摩诃婆罗多 · 章 1.22
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.22.1
नागाश्च संविदं कृत्वा कर्तव्यमिति तद्वचः ।
निःस्नेहा वै दहेन्माता असंप्राप्तमनोरथा ॥ १.२२.१ ॥
诸蛇缔结了约定,说应当照她的话去做。没有慈爱的母亲,若其愿望未能实现,确实会焚烧。
1.22.2
प्रसन्ना मोक्षयेदस्मांस्तस्माच्छापाच्च भामिनी ।
कृष्णं पुच्छं करिष्यामस्तुरगस्य न संशयः ॥ १.२२.२ ॥
若那位美人欢喜,使我们脱离那诅咒,我们便使马尾变黑;此事毫无疑问。
1.22.3
इति निश्चित्य ते तस्य कृष्णा वाला इव स्थिताः ।
एतस्मिन्नन्तरे ते तु सपत्न्यौ पणिते तदा ॥ १.२२.३ ॥
她们如此决定后,便像那黑色的毛发一样站着。与此同时,那两位妻妾便立下了赌注。
1.22.4
ततस्ते पणितं कृत्वा भगिन्यौ द्विजसत्तम ।
जग्मतुः परया प्रीत्या परं पारं महोदधेः ॥ १.२२.४ ॥
于是,婆罗门中最优秀者啊,那两位姐妹立下赌注,满怀极大的喜悦,前往大海的彼岸。
1.22.5
कद्रूश्च विनता चैव दाक्षायण्यौ विहायसा ।
आलोकयन्त्यावक्षोभ्यं समुद्रं निधिमम्भसाम् ॥ १.२२.५ ॥
达刹的两个女儿迦德卢和毗娜达,在空中飞行,凝视着那不可撼动的海洋,水之宝藏。
1.22.6
वायुनाऽतीव सहसा क्षोभ्यमाणं महास्वनम् ।
तिमिंगिलसमाकीर्णं मकरैरावृतं तथा ॥ १.२२.६ ॥
大海被风骤然剧烈搅动,发出巨大吼声,充满鲸鲨,被摩伽罗环绕,映入眼帘。
1.22.7
संयुतं बहुसाहस्रैः सत्वैर्नानाविधैरपि ।
घोरर्घोरमनाधृष्यं गम्भीरमतिभैरवम् ॥ १.२२.७ ॥
它充满了成千上万种各样的生灵,是可怕中最可怕的,不可侵犯,深邃而极其恐怖。
1.22.8
आकरं सर्वरत्नानामालयं वरुणस्य च ।
नागानामालयं चापि सुरम्यं सरितां पतिम् ॥ १.२२.८ ॥
它是一切宝石之矿,是伐楼那的住所,也是龙族的居所,极其美丽,是众河之主。
1.22.9
पातालज्वलनावासमसुराणां तथालयम् ।
भयंकराणां सत्त्वानां पयसो निधिमव्ययम् ॥ १.२२.९ ॥
它是地底之火的居所,也是阿修罗的住所,是可怖众生取之不尽的水库。
1.22.10
शुभ्रं दिव्यममर्त्यानाममृतस्याकरं परम् ।
अप्रमेयमचिन्त्यं च सुपुम्यजलसंमितम् ॥ १.२२.१० ॥
它光明而神圣,是不死者甘露的至上之源;不可测量,不可思议,与纯净之水相等。
1.22.11
महानदीभिर्बह्वीभिस्तत्र तत्र सहस्रशः ।
आपूर्यमाणमत्यर्थं नृत्यन्तमिव चोर्मिभिः ॥ १.२२.११ ॥
到处有成千上万条大河注入其中,使它充盈非常,仿佛随着波浪在舞蹈。
1.22.12
इत्येवं तरलतरोर्मिसंकुलं ते ।
गम्भीरं विकसितमम्बरप्रकाशम्।
पातालज्वलनशिखाविदीपिताङ्गं ।
गर्जन्तं द्रुतमभिजग्मतुस्ततस्ते ॥ १.२२.१२ ॥
于是他们迅速走近那咆哮的大海——它充满剧烈翻涌的波涛,深邃广阔,明亮如天空,其身被地底之火的火焰照耀。