Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.23

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.23.1

तं समुद्रमतिक्रम्य कद्रूर्विनतया सह ।
न्यपतत्तुरगाभ्याशे न चिरादिव शीघ्रगा ॥ १.२३.१ ॥

卡德鲁与毗那塔一同渡过那片大海,不久便迅速降落在骏马附近。

1.23.2

ततस्ते तं हयश्रेष्ठं ददृशाते महाजवम् ।
शशाङ्ककिरणप्रख्यं कालवालमुभे तदा ॥ १.२३.२ ॥

于是她们两人看见那匹最好的骏马,它极其迅疾,闪耀如月光,尾巴乌黑。

1.23.3

निशाम्य च बहून्वालान्कृष्णान्पुच्छसमाश्रितान् ।
विषण्णरूपां विनतां कद्रूर्दास्ये न्ययोजयत् ॥ १.२३.३ ॥

卡德鲁看见尾上缠附的许多黑毛,便把面容忧愁的毗那塔置于奴役之中。

1.23.4

ततः सा विनता तस्मिन्पणितेन पराजिता ।
अभवद्दुःखसंतप्ता दासीभावं समास्थिता ॥ १.२३.४ ॥

于是毗那塔因那赌注而败北,被悲痛折磨,便成了奴婢的身份。

1.23.5

एतस्मिन्नन्तरे चापि गरुडः काल आगते ।
विना मात्रा महातेजा विदार्याण्डमजायत ॥ १.२३.५ ॥

其间,时候一到,大光辉的迦楼罗在没有母亲的情况下破壳而出。

1.23.6

महासत्त्वबलोपेतः सर्वा विद्योतयन्दिशः ।
कामरूपः कामगमः कामवीर्यो विहंगमः ॥ १.२३.६ ॥

具有大力量与大威力,照亮一切方向,随意变化形貌,随意往来,随意施展威力的那只飞鸟。

1.23.7

अग्निराशिरिवोद्भासन्समिद्धोऽतिभयंकरः ।
विद्युद्विस्पष्टपिङ्गाक्षो युगान्ताग्निसमप्रभः ॥ १.२३.७ ॥

他如火堆般闪耀,炽烈而极其可怖,淡黄色的眼睛清澈如闪电,光辉与宇宙末劫之火相等。

1.23.8

प्रवृद्धः सहसा पक्षी महाकायो नभोगतः ।
घोरो घोरस्वनो रौद्रो वह्निरौर्व इवापरः ॥ १.२३.८ ॥

他忽然增大,成为身躯巨大的鸟,飞入天空;声音可怖而凶猛,宛如另一团裔婆之火。

1.23.9

तं दृष्ट्वा शरणं जग्मुर्देवाः सर्वे विभावसुम् ।
प्रमिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम् ॥ १.२३.९ ॥

众天神见此,便投奔火神毗婆娑(Vibhāvasu)求庇护;他们走近顶礼,对端坐、具普遍形相的他说道。

1.23.10

अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि ।
असौ हि राशिः सुमहान्समिद्धस्तव सर्पति ॥ १.२३.१० ॥

啊,火神!你不要再增大了;莫非你想焚烧我们?你那巨大燃烧的火堆正在移动。

1.23.11

नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः ।
गरुडो बलवानेष मम तुल्यश्च तेजसा ॥ १.२३.११ ॥

诸位阿修罗的摧毁者,事情并不如你们所想;此迦鲁达强大,在光辉上与我相等。

1.23.12

जातः परमतेजस्वी विनतानन्दवर्धनः ।
तेजोराशिमिमं दृष्ट्वा युष्मान्मोहः समाविशत् ॥ १.२३.१२ ॥

他生而具至上光辉,增益毗那塔的喜乐。见到这团光辉之聚,你们心中便生起了迷惑。

1.23.13

नागक्षयकरश्चै काश्यपेयो महाबलः ।
देवानां च हिते युक्तस्त्वहितो दैत्यरक्षसाम् ॥ १.२३.१३ ॥

他毁灭蛇神那伽,是迦叶波的大力之子,致力于诸神之利,却与阿修罗和罗刹为敌。

1.23.14

न भीः कार्या कथं चात्र पश्यध्वं सहिता मया ।
एवमुक्तास्तदा गत्वा गरुडं वाग्भिरस्तुवन् ॥ १.२३.१४ ॥

不要害怕,同我一起观看吧。”听了这话,他们便走向迦楼罗,以言辞赞颂他。

1.23.15

ते दूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा ।
त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः ॥ १.२३.१५ ॥

那时,诸神与众仙人从远处走近他,说道:“你是仙人,你是大福之人,你是天神,你是飞禽之主。”

1.23.16

त्वं प्रभुस्तपनः सूर्यः परमेष्ठी प्रजापतिः ।
त्वमिन्द्रस्त्वं हयमुखस्त्वं शर्वस्त्वं जगत्पतिः ॥ १.२३.१६ ॥

你是主宰,是炙热的太阳,是至尊,是众生之主;你是因陀罗,你是马首,你是湿婆,你是世界之主。

1.23.17

त्वं मुखं पद्मजी विप्रस्त्वमग्निः पवनस्तथा ।
त्वं हि धाता विधाता च त्वं विष्णुः सुरसत्तमः ॥ १.२३.१७ ॥

你是面容,是生于莲花者,是婆罗门;你是火神,风也是你。你实为创造者与安排者,你是毗湿奴,诸神中最优秀者。

1.23.18

त्वं महानभिभूः शश्वदमृतं त्वं महद्यशः ।
त्वं प्रभास्त्वमभिप्रेतं त्वं नस्त्राणमनुत्तमम् ॥ १.२३.१८ ॥

你伟大,永远是胜者,是不死;你是伟大的荣誉。你是光明,你是所求;对我们而言,你是无上的庇护。

1.23.19

ह्यनागतं चोपगतं च सर्वम् ॥ १.२३.१९ ॥

未来与现在,一切(皆是您)。

1.23.20

त्वमुत्तमः सर्वमिदं चराचरं ।
गभस्तिभिर्भानुरिवावभाससे।
समाक्षिपन्भानुमतः प्रभां मुहु-
स्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम् ॥ १.२३.२० ॥

您是至上者;这一切,动与不动。您以光芒照耀如太阳;一次又一次地使太阳的光辉也黯淡。您是终结者;这一切,常住与无常。

1.23.21

दिवाकरः परिकुपितो यथा दहे-
त्प्रजास्तथा दहसि हुताशनप्रभ।
भयंकरः प्रलय इवाग्निरुत्थितो ।
विनाशयन्युगपरिवर्तनान्तकृत् ॥ १.२३.२१ ॥

如同愤怒的太阳焚烧众生,您也如此焚烧,啊,祭火之光。如同毁灭时可怖的火焰升起,您是劫运更替的终结者,正在毁灭。

1.23.22

खगेश्वरं शरणमुपागता वयं ।
महौजसं ज्वलनसमानवर्चसम्।
तडित्प्रभं वितिमिरमभ्रगोचरं ।
महाबलं गरुडमुपेत्य खेचरम् ॥ १.२३.२२ ॥

我们前来投靠鸟王——伟大的迦鲁达,力量强大,光辉如火,闪电般明亮,无暗,行于天空,大力,飞翔于空中,我们已走近他。

1.23.23

परावरं वरदमजय्यविक्रमं ।
तवौजस सर्वमिदं प्रतापितम्।
जगत्प्रभो तप्तसुवर्णवर्चसा ।
त्वं पाहि सर्वांश्च सुरान्महात्मनः ॥ १.२३.२३ ॥

施予高下众生恩惠者,武勇不可战胜——以您的威力,这一切都被灼烧。啊,世界之主,光辉如精炼的金子,请您保护一切诸天,啊,大德者。

1.23.24

भयान्विता नभसि विमानगामिनो ।
विमानिता विपथगतिं प्रयान्ति ते।
ऋषेः सुतस्त्वमसि दयावतः प्रभो ।
महात्मनः खगवर कश्यपस्य ह ॥ १.२३.२४ ॥

飞行于天空的天车之人,满怀恐惧,车辆破碎,走上毁灭的歧途。啊,主上,您是慈悲之仙人的儿子——大德迦叶波之子,啊,鸟中之最。

1.23.25

स मा क्रुधः कुरु जगतो दयां परां ।
त्वमीश्वरः प्रशममुपैहि पाहि नः।
महाशनिस्फुरितसमस्वनेन ते ।
दिशोऽम्बरं त्रिदिवमियं च मेदिनी ॥ १.२३.२५ ॥

请勿愤怒;对世界施以至高的慈悲。你是主宰;请平静下来,保护我们。你那如同巨大霹雳炸裂般的声音,使四方、天空、天界和大地都在震颤。

1.23.26

शिवश्च नो भव भगवन्सुखावहः ॥ १.२३.२६ ॥

尊贵的主啊,愿你对我们吉祥,带给我们幸福。

1.23.27

एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा ।
तेजसः प्रतिसंहारमात्मनः स चकार ह ॥ १.२३.२७ ॥

如此受到诸天与仙人群的赞颂,苏波那(迦楼罗)便收敛了自身的光芒。