Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.206

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.206.1

गत्वा तु तां भार्गवकर्मशालां ।
पार्थौ पृथां प्राप्य महानुभावौ।
तां याज्ञसेनीं परमप्रतीतौ ।
भिक्षेत्यथावेदयतां नराग्र्यौ ॥ १.२०६.१ ॥

两位大力的般度之子走到婆利古后裔的陶工作坊,见到普利塔,极为欢喜,这两位人中之杰说道:「这是布施。」

1.206.2

कुटीगता सा त्वनवेक्ष्य पुत्रौ ।
प्रोवाच भुङ्क्तेति समेत्य सर्वे।
पश्चाच्च कुन्ती प्रसमीक्ष्य कृष्णां ।
कष्टं मया भाषितमित्युवाच ॥ १.२०६.२ ॥

她在茅屋中,未看儿子们便说:「你们大家一起吃吧。」之后,贡蒂仔细看了克里希纳,说道:「我说错了话。」

1.206.3

साऽधर्मभीता परिचिन्तयन्ती ।
तां याज्ञसेनीं परमप्रतीताम्।
पाणौ गृहीत्वोपजगाम कुन्ती ।
युधिष्ठिरं वाक्यमुवाच चेदम् ॥ १.२०६.३ ॥

贡蒂因畏惧不法而深思,握着那非常欢喜的耶阇娑娜的手,走到坚战面前说了这些话。

1.206.4

इयं तु कन्या द्रुपदस्य राज्ञ-
स्तवानुजाभ्यां मयि संनिसृष्टा।
यथोचितं पुत्र मयाऽपि चोक्तं ।
समेत्य भुङ्क्तेति नृप प्रमादात् ॥ १.२०६.४ ॥

这位少女是德鲁帕达王之女;你的两个弟弟把她托付给了我。儿子啊,我也适当地说过「你们一起吃吧」;大王,这是因疏忽而说出的。

1.206.5

मया कथं नानृतमुक्तमद्य ।
भवेत्कुरूणामृषभ ब्रवीहि।
पञ्चालराजस्य सुतामधर्मो ।
न चोपवर्तेत न विभ्रमेच्च ॥ १.२०६.५ ॥

我今日怎能不说了假话?婆罗多之牛,请说。使般遮罗王之女不致陷于不法,也不致迷惑。

1.206.6

स एवमुक्तो मतिमान्नृवीरो ।
मात्रा मुहूर्तं तु विचिन्त्य राजा।
कुन्तीं समाश्वास्य कुरुप्रवीरो ।
धनञ्जयं वाक्यमिदं बभाषे ॥ १.२०६.६ ॥

母亲如此说后,智慧的人中英雄国王沉思片刻,安慰了贡蒂,对库鲁的英雄达那耶对说了这些话。

1.206.7

त्वया जिता फाल्गुन याज्ञसेनी ।
त्वयैव शोभिष्यति राजपुत्री।
प्रज्वाल्यतामग्निरमित्रसाह ।
गृहाण पाणिं विधिवत्त्वमस्याः ॥ १.२०६.७ ॥

法尔古那啊,你已赢得耶纳森尼;这位公主只会与你一同光彩照人。征服敌人的人啊,点燃火焰吧,依照礼仪牵起她的手。

1.206.8

मा मां नरेन्द्र त्वमधर्मभाजं ।
कृथा न धर्मोऽयमशिष्टदृष्टः।
भवान्निवेश्यः प्रथमं ततोऽयं ।
भीमो महाबाहुरचिन्त्यकर्मा ॥ १.२०६.८ ॥

人主啊,不要使我沾染不义。这不是不文明之人所认为的法。请你先行婚礼;随后是这位臂力强大、行事不可思议的毗摩。

1.206.9

अहं ततो नकुलोऽनन्तरं मे ।
पश्चादयं सहदेवस्तरस्वी।
वृकोदरोऽहं च यमौ च राज-
न्नियं च कन्या भवतो नियोज्याः ॥ १.२०६.९ ॥

随后是我,我之后是那库拉,再后是这敏捷的萨哈德瓦,我毗卢陀罗,双生子,国王啊,还有这位少女,都应听从您的调遣。

1.206.10

एवं गते यत्करणीयमत्र ।
धर्म्यं यशस्यं कुरु तद्विचिन्त्य।
पाञ्चालराजस्य हितं च यत्स्या-
त्प्रशाधि सर्वे स्म वशे स्थितास्ते ॥ १.२०६.१० ॥

既然如此,请仔细考虑此事应当如何处理,做合乎法且光荣之事,也做对般遮罗王有利之事。请治理吧;我们都在您的掌控之下。

1.206.11

जिष्णोर्वचनमाज्ञाय भक्तिस्नेहसमन्वितम् ।
दृष्टिं निवेशयामासुः पाञ्चाल्यां पाण्डुनन्दनाः ॥ १.२०६.११ ॥

诸般兄弟领会了胜者(阿周那)之言,怀着虔敬与爱意,将目光投向般遮罗公主。

1.206.12

दृष्ट्वा ते तत्र पश्यन्तीं सर्वे कृष्णां यशस्विनीम् ।
संप्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन् ॥ १.२०६.१२ ॥

诸人望见那位光荣的黑公主,彼此相视而坐,将她铭记于心。

1.206.13

तेषां तु द्रौपदीं दृष्ट्वा सर्वेषाममितौजसाम् ।
संप्रमथ्येन्द्रियग्रामं प्रादुरासीन्मनोभवः ॥ १.२०६.१३ ॥

众人见到德劳帕蒂,无量威力者的诸根皆被搅动,意生(爱欲)便生起了。

1.206.14

काम्यं हि रूपं पाञ्चाल्या विधात्रा विहितं स्वयम् ।
बभूवाधिकमन्याभ्यः सर्वभूतमनोहरम् ॥ १.२०६.१४ ॥

般遮罗公主的可爱之貌,由造物主亲自所造,胜过其他一切女子,令一切众生的心意为之迷醉。

1.206.15

तेषामाकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः ।
द्वैपायनवचः कृत्स्नं सस्मार मनुजर्षभः ॥ १.२०६.१५ ॥

那位知晓众人神色与心意的贡蒂之子、人中牛王坚战,想起了双岛仙人(毗耶娑)所说的全部话语。

1.206.16

अब्रवीत्सहितान्भ्रातॄन्मिथो भेदभयान्नृपः ।
सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा ॥ १.२०६.१६ ॥

国王因恐分裂,对聚集在一起的兄弟们说:“德劳帕蒂将成为我们所有人吉祥的妻子。”

1.206.17

सताऽपि शक्तेन च केशवेन ।
सज्यं धनुस्तन्न कृतं किमर्थम्।
विद्धं च लक्ष्यं न च कस्य हेतो-
राचक्ष्व तन्मे द्विपदां वरिष्ठ ॥ १.२०६.१७ ॥

既然克沙瓦有能力,为何他没有拉开那张弓,目标也没有被射中?人中之最,请告诉我其中的原因。

1.206.18

शक्तेन कृष्णेन च कार्मुकं त-
न्नारोपितं ज्ञातुकामेन पार्थान्।
परिश्रवादेव बभूव लोके ।
जीवन्ति पार्था इति निश्चयोऽस्य ॥ १.२०६.१८ ॥

克里希那虽有能力,也没有拉开那张弓,因为他想要知道普利塔之子们的下落。世人只因传闻才确信般度的儿子们仍然在世。

1.206.19

अन्यानशक्तान्नृपतीन्समीक्ष्य ।
स्वयंवरे कार्मुकेणोत्तमेन।
धनञ्जयस्तद्धनुरेकवीरः ।
सज्यं करोतीत्यभिवीक्ष्य कृष्णः ॥ १.२०६.१९ ॥

克里希那见在选婿大会上其他国王皆无能为力,便看出独一无二的英雄檀阇耶能拉开那张上好的弓。

1.206.20

इति स्वयं वासुदेवो विचिन्त्य ।
पार्थान्विवित्सन्विविधैरुपायैः।
न तद्धनुः सज्यमियेप कर्तुं ।
बभूवुरस्येष्टतमा हि पार्थाः ॥ १.२०६.२० ॥

于是婆苏提婆自己思虑,想以种种方法探知般度之子,便不愿拉开那张弓;因为般度之子是他最亲爱的人。

1.206.21

भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे ।
ज्येष्ठस्य पाण्डोस्तनयास्तदानीम्।
तमेवार्थं ध्यायमाना मनोभिः ।
सर्वे च ते तस्थुरदीनसत्वाः ॥ १.२०६.२१ ॥

般度的长子们仔细思量了哥哥的话,心中都默念着那层意思,此时个个毫不气馁地站在那里。

1.206.22

वृष्णिप्रवीरस्तु कुरुप्रवीरा-
नाशंसमानः सहरौहिणेयः।
जगाम तां भार्गवकर्मशालां ।
यत्रासते ते पुरुषप्रवीराः ॥ १.२०६.२२ ॥

吻瑞尼族的英雄黑天渴望问候俱卢族的英雄,与罗希尼耶一同前往那座婆利古作坊,那些人中英雄正坐在那里。

1.206.23

तत्रोपविष्टं पृथुदीर्घबाहुं ।
ददर्श कृष्णः सहरौहिणेयः।
अजातशत्रुं परिवार्य तांश्चा-
प्युपोपविष्टाञ्ज्वलनप्रकाशान् ॥ १.२०६.२३ ॥

黑天与罗希尼耶一同看见坐在那里的、宽阔长臂的不败者坚战,也看见围坐在他周围、如火焰般光辉的人们。

1.206.24

ततोऽब्रवीद्वासुदेवोऽभिगम्य ।
कुन्तीसुतं धर्मभृतां वरिष्ठम्।
कृष्णोऽहमस्मीति निपीड्य पादौ ।
युधिष्ठिरस्याजमीढस्य राज्ञः ॥ १.२०६.२४ ॥

于是婆苏提婆走近贡提之子——持法者中最优秀的人,说道:“我是黑天”;然后他按摩阿阇弥陀族之王坚战的双足。

1.206.25

तथैव तस्याप्यनु रौहिणेय-
स्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन।
पितृष्वसुश्चापि यदुप्रवीरा-
वगृह्णतां भारतमुख्य पादौ ॥ १.२०६.२५ ॥

随后罗希尼耶也同样做了;这二人都受到了欢喜的俱卢族的欢迎。啊,婆罗多族之首,两位雅都族英雄也抓住了他们姑母之子的双足。

1.206.26

अजातशत्रुश्च कुरुप्रवीरः ।
पप्रच्छ कृष्णं कुशलं विलोक्य।
कथं वयं वासुदेव त्वयेह ।
गूढा वसन्तो विदिताश्च सर्वे ॥ १.२०६.२६ ॥

不败者、俱卢族之首坚战看了看黑天的安好,问道:“婆苏提婆啊,我们隐居在此,您又是如何认出我们所有人的呢?”

1.206.27

तमब्रवीद्वासुदेवः प्रहस्य ।
गूढोऽप्यग्निर्ज्ञायत एव राजन्।
तं विक्रमं पाण्डवेयानतीत्य ।
कोऽन्यः कर्ता विद्यते मानुषेषु ॥ १.२०६.२७ ॥

婆苏提婆微笑着对他说:大王啊,即使隐藏的火也会被识破。人类之中,除了你,还有谁能超越般度之子的勇武?

1.206.28

दिष्ट्या सर्वे पावकाद्विप्रमुक्ता ।
यूयं घोरात्पाण्डवाः शत्रुसाहाः।
दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः ।
सहामात्यो न सकामोऽभविष्यत् ॥ १.२०६.२८ ॥

幸运的是,你们诸位,制服敌人的般度之子,都从那可怕的火中脱身。幸运的是,持国之恶子连同他的大臣们,并未如愿以偿。

1.206.29

भद्रं वोऽस्तु निहितं यद्गुहायां ।
विवर्धध्वं ज्वलना इवैधमानाः।
मा वो विद्युः पार्थिवाः केचिदेव ।
यास्यावहे शिबिरायैव तावत्।
सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः ।
प्रायाच्छीघ्रं बलदेवेन सार्धम् ॥ १.२०६.२९ ॥

愿你们吉祥。放在洞中的,让它如熊熊烈火般成长。为了不让任何国王知道,我们二人将前往营地。得到般度之子的允许后,那位光辉不减的人便与大力罗摩迅速离去。