胜利。

1.205.17

किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम ।
अथ साक्षाद्धरिहयः साक्षाद्वा विष्णुरच्युतः ॥ १.२०५.१७ ॥

婆罗门中最优秀的人啊!你是否就是弓箭之学本身,或是罗摩?或者你是持青色骏马的因陀罗本身,或是不朽的毗湿奴?

1.205.18

आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः ।
विप्ररूपं विधायेदं मन्ये मां प्रतियुध्यसे ॥ १.२०५.१८ ॥

你为了隐藏自己,诉诸臂力,化作这婆罗门之形;我认为你是在与我交战。

1.205.19

न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः ।
पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः ॥ १.२०५.१९ ॥

在战场上我盛怒之时,除了舍遮之主因陀罗,没有别人能与我直接交战;在般度五子中,除了戴冠的阿周那。

1.205.20

दग्धा जतुगृहे सर्वे पाण्डवाः सार्जुनास्तदा ।
विनार्जुनं वा समरे मां निहन्तुमशक्नुवन् ॥ १.२०५.२० ॥

那时,般度五子连同阿周那都在漆宫中被烧死了;没有阿周那,他们在战场上也无法杀死我。

1.205.21

तमेवंवादिनं तत्र फाल्गुनः प्रत्यभाषत ।
नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान् ॥ १.२०५.२१ ॥

当他在那里如此说话时,法尔古那(阿周那)回答道:“迦尔纳啊,我并非精通弓箭之学的人,我也不是威武的罗摩。”

1.205.22

ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः ।
ब्राह्मे पौरन्दरे चास्त्रे निष्ठितोगुरुशासनात् ॥ १.२०५.२२ ॥

我是婆罗门,是战士中最优秀者,持兵器者中的第一人;依师父的教导,我精通梵天之箭与因陀罗之箭。

1.205.23

स्थितोऽस्म्यद्य रणे जेतुं त्वां वै वीर स्थिरो भव ।
निर्जितोऽस्मीति वा ब्रूहि ततो व्रज यथासुखम् ॥ १.२०५.२३ ॥

我今日站在战场上要战胜你,英雄啊,站稳了吧。或者你就说“我败了”,然后随意离去。

1.205.24

एवमुक्त्वाऽथ कर्णस्य धनुश्चिच्छेद पाण्डवः ।
ततोऽन्यद्धनुरादाय संयोद्धुं सन्दधे शरम् ॥ १.२०५.२४ ॥

说完这些,般度之子斩断了迦尔纳的弓;然后他拿起另一张弓,搭上箭准备战斗。

1.205.25

दृष्ट्वा तच्चापि कौन्तेयश्छित्वा तद्धनुराशुगैः ।
तथा वैकर्तनं कर्णं बिभेद समरेऽर्जुनः ॥ १.२०५.२५ ॥

俱盧之子见此,以疾箭斬斷其弓,並在戰場上射穿了毗迦爾丹那之子迦爾納。

1.205.26

ततः कर्णस्तु राधेयः छिन्नछन्वा महाबलः ।
शरैरतीव विद्धाङ्गः पलायनमथाकरोत् ॥ १.२०५.२६ ॥

于是,弓被斬斷、身體被箭射得遍體鱗傷的大力者羅陀之子迦爾納便逃走了。

1.205.27

पुनरायान्मुहूर्तेन गृहीत्वा सशरं धनुः ।
ववर्ष शरवर्षाणि पार्थं वैकर्तनस्तथा ॥ १.२०५.२७ ॥

顷刻之间他又返回,拿起带箭的弓,毗迦爾丹那之子也向般度之子傾下箭雨。

1.205.28

तानि वै शरजालानि कौन्तेयोऽभ्यहनच्छरैः ।
ज्ञात्वा सर्वाञ्शरान्घोरान्कर्णोऽदावद्द्रुतं बहिः ॥ १.२०५.२८ ॥

般度的兒子用自己的箭擊碎了那箭網;迦爾納熟知所有可怖的箭,便迅速向外射出。

1.205.29

ब्राह्मं तेजस्तदाऽजय्यं मन्यमानो महारथः ।
अपरस्मिन्वनोद्देशे वीरौ शल्यवृकोदरौ ॥ १.२०५.२९ ॥

此時,這位大戰車手認為梵之力無可抵擋,在林中另一處看見了兩位英雄:沙利耶與狼腹(即毗摩)。

1.205.30

बलिनौ युद्धसंपन्नौ विद्यया च बलेन च ।
अन्योन्यमाह्वयन्तौ तु मत्ताविव महागजौ ॥ १.२०५.३० ॥

二人力量強大,精通戰鬥,兼備學識與武力,互相挑戰,如同兩頭發狂的大象。

1.205.31

मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम् ।
प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः ॥ १.२०५.३१ ॥

二人以拳和膝相互击打,拖拽、扯拉、猛力牵扯而战。

1.205.32

आचकर्षतुरन्योन्यं मुष्टिभिश्चापि जघ्नतुः ।
ततश्चटचटाशब्दः सुघोरो ह्यभवत्तयोः ॥ १.२०५.३२ ॥

二人相互拖拽,又以拳相击;于是两人身上发出了可怕的咔嚓声。

1.205.33

पाषाणसंपातनिभैः प्रहारैरभिजघ्नतुः ।
मुहूर्तं तौ तदाऽन्योन्यं समरे पर्यकर्षताम् ॥ १.२०५.३३ ॥

以如落石般的猛击相互攻击;片刻间,两人在战场上彼此拖拽翻滚。

1.205.34

ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे ।
अपातयत्कुरुश्रेष्ठो ब्राह्मणा जहसुस्तदा ॥ १.२०५.३४ ॥

于是,库鲁最优秀者婆罗毗摩以双臂将沙利耶高高举起,在战中将他摔倒;婆罗门们便笑了起来。

1.205.35

तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः ।
यच्छल्यं पातितं भूमौ नावधीद्बलिनं बली ॥ १.२०५.३५ ॥

在那里,人中雄牛婆罗毗摩那(Bhīmasena)做了一件奇事:将强大的沙利耶摔倒在地之后,这位强者没有再次打击他。

1.205.36

पातिते भीमसेनेन शल्ये कर्णे च शङ्किते ।
विस्मयः परमो जज्ञे सर्वेषां पश्यतां नृणाम् ॥ १.२०५.३६ ॥

沙利耶被婆罗毗摩那摔倒,迦尔纳感到不安,在场观看的所有人都感到极大的惊讶。

1.205.37

ततो राजसमूहस्य पश्यतो वृक्षमारुजत् ।
ततस्तु भीमं संज्ञाभिर्वारयामास धर्मराट् ॥ १.२०५.३७ ॥

当众王观看之时,他拔起了一棵树。于是法王以手势制止了怖军。

1.205.38

आकारज्ञस्तथा भ्रातुः पाण्डवोऽपि न्यवर्तत ।
धर्मराजश्च कौरव्य दुर्योधनममर्षणम् ॥ १.२०५.३८ ॥

般度之子领会了兄长的示意,也折返回来。啊,俱卢之后,法王面对愤怒的难敌。

1.205.39

अयोधयत्सभामध्ये पश्यतां वै महीक्षिताम् ।
ततो दुर्योधनस्तं तु ह्यवज्ञाय युधिष्ठिरम् ॥ १.२०५.३९ ॥

众王观看之时,他在会场中央与之交战。于是难敌轻视坚战,便与他交锋。

1.205.40

नायोधयत्तदा तेन बलवान्वै सुयोधनः ।
एतस्मिन्नन्तरेऽविध्यद्बाणेनानतपर्वणा ॥ १.२०५.४० ॥

那时,强大的苏由陀那无法与他交战。与此同时,他以一支弯节之箭射穿了坚战。

1.205.41

दुर्योधनममित्रघ्नं धर्मराजो युधिष्ठिरः ।
ततो दुर्योधनः क्रुद्धो दण्डाहत इवोरगः ॥ १.२०५.४१ ॥

法王坚战射中了灭敌者难敌。于是难敌如被杖击的毒蛇,勃然大怒,

1.205.42

प्रत्ययुध्यत राजानं यत्नं परममास्थितः ।
छित्त्वा राजा धनुः सज्यं धार्तराष्ट्रस्य संयुगे ॥ १.२०५.४२ ॥

他竭尽全力与王还击。国王在战中斩断了持弦的持国之子之弓,

1.205.43

अभ्यवर्षच्छरौघैस्तं स हित्वा प्राद्रवद्रणम् ।
दुःशासनस्तु संक्रुद्धः सहदेवेन पार्थिव ॥ १.२०५.४३ ॥

他们以箭雨覆盖他,他弃战而逃。然而难降大怒,王啊,与偕天交战。

1.205.44

युद्ध्वा च सुचिरं कालं सहदेवेन निर्जितः ।
उत्सृज्य च धनुः सङ्ख्ये जानुभ्यामवनीं गतः।
उत्थाय सोऽभिदुद्राव सोसिं जग्राह चर्म च ॥ १.२०५.४४ ॥

与偕天激战良久,他被击败。他在战斗中放下弓,双膝跪倒在地。他又站起,持剑冲去,并拿起了盾牌。

1.205.45

विकर्णचित्रसेनाभ्यां निगृहीतश्च कौरवः ।
मा युद्धमिति कौरव्य ब्राह्मणेनाबलेन वै ॥ १.२०५.४५ ॥

毗迦尔那与持军捉住了俱卢族人。俱卢之裔啊,一位无力的婆罗门说:“不要作战”,(于是阻止了他)。

1.205.46

दुःसहो नकुलश्चोभौ युद्धं कर्तुं समुद्यतै ।
तौ दृष्ट्वा कौरवा युद्धं वाक्यमूचुर्महाबलौ ॥ १.२०५.४६ ॥

难胜与无种皆准备开战。俱卢诸雄见此,说出了这些话。

1.205.47

निवर्तन्तां भवन्तो वै कुतो विप्रेषु क्रूरता ।
दुर्बला ब्राह्मणाश्चेमे भवन्तो वै महाबलाः ॥ १.२०५.४७ ॥

“你们都回去吧!为何要对婆罗门残暴?这些婆罗门软弱,而你们十分强大。”

1.205.48

द्वावत्र ब्राह्मणौ क्रूरौ वाय्विन्द्रसदृशौ बले ।
ये वा के वा नमस्तेभ्यो गच्छामः स्वपुरं वयम् ॥ १.२०५.४८ ॥

“此处有两位婆罗门,力量堪比风神与因陀罗。无论他们是谁,向他们致敬;我们要回自己的城邦去了。”

1.205.49

एवं संभाषमाणास्ते न्यवर्तन्ताथ कौरवाः ।
जहृषुर्ब्राह्मणास्तत्र समेतास्तत्र सङ्घशः ॥ १.२०५.४९ ॥

如此交谈之后,俱卢人转身离去,聚集在那里的婆罗门们成群结队地欢欣起来。

1.205.50

बहुशस्ते ततस्तत्र क्षत्रिया रणमूर्धनि ।
प्रेक्षमाणास्तथाऽतिष्ठन्ब्राह्मणांश्च समन्ततः ॥ १.२०५.५० ॥

随后,许多站在战场前列的刹帝利人环顾四周,注视着婆罗门们。

1.205.51

ब्राह्मणाश्च जयं प्राप्ताः कन्यामादाय निर्ययुः ।
विजिते भीमसेनेन शल्ये कर्णे च निर्जिते ॥ १.२०५.५१ ॥

当毗摩森那战胜沙利耶、迦尔纳被击败时,婆罗门取得胜利,带着少女离去。

1.205.52

दुर्योधने चापयाते तथा दुःशासने रणात् ।
शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम् ॥ १.२०५.५२ ॥

当难敌与难降离开战场后,所有惊惧的国王包围了狼腹(毗摩)。

1.205.53

ऊचुश्च सहितास्तत्र साध्विमौ ब्राह्मणर्षभौ ।
विज्ञायेतां क्वजन्मानौ क्वनिवासौ तथैव च ॥ १.२०५.५३ ॥

他们聚集在那里说:“这两位婆罗门中的雄牛确实优秀。他们出身何处,又住在何方?”

1.205.54

को हि राधासुतं कर्णं शक्तो योधयितुं रणे ।
अन्यत्र रामाद्द्रोणाद्वा पाण्डवाद्वा किरीटिनः ॥ १.२०५.५४ ॥

除了罗摩、德罗纳、般度诸子或冠者(阿周那),谁还能在战场上与罗陀之子迦尔纳交战?

1.205.55

कृष्णाद्वा देवकीपुत्रात्कृपाद्वापि शरद्वतः ।
को वा दुर्योधनं शक्तः प्रतियोथयितुं रणे ॥ १.२०५.५५ ॥

除了德瓦基之子克里希那或沙罗德瓦特之子克里帕,还有谁能在战场上与难敌作战?

1.205.56

तथैव मद्राधिपतिं शल्यं बलवतांवरम् ।
बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात् ॥ १.२०५.५६ ॥

同样,除了婆罗摩罗摩或般度族英雄狼腹(俱卢·般尼)之外,谁能阻挡摩德罗国之主、最强者中的翘楚沙利耶?

1.205.57

वीराद्दुर्योधनाद्वाऽन्यः शक्तः पातयितुं रणे ।
क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मणसंवृतात् ॥ १.२०५.५७ ॥

除了英雄难敌之外,还有谁能在战场上击倒他?因此,应当从这场被婆罗门所环绕的战斗中撤退。

1.205.58

ब्राह्मणा हि सदा रक्ष्याः सापराधाऽपिनित्यदा ।
अथैनानुपलभ्येह पुनर्योत्स्याम हृष्टवत् ॥ १.२०५.५८ ॥

婆罗门应当永远受到保护,即使他们有过错,也始终如此。既然在此遇见他们,我们便欢欣地再次作战。

1.205.59

तांस्तथावादिनः सर्वान्प्रसमीक्ष्य क्षितीश्वरान् ।
अथान्यान्पुरुषांश्चापि कृत्वा तत्कर्म संयुगे ॥ १.२०५.५९ ॥

仔细观察了那些如此说话的诸王之后,又让其他人在战斗中也去做那件事——

1.205.60

तत्कर्म भीमस्य समीक्ष्य कृष्णः ।
कुन्तीसुतौ तौ परिशङ्कमानः।
निवारयामास महीपतींस्ता-
न्धर्मेण लब्धेत्यनुनीय सर्वान् ॥ १.२०५.६० ॥

克里希那见到比玛的那一行为,为俱提的两个儿子担忧,便恳请所有诸王加以制止,说:“此乃依法而得。”

1.205.61

एवं ते विनिवृत्तास्तु युद्धाद्युद्धविशारदाः ।
यथावासं ययुः सर्वे विस्मिता राजसत्तमाः ॥ १.२०५.६१ ॥

如此,那些精通战事的人都从战斗中退回,惊讶的诸王之最各自回到自己的住处。

1.205.62

वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता ।
इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः ॥ १.२०५.६२ ॥

“此次比试在婆罗门的主持下结束;般遮拉公主已被婆罗门赢得。”说着这话,聚集在那里的人们离去了。

1.205.63

ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः ।
कृच्छ्रेण जग्मतुस्तौ तु भीमसेनधनञ्जयौ ॥ १.२०५.६३ ॥

二人混杂于婆罗门之中,身穿罗卢鹿皮,婆罗门中的毗摩森那与达那阇耶艰难地离去。

1.205.64

विमुक्तौ जनसंबाधाच्छत्रुभिः परिविक्षतौ ।
कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः ॥ १.२०५.६४ ॥

二人脱离人群,被敌人所伤,随从于克利希那之后,那两位人中英雄在那里闪耀。

1.205.65

पौर्णमास्यां घनैर्मुक्तौ चन्द्रसूर्याविवोदितौ ।
तेषां माता बहुविधं विनाशं पर्यचिन्तयत् ॥ १.२०५.६५ ॥

在满月之日,二人如脱离云层升起的日月;他们的母亲从多方面思虑他们可能遭受的毁灭。

1.205.66

अनागच्छत्सु पुत्रेषु भैक्षकाले च लिङ्घिते ।
धार्तराष्ट्रैर्हताश्च स्युर्विज्ञाय कुरुपुङ्गवाः ॥ १.२०५.६६ ॥

儿子们未归,乞食之时已过,她得知——恐怕那些俱卢族的雄牛已被持国之子杀害——便忧心忡忡。

1.205.67

मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः ।
विपरीतं मतं जातं व्यासस्यापि महात्मनः ॥ १.२०५.६७ ॥

或者是被幻术所惑的、极为可怖且仇恨坚定的罗刹所为,连大德毗耶娑的看法也变得颠倒了。

1.205.68

इत्येवं चिन्तयामासं सुतस्नेहावृता पृथा ।
ततः सुप्तजनप्राये दुर्दिने मेघसंप्लुते ॥ १.२०५.६८ ॥

普利塔被对儿子的慈爱所包围,如此思量。随后,在一个阴云密布、几乎如同沉睡之民的阴郁日子里——

1.205.69

महत्यथापराह्णे तु घनैः सूर्य इवावृतः ।
ब्राह्मणैः प्राविशत्तत्र जिष्णुर्भार्गववेश्म तत् ॥ १.२०५.६९ ॥

在大午后,如同被浓云遮蔽的太阳,胜利者阿周那与婆罗门一同进入了那座婆利古后裔的宅院。