摩诃婆罗多 · 章 1.226
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.226.1
एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम् ।
ममापि परमो हर्षः संबन्धेऽस्मिन्कृते प्रभो ॥ १.२२६.१ ॥
德鲁帕达说:大智者啊,正如你通过毗杜罗对我所说的那样。主啊,这门姻缘缔结,我也感到无上的喜悦。
1.226.2
गमनं चापि युक्तं स्याद्दृढमेषां महात्मनाम् ।
न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा ॥ १.२२६.२ ॥
这些大德之人前来也是合适的;但此刻由我亲口说出此事,并不恰当。
1.226.3
यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः ।
भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ ॥ १.२२६.३ ॥
当英雄、贡蒂之子坚战,以及毗摩先那与阿周那,还有人中雄牛的那对孪生兄弟都如此认为时……
1.226.4
रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः ।
एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ ॥ १.२२६.४ ॥
那么,精通达摩的罗摩与克里希那也应与般度五子同行,因为这两位人中猛虎专心于他们的福祉与欢乐。
1.226.5
परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः ।
यथा वक्ष्यसि नः प्रीत्या तत्करिष्यामहे वयम् ॥ १.२२६.५ ॥
大王啊,我们连同随从都依赖于您。您若出于慈爱吩咐我们,我们便照办。
1.226.6
ततोऽब्रवीद्वासुदेवो गमनं रोचते मम ।
यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित् ॥ १.२२६.६ ॥
于是婆苏提婆说:我愿意前往,或依精通一切达摩的德鲁帕达王所想。
1.226.7
यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः ।
प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम ॥ १.२२६.७ ॥
英雄達沙阿爾哈,人中至尊,大臂者,在適當時機如此思考,我的決定也已確定。
1.226.8
यथैव हि महाभागाः कौन्तेया मम सांप्रतम् ।
तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः ॥ १.२२६.८ ॥
正如大福的貴提之子如今屬於我,他們也同樣屬於婆蘇提婆;他們是般度之子,這毫無疑問。
1.226.9
न तद्ध्यायति कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः ।
यथैषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः ॥ १.२२६.९ ॥
貴提之子、般度之子堅戰,並不如人中猛虎克沙婆那樣考慮他們的福祉。
1.226.10
पृथायास्तु ततो वेश्म प्रविवेश महामतिः ।
पादौ स्पृष्ट्वा पृथायास्तु शिरसा च महीं गतः ॥ १.२२६.१० ॥
於是那位大智者進入普里塔的住所,觸碰普里塔的雙足,以頭伏地行禮。
1.226.11
दृष्ट्वा तु देवरं कुन्ती शुशोच च मुहुर्मुहुः ।
वैचित्रवीर्य ते पुत्राः कथंचिज्जीवितास्त्वया ॥ १.२२६.११ ॥
貴提見到小叔,一再悲泣:「毗七多毗利耶之子啊,你使你的兒子們以某種方式得以存活。」
1.226.12
त्वत्प्रसादाज्जतुगृहे मृताः प्रत्यागतास्तथा ।
कूर्मी चिन्तयते पुत्रान्यत्र वा तत्र संमता ॥ १.२२६.१२ ॥
託你的恩德,在蠟宮中被認為已死的人已經歸來。龜甲般的貴提(庫爾彌)無論兒子們在何處,都時時掛念。
1.226.13
चिन्तया वर्धिताः पुत्रा यथा कुशलिनस्तथा ।
तव पुत्रास्तु जीवन्ति त्वद्भक्त्या भरतर्षभ ॥ १.२२६.१३ ॥
如同在忧虑中养育的儿子们安然无恙,你的儿子们也都活着,婆罗多族的雄牛,这是因你的虔敬。
1.226.14
यथा परभृतः पुत्रानरिष्टा वर्धयेत्सदा ।
तथैव पुत्रास्तु मम त्वया तात सुरक्षिताः ॥ १.२२६.१४ ॥
如同杜鹃总是毫发无伤地养育别人的雏鸟,亲爱的,我的儿子们由你好好地保护着。
1.226.15
क्लेशास्तु बहवः प्राप्तास्तथा प्राणान्तिका मया ।
अतः परं न जानामि कर्तव्यं ज्ञातुमर्हसि ॥ १.२२६.१५ ॥
我曾忍受许多苦难,甚至危及性命。此后我不知道该怎么办,您应当知道。
1.226.16
न विनश्यन्ति लोकेषु तव पुत्रा महाबलाः ।
अचिरेणैव कालेन स्वराज्यस्था भवन्ति ते ॥ १.२२६.१६ ॥
你那些大力的儿子们在世间不会灭亡;不久,待到时机,他们将在自己的王国中安立。
1.226.17
बान्धवैः सहिताः सर्वे न शोकं कुरु माधवि ।
ततस्ते समनुज्ञाता द्रुपदेन महात्मना ॥ १.२२६.१७ ॥
摩陀维啊,与所有亲族在一起,不要悲伤。随后,大心的德鲁波陀允许了他们。
1.226.18
पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः ।
आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम् ॥ १.२२६.१८ ॥
般度五子、黑天以及智慧的毗杜罗,带着肤色黝黑的德罗波蒂与荣耀的贡蒂一同前往。
1.226.19
सविहारं सुखं जग्मुर्नगरं नागसाह्वयम् ।
सुवर्णकक्ष्याग्रैवेयान्सुवर्णाङ्कुशभूषितान् ॥ १.२२६.१९ ॥
他们欢欣愉快地前往名为那伽萨呼耶的城市,身饰金饰的鞍带、上好的颈饰和金制象钩。
1.226.20
जाम्बूनदपरिष्कारान्प्रभिन्नकरटामुखान् ।
अधिष्ठितान्महामात्रैः सर्वशस्त्रसमन्वितान् ॥ १.२२६.२० ॥
身饰阎浮那金的象,额颊流淌着发情之液,由象夫骑乘,配备一切武器。
1.226.21
सहस्रं प्रददौ राजा गजानां वरवर्मिणाम् ।
रथानां च सहस्रं वै सुवर्णमणिचित्रितम् ॥ १.२२६.२१ ॥
国王赠予一千头披着精良铠甲的象,以及一千辆饰有金与宝石的战车。
1.226.22
चतुर्युजां भानुमच्च पञ्चानां प्रददौ तदा ।
सुवर्णपरिबर्हाणां वरचामरमालिनाम् ॥ १.२२६.२२ ॥
他随即赠予光彩耀眼的四马战车,配有金制饰具和精美的牦牛尾拂尘花环。
1.226.23
जात्यश्वानां च पञ्चाशत्सहस्रं प्रददौ नृपः ।
दासीनामयुतं राजा प्रददौ वरभूषणम्।
ततः सहस्रं दासानां प्रददौ वरधन्वनाम् ॥ १.२२६.२३ ॥
国王赠予五万匹良种马,一万名身饰上好首饰的侍女,然后又赠予一千名善射的侍从。
1.226.24
हैमानि शय्यासनबाजनानि ।
द्रव्याणि चान्यानि च गोधनानि।
पृथक्पृथक्वैव ददौ स कोटिं ।
पाञ्चालराजः परमप्रहृष्टः ॥ १.२२६.२४ ॥
金制卧榻、座椅与器皿,其他财物和牛群财富——般遮罗王极为欢喜,分别赠予,价值一千万。
1.226.25
शिबिकानां शतं पूर्णं वाहान्पञ्चशतं नरान् ॥ १.२२६.२५ ॥
满载的轿子一百乘,驮畜五百头,仆人五百人。
1.226.26
एवमेतानि पाञ्चालो जन्यार्थे प्रददौ धनम् ।
हरणं चापि पाञ्चाल्या ज्ञातिदेयं च सोमकः ॥ १.२२६.२६ ॥
如此,潘遮罗王为婚礼之赠送了这些财物;潘遮罗女被迎娶,索摩迦的亲族也献上了赠礼。
1.226.27
धृष्टद्युम्नो ययौ तत्र भगिनीं गृह्य भारत ।
नानद्यमानो बहुशस्तूर्यघोषैः सहस्रशः ॥ १.२२६.२७ ॥
婆罗多啊,持盾光带着他的姐姐前往那里,在数千种乐器的喧响中屡次高声吼叫。
1.226.28
श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽम्बिकासुतः ।
प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान् ॥ १.२२६.२८ ॥
安比迦之子持国王听闻英雄们已到来,便派遣俱卢族人去迎接般度之子。
1.226.29
विकर्णं च महेष्वासं चित्रसेनं च भारत ।
द्रोणं च परमेष्वासं गौतमं कृपमेव च ॥ १.२२६.२९ ॥
婆罗多啊,大弓手毗迦罗那与旃陀罗塞那,至上弓手德罗纳,以及乔答摩·克里巴。
1.226.30
तैस्तैः परिवृताः शूरैः शोभमाना महारथाः ।
नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा ॥ १.२२६.३० ॥
被那些英雄环绕,光彩照人的大战车武士们随即缓缓进入了象城(Hāstinapura)。
1.226.31
पाण्डवानागताञ्छ्रुत्वा नागरास्तु कुतूहलात् ।
मण्डयाञ्चक्रिरे तत्र नगरं नागसाह्वयम् ॥ १.२२६.३१ ॥
众城民听说般度之子已到,出于好奇,便装饰了那座名为那伽萨呼瓦雅的城市。
1.226.32
मुक्तपुष्पावकीर्णं तु जलसिक्तं तु सर्वतः ।
धूपितं दिव्यधूपेन मङ्गलैश्चाभिसंवृतम् ॥ १.२२६.३२ ॥
这座城市到处撒满鲜花,四面洒了清水,以天界熏香熏过,周围摆满吉祥之物。
1.226.33
पताकोच्छ्रितमाल्यं च पुरमप्रतिमं बभौ ।
शङ्खभेरीनिनादैश्च नानावादित्रनिस्वनैः ॥ १.२२६.३३ ॥
这座无与伦比的城市,旌旗与高挂的花环使之生辉,螺号、大鼓与各种乐器之声响彻四方。
1.226.34
कौतूहलेन नगरं पूर्यमाणमिवाभवत् ।
यत्र ते पुरुषव्याघ्राः शोकदुःखसमन्विताः ॥ १.२२६.३४ ॥
城中仿佛因好奇而充满,那些人中虎(般度五子)正满怀悲哀与痛苦而在此。
1.226.35
निर्गताश्च पुरात्पूर्वं धृतराष्ट्रप्रबाधिताः ।
पुनर्निवृत्ता दिष्ट्या वै सह मात्रा परन्तपाः ॥ १.२२६.३५ ॥
此前他们因持国王的迫害而离开城市;如今幸运地与母亲一同返回了,诸位焚敌者啊。
1.226.36
इत्येवमीरिता वाचो जनैः प्रियचिकीर्षुभिः ।
तत उच्चावचा वाचः प्रियाः सर्वत्र भारत ॥ १.२२६.३६ ॥
众人想要取悦他们,便如此说道;于是,婆罗多啊,到处都听到各式各样令人愉悦的话语。
1.226.37
उदीरितास्तदाऽशृण्वन्पाण्डवा हृदयंगमाः ।
अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित् ॥ १.२२६.३७ ॥
此时般度之子听到令人心悦的话语:那位人中虎、知法者又将归来。
1.226.38
यो नः स्वानिव दायादान्धर्मेण परिरक्षति ।
अद्य पाण्डुर्महाराजो वनादिव मनःप्रियम् ॥ १.२२६.३८ ॥
他如同守护自家子嗣一般依法护佑我们;今日大王般度(坚战)从林中归来,令人心所爱。
1.226.39
आगतश्चैवमस्माकं चिकीर्षन्नात्र संशयः ।
किं न्वद्य सुकृतं कर्म सर्वेषां नः प्रियं परम् ॥ १.२२६.३९ ॥
他前来是为了成就我们的利益,此中无疑。今日这是何等善行,对我们所有人都是至上的喜悦!
1.226.40
यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः ।
यदि दत्तं यदि हुतं यदि वाप्यस्ति नस्तपः।
तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम् ॥ १.२२६.४० ॥
既然贡蒂的英雄之子、我们的主人已经归来:若我们曾行布施、曾献祭,或我们有任何苦行,愿凭此功德,般度子孙在这座城中居住一百个秋天。
1.226.41
ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः ।
अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम् ॥ १.२२६.४१ ॥
随后,他们向持国、大德毗湿摩以及其他值得礼敬的人,行了顶礼。
1.226.42
पृष्टास्तु कुशलप्रश्नं सर्वेण नगरेण ते ।
समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् ॥ १.२२६.४२ ॥
全城之人都问候他们的安好;依持国之命,他们进入了宫室。