Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.233

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.233.1

एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः ।
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ॥ १.२३३.१ ॥

如此订立约定之后,般度五子便住在那里,凭借兵器的威势,使其他地上的君王臣服于己。

1.233.2

तेषां मनुजसिंहानां पञ्चानाममितौजसाम् ।
बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी ॥ १.२३३.२ ॥

黑天(德劳帕迪)成为这五位人中雄狮、普利塔之子所有人都能驱使的妻子,他们力量无量。

1.233.3

ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः ।
बभूव परमप्रीता नागैरिव सरस्वती ॥ १.२३३.३ ॥

她与那五位英勇的丈夫在一起,极其欢喜,犹如萨罗斯瓦蒂河与龙众在一起时那般欢悦。

1.233.4

वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु ।
व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः ॥ १.२३३.४ ॥

当高尚的般度五子依法而行时,所有俱卢人都兴旺起来,无有过失,充满安乐。

1.233.5

अथ दीर्घेण कालेन ब्राह्मणस्य विशांपते ।
कस्यचित्तस्करा जह्रुः केचिद्गा नृपसत्तम ॥ १.२३३.५ ॥

此后经过很长时间,人主啊,王中之最,有些盗贼夺走了某位婆罗门的牛群。

1.233.6

ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः ।
आगम्य खाण्डवप्रस्थमुदक्रोशत्स पाण्डवान् ॥ १.२३३.६ ॥

当那些财物被夺走时,那位婆罗门因愤怒而昏乱,来到了丹达婆普拉斯塔,向般度五子大声呼喊。

1.233.7

ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः ।
प्रसह्य चास्मद्विषयादभ्यधावत पाण्डवाः ॥ १.२३३.७ ॥

卑劣、残忍、不自律之徒正在从我们的王国强行夺走牛群财富。般度之子啊,快去追赶他们!

1.233.8

ब्राह्मणस्य प्रशान्तस्य हविर्ध्वाङ्क्षैः प्रलुप्यते ।
शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्दति ॥ १.२३३.८ ॥

如乌鸦劫掠寂静婆罗门的祭供,卑贱的豺狼践踏空虚的虎穴,此事正是如此发生。

1.233.9

अरक्षितारं राजानं बलिषद्भागहारिणम् ।
तमाहुः सर्वलोकस्य समग्रं पापचारिणम् ॥ १.२३३.९ ॥

不加保护却取六分之一作为赋税的国王,全世界都称他为彻底的罪人。

1.233.10

ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते ।
रोरूयमाणे च मयि क्रियतां हस्तधारणा ॥ १.२३३.१० ॥

盗贼夺走了婆罗门的财物,法与利皆已毁坏;我正在哀号,请伸出援手。

1.233.11

रोरूयमाणस्याभ्याशे भृशं विप्रस्य पाण्डवः ।
तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनञ्जयः ॥ १.२३३.११ ॥

婆罗门在近处大声哀号,般度之子、贡蒂之子德奢赞耶听见了这些话。

1.233.12

श्रुत्वैव च महाबाहुर्मा भैरित्याह तं द्विजम् ।
आयुधानि च यत्रासन्पाण्डवानां महात्मनां ॥ १.२३३.१२ ॥

他听后立即对那位再生者说:“不要害怕。”然后前往大智般度诸子存放兵器之处。

1.233.13

कृष्णया सह तत्रास्ते धर्मराजो युधिष्ठिरः ।
संप्रवेशाय चाशक्तो गमनाय च पाण्डवः ॥ १.२३३.१३ ॥

与黑公主在一起,法王坚战留在那里,既无法进入,也无法离去,这位般度之子。

1.233.14

तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनःपुनः ।
आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः ॥ १.२३३.१४ ॥

在那婆罗门痛苦的言语反复催促下,悲伤的昆提之子在那里于哭声中沉思。

1.233.15

ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः ।
अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चयः ॥ १.२३३.१५ ॥

当那位苦行婆罗门的财物被夺走时,他决定拭去他的眼泪是应尽的责任。

1.233.16

उपर्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः ।
यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम् ॥ १.२३३.१६ ॥

今日若不庇护这位在门口哭泣的人,由君王疏忽而生的大非法将是巨大的。

1.233.17

अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे ।
प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत् ॥ १.२३३.१७ ॥

即使在我们的庇护中,众人的不信若在此世立足,那么对我们而言也将是非法。

1.233.18

अनापृच्छय तु राजानं गते मयि न संशयः ।
अजातशत्रोर्नृपतेर्मयि चैवानृतं भवेत् ॥ १.२३३.१८ ॥

若不问君王便离去,毫无疑问;那么对阿阇世王和我而言都将成为虚妄。

1.233.19

अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम ।
सर्वमन्यत्परिहृतं धर्षणात्तु महीपतेः ॥ १.२३३.१९ ॥

因为我进入了国王的内室,我将被流放到森林中;由于冒犯了大地之主,其余一切都被搁置。

1.233.20

अधर्मो वै महानस्तु वने वा मरणं मम ।
शरीरस्य विनाशेन धर्म एव विशिष्यते ॥ १.२३३.२० ॥

即使我的过错很大,或要住在森林里,或要死去;即便身体毁灭,法(达摩)依然是最殊胜的。

1.233.21

एवं विनिश्चित्य ततः कुन्तीपुत्रो धनञ्जयः ।
अनुप्रविश्य राजानमापृच्छय च विशांपते ॥ १.२३३.२१ ॥

如此决定之后,贡蒂之子阿周那(财胜)进入内室,哦,人民之主,向国王告辞。

1.233.22

मुखमाच्छाद्य निबिडमुत्तरीयेण वाससा ।
अग्रजं चार्जुनो गेहादभिवाद्याशु निःसृतः ॥ १.२३३.२२ ॥

用外衣紧紧遮住脸,阿周那向哥哥致敬后,迅速离开了房屋。

1.233.23

धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत ।
ब्राह्मणा गम्यतां शीघ्रं यावत्परधनैर्षिणः ॥ १.२३३.२३ ॥

阿周那拿起弓,欢喜地对婆罗门说:“婆罗门,快走吧,趁着那些觊觎他人财富的人还没有走远。”

1.233.24

न दूरे ते गताः क्षुद्रास्तावद्गच्छावहे सह ।
यावन्निवर्तयाम्यद्य चोरहस्ताद्धनं तव ॥ १.२३३.२४ ॥

那些卑劣之徒还没有走远;我们一起去吧,直到今天我从窃贼手中为你夺回财物。

1.233.25

सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी ।
शरैर्विध्वस्य तांश्चोरानवजित्य च तद्धनम् ॥ १.२३३.२५ ॥

他追赶上去,这位大臂者手持弓,身披甲,立于战车之上,高举旗幡,以箭驱散了那些盗贼,将他们征服,并夺回了那笔财富。

1.233.26

ब्राह्मणं समुपाकृत्य यशः प्राप्य च पाण्डवः ।
ततस्तद्गेधनं पार्थो दत्त्वा तस्मै द्विजातये ॥ १.२३३.२६ ॥

唤来婆罗门并赢得声誉之后,般度之子普利塔之子便将那笔财富交给了这位再生者。

1.233.27

आजगाम पुरं वीरः सव्यसाची धनञ्जयः ।
सोऽभिवाद्य गुरून्सर्वान्सर्वैश्चाप्यभिनन्दितः ॥ १.२३३.२७ ॥

英雄萨维亚萨钦、财主(达难闍耶)来到城中。他向所有长辈行礼,众人也都向他致意赞许。

1.233.28

धर्मराजमुवाचेदं व्रतमादिश मे प्रभो ।
समयः समतिक्रान्तो भवत्संदर्शने मया ॥ १.२३३.२८ ॥

他对法王说:“主啊,请为我指定我的誓愿。在见到您之时,我与您约定的期限已经过去了。”

1.233.29

वनवासं गमिष्यामि समयो ह्येष नः कृतः ।
इत्युक्तो धर्मरास्तु सहसा वाक्यमप्रियम् ॥ १.२३३.२९ ॥

“我将前往森林流放;这正是我们所定的约定。”他这样说了之后,法王忽然说了一句令人不快的话。

1.233.30

कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया ।
युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम् ॥ १.२३३.३० ॥

“怎么会这样?”——被悲伤所折磨的坚战,以颤抖的声音对他的兄弟古达克沙(阿周那),他那不动摇的兄弟,这样说道。

1.233.31

उवाच दीनो राजा च धनञ्जयमिदं वचः ।
प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ ॥ १.२३३.३१ ॥

悲伤的国王对财富征服者说道:「无垢者啊,若你以我为准,请听我的话。」

1.233.32

अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम् ।
सर्वं तदनुजानामि व्यलीकं न च मे हृदि ॥ १.२३३.३२ ॥

英雄啊,你闯入时令我不快之事,我全都原谅;我心中并无怨恨。

1.233.33

गुरोरनुप्रवेशो हि नोपघातो यवीयसः ।
यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः ॥ १.२३३.३३ ॥

在兄长之后进入并不伤害幼弟;但幼弟在兄长之后进入,则违背了兄长的规矩。

1.233.34

निवर्तस्व महाबाहो कुरुष्व वचनं मम ।
न हि ते धर्मलोपोऽस्ति न च ते धर्पणा कृता ॥ १.२३३.३४ ॥

大臂者啊,回去吧,听从我的话。你并未违背达摩,也未曾有任何冒犯。

1.233.35

न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम् ।
न सत्याद्विचलिष्यामि सत्येनायुधमालभे ॥ १.२३३.३५ ॥

「达摩不应以欺诈行之」——这是我从您那里听到的。我不会背离真理;以真理之名,我触摸我的武器。

1.233.36

सोऽभ्यनुज्ञाय राजानं वनचर्याय दीक्षितः ।
वने द्वादश मासांस्तु वासायानुजगाम ह ॥ १.२३३.३६ ॥

他向国王告辞,立下居林之誓,便前往森林中居住了十二个月。