Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.215

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.215.1

अश्रुत्वैवं वचनं ते महर्षे ।
मया पूर्वं यतितं संविधातुम्।
न वै शक्यं विहितस्यापयानं ।
तदेवेदमुपपन्नं विधानम् ॥ १.२१५.१ ॥

大仙啊,我在未听闻您的此言之前,曾经试图另作安排;然而既已注定之事无法逆转。这一天定之命运now已然降临。

1.215.2

दिष्टस्य ग्रन्थिरनिवर्तनीयः ।
स्वकर्मणा विहितं तेन किंचित्।
कृतं निमित्तमिह नैकहेतो-
स्तदेवेदमुपन्नं विधानम् ॥ १.२१५.२ ॥

命运之结不可解开。由自身业力所定、在此成为众多因缘之一的,正是这已然成就的定数。

1.215.3

यथैव कृष्णोक्तवती पुरस्ता-
न्नैकान्पतीन्मे भगवान्ददातु।
स चाप्येवं वरमित्यब्रवीत्तां ।
देवो हि वेत्ता परमं यदत्र ॥ १.२१५.३ ॥

正如黑天之女(德劳帕蒂)先前所说,愿世尊不要只给我一个丈夫;他也就这样赐予了她那个恩惠。这里何为至上,唯有神明知晓。

1.215.4

यदि चैवं विहितः शङ्करेण ।
धर्मोऽधर्मो वा नात्र ममापराधः।
गृह्णन्त्विमे विधितत्पाणिमस्या ।
यथोपजोषं विहितैषां हि कृष्णा ॥ १.२१५.४ ॥

若湿婆如此安排,无论是法还是非法,过错都不在我。愿他们依照仪轨执其手;愿黑天之女如为他们所定而安乐。

1.215.5

नायं विधिर्मानुषाणां विवाहे ।
देवा ह्येते द्रौपदी चापि लक्ष्मीः।
प्राक्कर्मणः सुकृतात्पाण्डवानां ।
पञ्चानां भार्या देवदेवप्रसादात् ॥ १.२१५.५ ॥

这不是人间的婚姻之礼;这些人都是天神,德劳帕蒂也正是吉祥天女(拉克希米)。因般度五子往昔的善业,因神中之神的恩典,她成为了五人的妻子。

1.215.6

तेषामेवायं विहितः स्याद्विवाहो ।
यथा ह्येष द्रौपदीपाण्डवानाम्।
अन्येषां नृणां योषितां च ।
न धर्मः स्यान्मानवोक्तो नरेन्द्र ॥ १.२१५.६ ॥

此婚姻只为他们而定,如德罗波蒂与般度五子。对其他男女而言,哦人主,这并非《摩奴法典》所说的法。

1.215.7

तत आजग्मतुस्तत्र तौ व्यासद्रुपदावुभौ ।
कुन्ती सपुत्रा यत्रास्ते धृष्टद्युम्नश्च पार्षतः।
ततो द्वैपायनः कृष्णो युधिष्ठिरमथागमत् ॥ १.२१५.७ ॥

于是二人,毗耶娑与德鲁帕达,来到了昆提与诸子所在之处,那里也有德里什塔衍那与波利沙塔之子。随后,黑天·二岛生来到坚战身边。

1.215.8

ततोऽब्रवीद्भगवान्धर्मराज-
मद्यैव पुण्येऽहनि पाण्डवेय।
पुण्ये पुष्ये योगमुपैति चन्द्रमाः ।
पाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वं ॥ १.२१५.८ ॥

于是尊者对法王说:般度之子啊,今日便在这吉日,当月亮与布沙星相合时,你应先执起黑天女的手。

1.215.9

एवमुक्त्वा धर्मराजं भीमादीनप्यभाषत ॥ १.२१५.९ ॥

对法王如此说完后,他也对毗摩等人说了话。

1.215.10

क्रमेण पुरुषव्याघ्राः पाणिं गृह्णन्तु पाणिभिः ।
एवमेव मया सर्वं दृष्टमेतत्पुराऽनघाः ॥ १.२१५.१० ॥

人中之虎啊,请依次以手执手。无罪者啊,这一切我先前已如此见过。

1.215.11

ततो राजा यज्ञसेनः सपुत्रो ।
जन्यार्थणुक्तं बहु तत्तदग्र्यम्।
समर्थयामास महानुभावो ।
हृष्टः सपुत्रः सहबन्धुवर्गः।
समानयामास सुतां च कृष्णा-
माप्लाव्य रत्नैर्बहुभिर्विभूष्य ॥ १.२१५.११ ॥

于是,王者耶祇羯娑那与其诸子一起,将为新郎一方所索取的一切上好之物尽数备齐。这位大德欢喜地与诸子及亲族一同,为女儿黑公主沐浴,以许多珠宝装饰她,并把她带了进来。

1.215.12

ततस्तु सर्वे सुहृदो नृपस्य ।
समाजग्मुः सहिता मन्त्रिणश्च।
द्रष्टुं विवाहं परमप्रतीता ।
द्विजाश्च पौराश्च यथाप्रधानाः ॥ १.२१५.१२ ॥

于是,国王的所有朋友与大臣一同聚集,极其欢喜地前来观看婚礼;婆罗门与城中的民众也各依其身份而来。

1.215.13

ततोऽस्य वेश्माग्र्यजनोपशोभितं ।
विस्तीर्णपद्मोत्पलभूषिताजिरम्।
बलौघरत्नौघविचित्रमाबभौ ।
नभो यथा निर्मलतारकान्वितम् ॥ १.२१५.१३ ॥

于是,他的宫殿因其中的贵人而生辉,庭院以宽大的莲花与睡莲装饰,因军队的人群与珠宝的堆积而五彩斑斓,光耀如同布满明亮星辰的天空。

1.215.14

ततस्तु ते कौरवराजपुत्रा ।
विभूषिताः कुण्डलिनो युवानः।
महार्हवस्त्राम्बरचन्दनोक्षिताः ।
कृताभिषेकाः कृतमङ्गलक्रियाः ॥ १.२१५.१४ ॥

那时,俱卢王的诸子,耳戴耳环的青年,装饰整齐,涂抹檀香,身穿贵重衣袍,已行沐浴之礼并完成吉祥仪式。

1.215.15

पुरोहितेनाग्निसमानवर्चसा ।
सहैव धौम्येन यताविधि प्रभो।
क्रमेण सर्वे विविशुस्ततः सदो ।
महर्षभा गोष्ठमिवाभिनन्दिनः ॥ १.२१५.१५ ॥

与如火般光辉的祭司达乌曼耶一同,主啊,众人依规矩次第进入议会大殿,如欢喜的公牛进入牛栏,那些大仙中的雄牛。

1.215.16

ततः समाधाय स वेदपरागो ।
जुहाव मन्त्रैर्ज्वलितं हुताशनम्।
युधिष्ठिरं चाप्युपनीय मन्त्रवि-
न्नियोजयामास सहैव कृष्णया ॥ १.२१५.१६ ॥

于是精通吠陀者凝神,以咒语向熊熊烈火献祭;这位通晓咒语的人又请来坚战,使他与黑公主结合。

1.215.17

प्रदक्षिणं तौ प्रगृहीतपाणी ।
समानयामास स वेदपरागः।
विप्रांश्च संतर्प्य युधिष्ठिरो धनै-
र्गोभिश्च रत्नैर्विविधैश्च पूर्वम् ॥ १.२१५.१७ ॥

精通吠陀者握住二人的手,使他们行右绕之礼;坚战先以财物、牛群和各色珍宝,使婆罗门满意。

1.215.18

तदा स राजा द्रुपदस्य पुत्रिका-
पाणिं प्रजग्राह हुताशनाग्रतः।
धौम्येन मन्त्रैर्विधिवद्भुतेऽग्नौ ।
सहाग्निकल्पैर्ऋषिभिः समेत्य ॥ १.२१५.१८ ॥

那时,国王在火前握住了德鲁帕达之女的手;达乌曼耶以咒语依规矩在燃起的火中,与如火般的仙人们一同完成了此礼。

1.215.19

ततोऽन्तरिक्षात्कुसुमानि पेतु-
र्ववौ च वायुः सुमनोज्ञगन्धः।
ततोऽभ्यनुज्ञाप्य समाजशोभितं ।
युधिष्ठिरं राजपुरोहितस्तदा ॥ १.२१५.१९ ॥

于是天空落下花朵,吹来令人愉悦的芬芳之风;随后王室祭司告别后,向受集会装点的坚战表示允准。

1.215.20

विप्रांश्च सर्वान्सुहृदश्च राज्ञः ।
समेत्य राजानमदीनसत्वम्।
जगाद भूयोऽपि महानुभावो ।
वचोऽर्थयुक्तं मनुजेश्वरं तम् ॥ १.२१५.२० ॥

随后,他与所有婆罗门和国王的朋友会面,这位心志不屈的大德再次对人主说出了富有深意的话语。

1.215.21

गृह्णन्त्वथान्ये नरदेवकन्या-
पाणिं यथावन्नरदेवपुत्राः।
तमभ्यनन्दद्द्रुपदस्तथा द्विजं ।
तथा कुरुष्वेति तमादिदेश ॥ १.२१५.२१ ॥

现在,其他王子也应依礼执起王女们的手。德鲁帕达欢迎那位再生者,对他说:「就这样做吧」,如此吩咐了他。

1.215.22

पुरोहितस्यानुमतेन राज्ञ-
स्ते राजपुत्रा मुदिता बभूवुः।
क्रमेण चान्ये च नराधिपात्मजा ।
वरस्त्रियास्ते जगृहुः करं तदा ॥ १.२१५.२२ ॥

在国王的许可与家祭司的同意下,那些王子欢欣起来。随后,其他国王之子也依次执起了那些优秀女子的手。

1.215.23

अहन्यहन्युत्तमरूपधारिणो ।
महारथाः कौरववंशवर्धनाः ॥ १.२१५.२३ ॥

每日皆有,皆具殊胜之相的大车战士,是增长俱卢族世系的人。

1.215.24

इदं च तत्राद्भुतरूपमुत्तमं ।
जगाद देवर्षिरतीतमानुषम्।
महानुभावा किल सा सुमध्यमा ।
बभूव कन्यैव गते गतेऽहनि ॥ १.२१५.२४ ॥

在那里,超越凡人的天仙谈到了这奇妙殊胜的容貌。那位细腰的大德女子,日复一日,依然是处女。

1.215.25

पतिश्वशुरता ज्येष्ठे पतिदेवरताऽनुजे ।
मध्यमेषु च पाञ्चाल्यास्त्रितयं त्रितयं त्रिषु ॥ १.२१५.२५ ॥

对长子而言,关系是夫与舅;对幼子而言,是夫与小叔;在中间的兄弟中,般遮罗公主的关系对三者各有三种。

1.215.26

कृते विवाहे द्रुपदो धनं ददौ ।
महारथेभ्यो बहुरूपमुत्तमम्।
शतं रथानां वरहेममालिनां ।
चतुर्युजां हेमखलीनमालिनाम् ॥ १.२१५.२६ ॥

婚礼既成,德鲁帕达把多种多样的上好财物赠给大车将们:一百辆装饰着金花环的战车,每车四马驾驭,系着金缰绳花环。

1.215.27

शतं गजानामपि पद्मिनां तथा ।
शतं गिरिणामिव हेमशृङ्गिणाम्।
तथैव दासीशतमग्र्ययौवनं ।
महार्हवेषाभरणाम्बरस्रजम् ॥ १.२१५.२७ ॥

一百头饰有莲花印记的象,如同一百座金峰之山;同样还有一百名正值妙龄的侍女,以贵重的衣饰、珠宝、布帛和花鬘装扮。

1.215.28

पृथक्पृथग्दिव्यदृशां पुनर्ददौ ।
तदा धनं सौमकिरग्निसाक्षिकम्।
तथैव वस्त्राणि विभूषणानि ।
प्रभावयुक्तानि महानुभावः ॥ १.२१५.२८ ॥

随后,德鲁帕达(苏摩迦之子)在火神见证下,分别赠予具有神眼的般度五子财物;那位大德同样赠予光彩夺目的衣饰与首饰。

1.215.29

कृते विवाहे च ततस्तु पाण्डवाः ।
प्रभूतरत्नामुपलभ्य तां श्रियम्।
विजह्रुरिन्द्रप्रतिमा महाबलाः ।
पुरे तु पाञ्चालनृपस्य तस्य ह ॥ १.२१५.२९ ॥

婚礼既成,般度五子如因陀罗般威武有力,获得了大量宝石与光彩,便在般遮罗王的那座城中欢乐游戏。