摩诃婆罗多 · 章 1.209
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.209.1
जन्यार्थमन्नं द्रुपदेन राज्ञा ।
विवाहहेतोरुपसंस्कृतं च।
तदाप्नुवध्वं कृतसर्वकार्याः ।
कृष्णा च तत्रैतु चिरं न कार्यम् ॥ १.२०९.१ ॥
为了婚礼,德鲁帕达王已为宾客备好了食物和婚礼的一切安排。请你们完成各自的事务后前去享用;克里希纳也应立即前往,不可拖延。
1.209.2
इमे रथाः काञ्चनपद्मचित्राः ।
सदश्वयुक्ता वसुधाधिपार्हाः।
एतान्समारुह्य परैत सर्वे ।
पाञ्चालराजस्य निवेशनं तत् ॥ १.२०९.२ ॥
这些以金莲装饰的战车,驾着良马,适合地上的君王乘坐。你们都登上它们,前往般遮罗王的住所吧。
1.209.3
ततः प्रयाताः कुरुपुंगवास्ते ।
पुरोहितं तं परियाप्य सर्वे।
आस्थाय यानानि महान्ति तानि ।
कुन्ती च कृष्णा च सहैकयाने ॥ १.२०९.३ ॥
于是那些俱卢族的英杰,先派他们的祭司前行,然后登上那些大车出发;贡提与克里希纳同乘一车。
1.209.4
स्त्रीभिः सुगन्धाम्बरमाल्यदानै-
र्विभूषिता आभरणैर्विचित्रैः।
माङ्गल्यगीतध्वनिवाद्यघोषै-
र्मनोहरैः पुण्यकृतां वरिष्ठैः ॥ १.२०९.४ ॥
众女以香气馥郁的衣饰和花环装饰,佩戴种种华美的首饰,伴着吉祥歌曲与乐器的喧鸣,令人心醉,正是为那些积善者中最杰出的人而备。
1.209.5
संगीयमानाः प्रययुः प्रहृष्टा ।
दीपैर्ज्वलद्भिः सहिताश्च विप्रैः ॥ १.२०९.५ ॥
在歌声中,他们欢欣地出发,伴着燃烧的灯火和婆罗门。
1.209.6
स वै तथोक्तस्तु युधिष्ठिरेण ।
पाञ्चालराजस्य पुरोहितोऽग्र्यः।
सर्वं यथोक्तं कुरुनन्दनेन ।
निवेदयामास नृपाय गत्वा ॥ १.२०९.६ ॥
坚战如此说完,般遮罗王最尊贵的祭司前往,将俱卢族之喜所说的一切,照原样禀告了国王。
1.209.7
श्रुत्वा तु वाक्यानि पुरोहितस्य ।
यान्युक्तवान्भारत धर्मराजः।
जिज्ञासयैवाथ कुरूत्तमानां ।
द्रव्याण्यनेकान्युपसंजहार ॥ १.२०९.७ ॥
婆罗多啊,法王听了祭司的话,出于好奇,便为俱卢族中的最优者汇集了许多财物。
1.209.8
फलानि माल्यानि च संस्कृतानि ।
वर्माणि चर्माणि तथाऽऽसनानि।
गाश्चैव राजन्नथ चैव रज्जू-
र्बीजानि चान्यानि कृषीनिमित्तम् ॥ १.२०९.८ ॥
水果、制作好的花环、铠甲、皮革、座椅,还有牛、大王啊、绳索、种子,以及其他用于耕作的物品。
1.209.9
अन्येषु शिल्पेषु च यान्यपि स्युः ।
सर्वाणि कृत्यान्यखिलेन तत्र।
क्रीडानिमित्तान्यपि यानि तत्र ।
सर्वाणि तत्रोपजहार राजा ॥ १.२०९.९ ॥
其他工艺中的一切器具,所有的工作工具,以及用于游戏的各种物件,国王都在那里全部汇集起来。
1.209.10
वर्माणि चर्माणि च भानुमन्ति ।
खड्गा महान्तोऽश्वरथाश्च चित्राः।
धनूंषि चाग्र्याणि शराश्च चित्राः ।
शक्त्यृष्टयः काञ्चनभूषणाश्च ॥ १.२०९.१० ॥
闪亮的铠甲与盾牌,巨大的剑,马与战车,奇妙上好的弓,灿烂的箭,以及饰以黄金的枪与矛。
1.209.11
प्रासा भुशुण्ड्यश्च परश्वधाश्च ।
सांग्रामिकं चैव तथैव सर्वम्।
शय्यासनान्युत्तमवस्तुवन्ति ।
तथैव वासो विविधं च तत्र ॥ १.२०९.११ ॥
那里有长矛、投枪与战斧,以及所有的军械。同样,那里还有配备上等器物的床榻与座位,以及各式各样的衣物。
1.209.12
कुन्ती तु कृष्णां परिगृह्य साध्वी-
मन्तःपुरं द्रुपदस्याविवेश।
स्त्रियश्च तां कौरवराजपत्नीं ।
प्रत्यर्चयामासुरदीनसत्वाः ॥ १.२०९.१२ ॥
贤德的贡蒂带着克里希纳(德罗波蒂)走进了德鲁帕达的内宫。那里的女眷们心志坚定,也以礼相待,敬重这位俱卢王的妻子。
1.209.13
तान्सिंहविक्रान्तगतीन्निरीक्ष्य ।
महर्षभाक्षानजिनोत्तरीयान्।
गूढोत्तरांसान्भुजगेन्द्रभोग-
प्रलम्बबाहून्पुरुषप्रवीरान् ॥ १.२०९.१३ ॥
看见那些步态如狮、双目如大公牛、披着鹿皮上衣、肩膀隐而不露、双臂修长如蛇王身躯盘绕的英雄男子。
1.209.14
राजा च राज्ञः सचिवाश्च सर्वे ।
पुत्राश्च राज्ञः सुहृदस्तथैव।
प्रेष्याश्च सर्वे निखिलेन राज-
न्हर्षं समापेतुरतीव तत्र ॥ १.२०९.१४ ॥
国王与国王的所有大臣、国王的诸子与友人,以及所有仆役,哦,国王,在那里都充分地获得了极大的喜悦。
1.209.15
ते तत्र वीराः परमासनेषु ।
सपादपीठेष्वविशङ्कमानाः।
यथानुपूर्व्याद्विविशुर्नराग्र्या-
स्तथा महार्हेषु न विस्मयन्तः ॥ १.२०९.१५ ॥
那些英雄按次序坐在上等的座位上,配有脚凳,毫不迟疑;同样,在极为贵重的座位上,那些人中之杰也坐下了,并不显出惊讶。
1.209.16
उच्चावचं पार्थिवभोजनीयं ।
पात्रीषु जाम्बूनदराजतीषु।
दासाश्च दास्यश्च सुमृष्टवेषाः ।
संभोजकाश्चाप्युपजह्रुरन्नम् ॥ १.२०९.१६ ॥
各式适合国王享用的食物,盛在金银器皿中,由身着华服的男女仆役和侍者端来供奉。
1.209.17
ते तत्र भुक्त्वा पुरुषप्रवीरा ।
यथात्मकामं सुभृशं प्रतीताः।
उत्क्रम्य सर्वाणि वसूनि राज-
न्सांग्रामिकं ते विविशुर्नृवीराः ॥ १.२०९.१७ ॥
在那里饱餐、各随其愿、心满意足之后,那些人中英雄,啊国王,抛下了所有财宝,走进了存放战具的地方。
1.209.18
तल्लक्षयित्वा द्रुपदस्य पुत्रा ।
राजा च सर्वैः सह मन्त्रिमुख्यैः।
समर्थयामासुरुपेत्य हृष्टाः ।
कुन्तीसुतान्पार्थिवराजपुत्रान् ॥ १.२०९.१८ ॥
德鲁帕达的儿子们和国王看到这一情景,便与所有主要大臣一起欣喜地走近,表示支持贡蒂之子,那些王子。