Vedyatra वेदयात्रा
Search

Mahābhārata · Adhyāya 1.235

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

Read with meanings

1.235.1

कथयित्वा च तत्सर्वं ब्राह्मणेभ्यः स भारत ।
प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः ॥ १.२३५.१ ॥

Having related all this to the brahmins, O Bhārata, the son of the thunderbolt-wielder then set out toward the flank of the Himālaya.

1.235.2

अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम् ।
भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः ॥ १.२३५.२ ॥

Having reached the banyan of Agastya and the mountain of Vasiṣṭha, and at Bhṛgutuṅga, the son of Kuntī purified himself.

1.235.3

प्रददौ गोसहस्राणि सुबहूनि च भारत ।
निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः ॥ १.२३५.३ ॥

O Bhārata, that best of the Kurus gave thousands of cows and many dwellings to the twice-born.

1.235.4

हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः ।
दृष्टवान्पाण्डवश्रेष्ठः पुण्यान्यायतनानि च ॥ १.२३५.४ ॥

Having bathed at the sacred ford of Hiraṇyabindu, the best of men, the foremost of the Pāṇḍavas, beheld the holy shrines.

1.235.5

अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत ।
प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः ॥ १.२३५.५ ॥

O Bhārata, the best of men, the bull of the Bharatas, descended with the brahmins and set out, wishing to go toward the eastern quarter.

1.235.6

आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः ।
नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति ॥ १.२३५.६ ॥

In due order the best of the Kurus beheld the sacred fords, and toward the lovely river Utpalinī and the forest of Naimiṣa.

1.235.7

नन्दामपरनन्दां च कौशिकीं च यशस्विनीम् ।
महानदीं गयां चैव गङ्गामपि च भारत ॥ १.२३५.७ ॥

The Nandā and the Aparanandā, the renowned Kauśikī, the great river, Gayā, and the Gaṅgā too, O Bhārata.

1.235.8

एवं तीर्थानि सर्वाणि पश्यमानस्तथाश्रमान् ।
आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ च गाः ॥ १.२३५.८ ॥

Thus, seeing all the sacred fords and hermitages, purifying himself, he gave cows to the brahmins.

1.235.9

अङ्गवङ्गकलिङ्गेषु यानि तीर्थानि कानिचित् ।
जगाम तानि सर्वाणि पुण्यान्यायतनानि च ॥ १.२३५.९ ॥

Whatever sacred fords there were in Aṅga, Vaṅga and Kaliṅga, he went to all of them and their meritorious sacred abodes.

1.235.10

दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः ।
कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः।
अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत ॥ १.२३५.१० ॥

Having seen them as prescribed, he also gave wealth. Then at the gates of the Kaliṅga realm, the brahmins who had followed the Pāṇḍavas took leave of Kaunteya and returned, O Bhārata.

1.235.11

स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनञ्जयः ।
सहायैरल्पकैः शूरः प्रययौ यत्र सागरः ॥ १.२३५.११ ॥

Taking leave of them, Dhanañjaya, the valiant son of Kuntī, went with only a few companions to where the ocean was.

1.235.12

स कलिङ्गानतिक्रम्य देशानायतनानि च ।
हर्म्याणि रमणीयानि प्रेक्षणाणो ययौ प्रभुः ॥ १.२३५.१२ ॥

Passing beyond the Kaliṅgas, the countries, the sacred abodes and the delightful palaces, the lord went on, looking about.

1.235.13

महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम् ।
गोदावर्यां ततः स्नात्वा तामतीत्य महाबलः ॥ १.२३५.१३ ॥

Seeing the Mahendra mountain, adorned with ascetics, and then bathing in the Godāvarī and crossing beyond it, the mighty one went on.

1.235.14

कावेरीं तां समासाद्य सङ्गमे सागरस्य च ।
स्नात्वा संपूज्य देवांश्च पितॄंश्च मुनिभिः सह ॥ १.२३५.१४ ॥

Arriving at the Kāverī, and bathing at the confluence with the ocean, he worshipped the gods and the ancestors together with the sages.

1.235.15

समुद्रतीरेण शनैर्मणलूरं जगाम ह ॥ १.२३५.१५ ॥

Along the sea-shore, slowly, he went to Maṇalūra.

1.235.16

तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च ।
अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम् ॥ १.२३५.१६ ॥

There, having visited all the sacred fords and holy shrines, the mighty-armed one approached the lord of the earth.

1.235.17

मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम् ।
तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना ॥ १.२३५.१७ ॥

O king, to Citravāhana, lord of Maṇalūra, knower of dharma; he had a daughter named Citrāṅgadā, lovely to behold.

1.235.18

तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया ।
दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहनीम् ॥ १.२३५.१८ ॥

He saw her wandering by chance in that city; having seen the fair-hipped daughter of Citravāhana, he desired her.

1.235.19

अभिगम्य च राजानमवदत्स्वं प्रयोजनम् ।
देहि मे खल्विमां राजन्क्षत्रियाय महात्मने ॥ १.२३५.१९ ॥

Approaching the king, he stated his purpose: "O king, give this woman to me, a great-souled kṣatriya."

1.235.20

तच्छ्रुत्वा त्वब्रवीद्राजा कस्य पुत्रोऽसि नाम किम् ।
उवाच तं पाण्डवोऽहं कुन्तीपुत्रो धनञ्जयः ॥ १.२३५.२० ॥

Hearing that, the king said, "Whose son are you, and what is your name?" He replied, "I am a Pāṇḍava, Dhanañjaya, the son of Kuntī."

1.235.21

तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः ।
राजा प्रभञ्जनो नाम कुलेऽस्मिन्संबभूव ह ॥ १.२३५.२१ ॥

Then the king spoke these words to him gently: "In this lineage was born a king named Prabhañjana."

1.235.22

अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम् ।
उग्रेण तपसा तेन देवदेवः पिनाकधृक् ॥ १.२३५.२२ ॥

Being sonless and desiring offspring, he performed a supreme penance; through that fierce austerity, the god of gods, the bearer of the Pināka bow...

1.235.23

ईश्वरस्तोषितः पार्थ देवदेवः उमापतिः ।
स तस्मै भघवान्प्रादादेकैकं प्रसवं कुले ॥ १.२३५.२३ ॥

O Pārtha, the lord, the god of gods, Umāpati, was pleased; that blessed one granted him offspring for his lineage, one child at a time.

1.235.24

एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा ।
तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे ॥ १.२३५.२४ ॥

From him, in this lineage, one offspring always came to be, and sons were born to all of them, my forefathers.

1.235.25

एका च मम कन्येयं कुलस्योत्पादनी भृशम् ।
पुत्रो ममायमिति मे भावना पुरुषर्षभ ॥ १.२३५.२५ ॥

This one daughter of mine is greatly able to multiply the lineage. My intention is: 'This one shall be my son,' O best of men.

1.235.26

पुत्रिकाहेतुविधिना संज्ञिता भरतर्षभ ।
तस्मादेकः सुतो योऽस्यां जायते भारत त्वया ॥ १.२३५.२६ ॥

O bull of the Bharatas, she has been designated by the rite of the 'putrikā' (daughter-as-son) arrangement. Therefore, O Bhārata, the one son born to her shall be yours.

1.235.27

एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह ।
एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव ॥ १.२३५.२७ ॥

Let this be her condition: let a son who perpetuates the lineage be born here. On this agreement, O Pāṇḍava, accept her.

1.235.28

स तथेति प्रतिज्ञाय तां कन्यां प्रतिगृह्य च ।
मासे त्रयोदशे पार्थः कृत्वा वैवाहिकीं क्रियाम्।
उवास नगरे तस्मिन्मासांस्त्रीन्स तया सह ॥ १.२३५.२८ ॥

Saying 'So be it,' he gave his pledge and accepted the maiden. In the thirteenth month, Pārtha performed the nuptial rite and dwelt in that city with her for three months.